भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 151

151.1*

तं दृष्ट्वा दानवाः क्रुद्धाश्चेरुः स्वैः स्वैर्बलैर्वृताः ।
सरघा इव माक्षीकहरणे सर्वतोदिशम् ॥

151.2

कृष्णचामरजालाढ्ये सुधाविरचिताङ्कुरे
चित्रपञ्चपताके तु प्रभिन्नकरटामुखे ॥

151.3

पर्वताभे गजे भीमे मदस्राविणि दुर्धरे
आरुह्याजौ निमिर्दैत्यो हरिं प्रत्युद्ययौ बली ॥

151.4

तस्यासन्दानवा रौद्रा गजस्य पदरक्षिणः
सप्तविंशतिसाहस्राः किरीटकवचोज्ज्वलाः ॥

151.5

अश्वारूढश्च मथनो जम्भकश्चोष्ट्रवाहनः
शुम्भो ऽपि विपुलं मेषं समारुह्याव्रजद्रणम् ॥

151.6

अपरे दानवेन्द्रास्तु यत्ता नानास्त्रपाणयः
आजघ्नुः समरे क्रुद्धा विष्णुमक्लिष्टकारिणम् ॥

151.7

परिघेण निमिर्दैत्यो मथनो मुद्गरेण तु
शुम्भः शूलेन तीक्ष्णेन प्रासेन ग्रसनस्तथा ॥

151.8

चक्रेण महिषः क्रुद्धो जम्भः शक्त्या महारणे
जघ्नुर्नारायणं सर्वे शेषास्तीक्ष्णैश्च मार्गणैः ॥

151.9

तान्यस्त्राणि प्रयुक्तानि शरीरं विविशुर्हरेः
गुरूक्तान्युपदिष्टानि सच्छिष्यस्य श्रुताविव ॥

151.10

असम्भ्रान्तो रणे विष्णुर् अथ जग्राह कार्मुकम्
शरांश्चाशीविषाकारांस् तैलधौतानजिह्मगान् ॥

151.11

ततो ऽभिसंध्य दैत्यांस्तान् आकर्णाकृष्टकार्मुकः
अभ्यद्रवद्रणे क्रुद्धो दैत्यानीके तु पौरुषात् ॥

151.12

निमिं विव्याध विंशत्या बाणानामग्निवर्चसाम्
मथनं दशभिर्बाणैः शुम्भं पञ्चभिरेव च ॥

151.13

एकेन महिषं क्रुद्धो विव्याधोरसि पत्त्रिणा
जम्भं द्वादशभिस्तीक्ष्णैः सर्वांश्चैकैकशो ऽष्टभिः ॥

151.14

तस्य तल्लाघवं दृष्ट्वा दानवाः क्रोधमूर्छिताः
नर्दमानाः प्रयत्नेन चक्रुरत्यद्भुतं रणम् ॥

151.15

चिछेदाथ धनुर्विष्णोर् निमिर्भल्लेन दानवः
संध्यमानं शरं हस्ते चिछेद महिषासुरः ॥

151.16

पीडयामास गरुडं जम्भस्तीक्ष्णैस्तु सायकैः
भुजं तस्याहनद्गाढं शुम्भो भूधरसंनिभः ॥

151.17

छिन्ने धनुषि गोविन्दो गदां जग्राह भीषणाम्
तां प्राहिणोत्स वेगेन मथनाय महाहवे ॥

151.18

तामप्राप्तां निमिर्बाणैश् चिछेद तिलशो रणे
तां नाशमागतां दृष्ट्वा हीनाग्रे प्रार्थनामिव ॥

151.19

जग्राह मुद्गरं घोरं दिव्यरत्नपरिष्कृतम्
तं मुमोचाथ वेगेन निमिमुद्दिश्य दानवम् ॥

151.20

तम् आयान्तं वियत्येव त्रयो दैत्या न्यवारयन्
गदया जम्भदैत्यस्तु ग्रसनः पट्टिशेन तु ॥

151.21

शक्त्या च महिषो दैत्यः स्वपक्षजयकाङ्क्षया
निराकृतं तमालोक्य दुर्जने प्रणयं यथा ॥

151.22

जग्राह शक्तिमुग्राग्राम् अष्टघण्टोत्कटस्वनाम्
जम्भाय तां समुद्दिश्य प्राहिणोद्रणभीषणः ॥

151.23

तामम्बरस्थां जग्राह गजो दानवनन्दनः
गृहीतां तां समालोक्य शिक्षामिव विवेकिभिः ॥

151.24

दृढं भारसहं सारम् अन्यदादाय कार्मुकम्
रौद्रास्त्रमभिसंधाय तस्मिन्बाणं मुमोच ह ॥

151.25

ततो ऽस्त्रतेजसा सर्वं व्याप्तं लोकं चराचरम्
ततो बाणमयं सर्वम् आकाशं समदृश्यत ॥

151.26

भूर्दिशो विदिशश्चैव बाणजालमया बभुः
दृष्ट्वा तदस्त्रमाहात्म्यं सेननीर् ग्रसनो ऽसुरः ॥

151.27

ब्राह्ममस्त्रं चकारासौ सर्वास्त्रविनिवारणम्
तेन तत्प्रशमं यातं रौद्रास्त्रं लोकघस्मरम् ॥

151.28

अस्त्रे प्रतिहते तस्मिन् विष्णुर्दानवसूदनः
कालदण्डास्त्रमकरोत् सर्वलोकभयंकरम् ॥

151.29

संधीयमाने तस्मिंस्तु मारुतः परुषो ववौ
चकम्पे च मही देवी दैत्या भिन्नधियो ऽभवन् ॥

151.30

तदस्त्रमुग्रं दृष्ट्वा तु दानवा युद्धदुर्मदाः
चक्रुरस्त्राणि दिव्यानि नानारूपाणि संयुगे ॥

151.31

नारायणास्त्रं ग्रसनो गृहीत्वा चक्रं निमिः स्वास्त्रवरं मुमोच
ऐषीकमस्त्रं च चकार जम्भस् तत्कालदण्डास्त्रनिवारणाय ॥

151.32

यावन्न संध्या न दशां प्रयान्ति दैत्येश्वराश्चास्त्रनिवारणाय
तावत्क्षणेनैव जघान कोटीर् दैत्येश्वराणां सगजान्सहाश्वान् ॥

151.33

अनन्तरं शान्तमभूत्तदस्त्रं दैत्यास्त्रयोगेण तु कालदण्डम्
शान्तं तदालोक्य हरिः स्वशस्त्रं स्वविक्रमे मन्युपरीतमूर्तिः ॥

151.34

जग्राह चक्रं तपनायुताभम् उग्रारमात्मानमिव द्वितीयम्
चिक्षेप सेनापतये ऽभिसंध्य कण्ठस्थलं वज्रकठोरमुग्रम् ॥

151.35

चक्रं तदाकाशगतं विलोक्य सर्वात्मना दैत्यवराः स्ववीर्यैः
नाशक्नुवन्वारयितुं प्रचण्डं दैवं यथा कर्म मुधा प्रपन्नम् ॥

151.36

तमप्रतर्क्यं जनयन्नजय्यं चक्रं पपात ग्रसनस्य कण्ठे
द्विधा तु कृत्वा ग्रसनस्य कण्ठं तद्रक्तधारारुणघोरनाभि
जगाम भूयो ऽपि जनार्दनस्य पाणिं प्रवृद्धानलतुल्यदीप्ति ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc