भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 147

147.1

त्रासितास्म्यपविद्धास्मि ताडिता पीडितापि च
रौद्रेण देवराजेन नष्टनाथेव भूरिशः ॥

147.2

दुःखपारमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता
पुत्रं मे तारकं देहि दुःखशोकमहार्णवात् ॥

147.3

एवमुक्तः स दैत्येन्द्रः कोपव्याकुललोचनः
शक्तो ऽपि देवराजस्य प्रतिकर्तुं महासुरः ॥

147.4

तपः कर्तुं पुनर्दैत्यो व्यवस्वेत महाबलः
ज्ञात्वा तु तस्य संकल्पं ब्रह्मा क्रूरतरं पