मत्स्य पुराण · अध्याय 148
शृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः
श्रेयसे क्रियतां बुद्धिः सर्वैः कृत्यस्य संविधौ ॥
वंशक्षयकरा देवाः सर्वेषामेव दानवाः
अस्माकं जातिधर्मो वै विरूढं वैरमक्षयम् ॥
वयमद्य गमिष्यामः सुराणां निग्रहाय तु
स्वबाहुबलमाश्रित्य सर्व एव न संशयः ॥
किंतु नातपसा युक्तो मन्ये ऽहं सुरसंगमम्
अहमादौ करिष्यामि ततो घोरं दितेः सुताः ॥
ततः सुरान्विजेष्यामो भोक्ष्यामो ऽथ जगत्त्रयम्
स्थिरोपायो हि पुरुषः स्थिरश्रीरपि जायते ॥
रक्षितुं नैव शक्नोति चपलश्चपलाः श्रियः
तच्छ्रुत्वा दानवाः सर्वे वाक्यं तस्यासुरस्य तु ॥
साधु साध्वित्यवोचंस्ते तत्र दैत्याः सविस्मयाः
सो ऽगच्छत्पारियात्रस्य गिरेः कन्दरमुत्तमम् ॥
सर्वर्तुकुसुमाकीर्णं नानौषधिविदीपितम्
नानाधातुरसस्राव चित्रं नानागुहागृहम् ॥
गहनैः सर्वतो गूढं चित्रकल्पद्रुमाश्रयम्
अनेकाकारबहुलं पृथक्पक्षिकुलाकुलम् ॥
नानाप्रस्रवणोपेतं नानाविधजलाशयम्
प्राप्य तत्कन्दरं दैत्यश् चचार विपुलं तपः ॥
निराहारः पञ्चतपाः पत्त्रभुग्वारिभोजनः
शतं शतं समानां तु तपांस्येतानि सो ऽकरोत् ॥
ततः स्वदेहादुत्कृत्य कर्षं कर्षं दिने दिने
मांसस्याग्नौ जुहावासौ ततो निर्मांसतां गतः ॥
तस्मिन्निर्मांसतां याते तपोराशित्वमागते
जज्वलुः सर्वभूतानि तेजसा तस्य सर्वतः ॥
उद्विग्नाश्च सुराः सर्वे तपसा तस्य भीषिताः
एतस्मिन्नन्तरे ब्रह्मा परमं तोषमागतः ॥
तारकस्य वरं दातुं जगाम त्रिदशालयात्
प्राप्य तं शैलराजानं स गिरेः कन्दरस्थितम्
उवाच तारकं देवो गिरा मधुरया युतः ॥
पुत्रालं तपसा ते ऽस्तु नास्त्यसाध्यं तवाधुना
वरं वृणीष्व रुचिरं यत्ते मनसि वर्तते ॥
इत्युक्तस्तारको दैत्यः प्रणम्यात्मभुवं विभुम्
उवाच प्राञ्जलिर्भूत्वा प्रणतः पृथुविक्रमः ॥
देवभूतमनोवास वेत्सि जन्तुविचेष्टितम्
कृतप्रतिकृताकाङ्क्षी जिगीषुः प्रायशो जनः ॥
वयं च जातिधर्मेण कृतवैराः सहामरैः
तैश्च निःशेषिता दैत्याः क्रूरैः संत्यज्य धर्मिताम्
तेषामहं समुद्धर्ता भवेयमिति मे मतिः ॥
अवध्यः सर्वभूतानाम् अस्त्राणां च महौजसाम्
स्यामहं परमो ह्येष वरो मम हृदि स्थितः ॥
एतन्मे देहि देवेश नान्यो मे रोचते वरः
तमुवाच ततो दैत्यं विरिञ्चिः सुरनायकः ॥
न युज्यन्ते विना मृत्युं देहिनो दैत्यसत्तम
यतस्ततो ऽपि वरय मृत्युं यस्मान्न शङ्कसे ॥
ततः संचिन्त्य दैत्येन्द्रः शिशोर्वै सप्तवासरात्
वव्रे महासुरो मृत्युम् अवलेपेन मोहितः ॥
ब्रह्मा चास्मै वरं दत्त्वा यत्किंचिन्मनसेप्सितम्
जगाम त्रिदिवं देवो दैत्यो ऽपि स्वकमालयम् ॥
उत्तीर्णं तपसस्तं तु दैत्यं दैत्येश्वरास्तथा
परिवव्रुः सहस्राक्षं दिवि देवगणा यथा ॥
तस्मिन्महति राज्यस्थे तारके दैत्यनन्दने
ऋतवो मूर्तिमन्तश्च स्वकालगुणबृंहिताः ॥
अभवन्किंकरास्तस्य लोकपालाश्च सर्वशः
कान्तिर्द्युतिर्धृतिर्मेधा श्रीरवेक्ष्य च दानवम् ॥
परिवव्रुर्गुणाकीर्णा निश्छिद्राः सर्व एव हि
कालागुरुविलिप्ताङ्गं महामुकुटभूषणम् ॥
रुचिराङ्गदनद्धाङ्गं महासिंहासने स्थितम्
वीजयन्त्यप्सरःश्रेष्ठा भृशं मुञ्चन्ति नैव ताः ॥
चन्द्रार्कौ दीपमार्गेषु व्यजनेषु च मारुतः
कृतान्तो ऽग्रेसरस्तस्य बभूवुर्मुनिसत्तमाः ॥
एवं प्रयाति काले तु वितते तारकासुरः
बभाषे सचिवान्दैत्यः प्रभूतवरदर्पितः ॥
राज्येन कारणं किं मे त्व् अनाक्रम्य त्रिविष्टपम्
अनिर्याप्य सुरैर्वैरं का शान्तिर्हृदये मम ॥
भुञ्जते ऽद्यापि यज्ञांशान् अमरा नाक एव हि
विष्णुः श्रियं न जहति तिष्ठते च गतभ्रमः ॥
स्वस्थाभिः स्वर्गनारीभिः पीड्यन्ते ऽमरवल्लभाः
सोत्पला मदिरामोदा दिवि क्रीडायनेषु च ॥
लब्ध्वा जन्म न यः कश्चिद् घटयेत्पौरुषं नरः
जन्म तस्य वृथा भूतम् अजन्मा तु विशिष्यते ॥
मातापितृभ्यां न करोति कामान् बन्धूनशोकान्न करोति यो वा
कीर्तिं हि वा नार्जयते हिमाभां पुमान्स जातो ऽपि मृतो मतं मे ॥
तस्माज्जयायामरपुंगवानां त्रैलोक्यलक्ष्मीहरणाय शीघ्रम्
संयोज्यतां मे रथमष्टचक्रं बलं च मे दुर्जयदैत्यचक्रम्
ध्वजं च मे काञ्चनपट्टनद्धं छत्त्रं च मे मौक्तिकजालबद्धम् ॥
तारकस्य वचः श्रुत्वा ग्रसनो नाम दानवः
सेनानीर् दैत्यराजस्य तथा चक्रे बलान्वितः ॥
आहत्य भेरीं गम्भीरां दैत्यानाहूय सत्वरः
तुरगाणां सहस्रेण चक्राष्टकविभूषितम् ॥
शुक्लाम्बरपरिष्कारं चतुर्योजनविस्तृतम्
नानाक्रीडागृहयुतं गीतवाद्यमनोहरम् ॥
विमानमिव देवस्य सुरभर्तुः शतक्रतोः
दशकोटीश्वरा दैत्या दैत्यानां चण्डविक्रमाः ॥
तेषामग्रेसरो जम्भः कुजम्भो ऽनन्तरस्ततः
महिषः कुञ्जरो मेघः कालनेमिर्निमिस्तथा ॥
मथनो जम्भकः शुम्भो दैत्येन्द्रा दश नायकाः
अन्ये ऽपि शतशस्तस्य पृथिवीदलनक्षमाः ॥
दैत्येन्द्रा गिरिवर्ष्माणः सन्ति चण्डपराक्रमाः
नानायुधप्रहरणा नानाशस्त्रास्त्रपारगाः ॥
तारकस्याभवत्केतू रौद्रः कनकभूषणः
केतुना मकरेणापि सेनानीर् ग्रसनो ऽरिहा ॥
पैशाचं यस्य वदनं जम्भस्यासीदयोमयम्
खरविधूतलाङ्गूलं कुजम्भस्याभवद्ध्वजे ॥
महिषस्य तु गोमायुः केतोर्हैमस्तदाभवत्
ध्वाङ्क्षो ध्वजे तु शुम्भस्य कृष्णायोमयमुच्छ्रितम् ॥
अनेकाकारविन्यासाश् चान्येषां तु ध्वजास्तथा
शतेन शीघ्रवेगाणां व्याघ्राणां हेममालिनाम् ॥
ग्रसनस्य रथो युक्तां किङ्किणीजालमालिनाम्
शतेनापि च सिंहानां रथो जम्भस्य दुर्जयः ॥
कुजम्भस्य रथो युक्तः पिशाचवदनैः खरैः
रथस्तु महिषस्योष्ट्रैर् गजस्य तु तुरंगमैः ॥
मेषस्य द्वीपिभिर्भीमैः कुञ्जरैः कालनेमिनः
पर्वताभैः समारूढो निमिर्मत्तैर्महागजैः ॥
चतुर्दन्तैर्गन्धवद्भिः शिक्षितैर्मेघभैरवैः
शतहस्तायतैः कृष्णैस् तुरंगैर्हेमभूषणैः ॥
सितचामरजालेन शोभिते दक्षिणां दिशम्
सितचन्दनचार्वङ्गो नानापुष्पस्रजोज्ज्वलः ॥
मथनो नाम दैत्येन्द्रः पाशहस्तो व्यराजत
जम्भकः किङ्किणीजाल मालमुष्ट्रं समास्थितः ॥
कालशुक्लमहामेषम् आरूढः शुम्भदानवः
अन्ये ऽपि दानवा वीरा नानावाहनगामिनः ॥
प्रचण्डचित्रकर्माणः कुण्डलोष्णीषभूषणाः
नानाविधोत्तरासङ्गा नानामाल्यविभूषणाः ॥
नानासुगन्धिगन्धाढ्या नानाबन्दिजनस्तुताः
नानावाद्यपरिस्पन्दाश् चाग्रेसरमहारथाः ॥
नानाशौर्यकथासक्तास् तस्मिन्सैन्ये महासुराः
तद्बलं दैत्यसिंहस्य भीमरूपं व्यजायत ॥
प्रमत्तचण्डमातंग तुरंगरथसंकुलम्
प्रतस्थे ऽमरयुद्धाय बहुपत्तिपताकि तत् ॥
एतस्मिन्नन्तरे वायुर् देवदूतो ऽम्बरालये
दृष्ट्वा स दानवबलं जगामेन्द्रस्य शंसितुम् ॥
स गत्वा तु सभां दिव्यां महेन्द्रस्य महात्मनः
शशंस मध्ये देवानां तत्कार्यं समुपस्थितम् ॥
तच्छ्रुत्वा देवराजस्तु निमीलितविलोचनः
बृहस्पतिमुवाचेदं वाक्यं काले महाभुजः ॥
सम्प्राप्तो ऽति विमर्दो ऽयं देवानां दानवैः सह
कार्यं किमत्र तद्ब्रूहि नीत्युपायसमन्वितम् ॥
एतच्छ्रुत्वा तु वचनं महेन्द्रस्य गिरांपतिः
इत्युवाच महाभागो बृहस्पतिरुदारधीः ॥
सामपूर्वा स्मृता नीतिश् चतुरङ्गा पताकिनी
जिगीषतां सुरश्रेष्ठ स्थितिरेषा सनातनी ॥
साम भेदस्तथा दानं दण्डश्चाङ्गचतुष्टयम्
नीतौ क्रमाद्देशकाल रिपुयोग्यक्रमादिदम् ॥
न शान्तिगोचरे लुब्धः क्रूरो लब्धसमाश्रयः
संतापितः खलो याति साध्यतां भ्रष्टसंशयः ॥
साम दैत्येषु नैवास्ति यतस्ते लब्धसंश्रयाः
जातिधर्मेण वा भेद्या दानं प्राप्तश्रिये च किम् ॥
एको ऽभ्युपायो दण्डो ऽत्र भवतां यदि रोचते
दुर्जनेषु कृतं साम महद्याति च वन्ध्यताम् ॥
भवादिति व्यवस्यन्ति क्रूराः साम महात्मनाम्
ऋजुतामार्यबुद्धित्वं दयानीतिव्यतिक्रमम् ॥
मन्यन्ते दुर्जना नित्यं साम चापि भयोदयात्
तस्माद् दुर्जनम् आक्रान्तुं श्रेयान्पौरुषसंश्रयः ॥
आक्रान्ते तु क्रिया युक्ता सतामेतन्महाव्रतम्
दुर्जनः सुजनत्वाय कल्पते न कदाचन ॥
सुजनो ऽपि स्वभावस्य त्यागं वाञ्छेत्कदाचन
एवं मे बुध्यते बुद्धिर् यूयमत्र व्यवस्यत ॥
एवमुक्तः सहस्राक्ष एवमेवेत्युवाच तम्
कर्तव्यतां स संचिन्त्य प्रोवाचामरसंसदि ॥
सावधानेन मे वाचं शृणुध्वं नाकवासिनः
भवन्तो यज्ञभोक्तारस् तुष्टात्मानो ऽतिसात्त्विकाः ॥
स्वे महिम्नि स्थिता नित्यं जगतः परिपालकाः
भवतश्चानिमित्तेन बाधने दानवेश्वराः ॥
तेषां सामादि नैवास्ति दण्ड एव विधीयताम्
क्रियतां समरोद्योगः सैन्यं संयोज्यतां मम ॥
आद्रियन्तां च शस्त्राणि पूज्यन्तामस्त्रदेवताः
वाहनानि च यानानि योजयन्तु ममामराः ॥
यमं सेनापतिं कृत्वा शीघ्रमेवं दिवौकसः
इत्युक्ताः समनह्यन्त देवानां ये प्रधानतः ॥
वाजिनामयुतेनाजौ हेमघण्टापरिष्कृतम्
नानाश्चर्यगुणोपेतं सम्प्राप्तं सर्वदैवतैः ॥
रथं मातलिना कॢप्तं देवराजस्य दुर्जयम्
यमो महिषमास्थाय सेनाग्रे समवर्तत ॥
चण्डकिंकरवृन्देन सर्वतः परिवारितः
कल्पकालोद्धतज्वाला पूरिताम्बरलोचनः ॥
हुताशनश्छागरूढः शक्तिहस्तो व्यवस्थितः
पवनो ऽङ्कुशपाणिस्तु विस्तारितमहाजवः ॥
भुजगेन्द्रसमारूढो जलेशो भगवान्स्वयम्
नरयुक्तरथे देवो राक्षसेशो वियच्चरः ॥
तीक्ष्णखड्गयुतो भीमः समरे समवस्थितः
महासिंहरवो देवो धनाध्यक्षो गदायुधः ॥
चन्द्रादित्यावश्विनौ च चतुरङ्गबलान्वितौ
राजभिः सहितास्तस्थुर् गन्धर्वा हेमभूषणाः ॥
हेमपीतोत्तरासङ्गाश् चित्रवर्मरथायुधाः
नाकपृष्ठशिखण्डास्तु वैडूर्यमकरध्वजाः ॥
जपारक्तोत्तरासङ्गा राक्षसा रक्तमूर्धजाः
गृध्रध्वजा महावीर्या निर्मलायोविभूषणाः ॥
मुसलासिगदाहस्ता रथे चोष्णीषदंशिताः
महामेघरवा नागा भीमोल्काशनिहेतयः ॥
यक्षाः कृष्णाम्बरभृतो भीमबाणधनुर्धराः
ताम्रोलूकध्वजा रौद्रा हेमरत्नविभूषणाः ॥
द्वीपिचर्मोत्तरासङ्गं निशाचरबलं बभौ
गार्ध्रपत्त्रध्वजप्रायम् अस्थिभूषणभूषितम् ॥
मुसलायुधदुष्प्रेक्ष्यं नानाप्राणिमहारवम्
किंनराः श्वेतवसनाः सितपत्त्रिपताकिनः ॥
मत्तेभवाहनप्रायास् तीक्ष्णतोमरहेतयः
मुक्ताजालपरिष्कारो हंसो रजतनिर्मितः ॥
केतुर्जलाधिनाथस्य भीमधूमध्वजानलः
पद्मरागमहारत्न विटपं धनदस्य तु ॥
ध्वजं समुच्छ्रितं भाति गन्तुकाममिवाम्बरम्
वृकेण काष्ठलोहेन यमस्यासीन्महाध्वजः ॥
राक्षसेशस्य केतोर्वै प्रेतस्य मुखमाबभौ
हेमसिंहध्वजौ देवौ चन्द्रार्कावमितद्युती ॥
कुम्भेन रत्नचित्रेण केतुर् अश्विनयोर् अभूत्
हेममातंगरचितं चित्ररत्नपरिष्कृतम् ॥
ध्वजं शतक्रतोरासीत् सितचामरमण्डितम्
सनागयक्षगन्धर्वम् अहोरगनिशाचरा ॥
सेना सा देवराजस्य दुर्जया भुवनत्रये
कोटयस्तास् त्रयस्त्रिंशद् देवदेवनिकायिनाम् ॥
हिमाचलाभे सितकर्णचामरे सुवर्णपद्मामलसुन्दरस्रजि
कृताभिरागोज्ज्वलकुङ्कुमाङ्कुरे कपोललीलालिकदम्बसंकुले ॥
स्थितस्तदैरावतनामकुञ्जरे महाबलश्चित्रविभूषणाम्बरः
विशालवस्त्रांशुवितानभूषितः प्रकीर्णकेयूरभुजाग्रमण्डलः
सहस्रदृग्बन्दिसहस्रसंस्तुतस् त्रिविष्टपे ऽशोभत पाकशासनः ॥
तुरंगमातंगबलौघसंकुला सितातपत्रध्वजराजिशालिनी
चमूश्च सा दुर्जयपत्त्रिसंतता विभाति नानायुधयोधदुस्तरा ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0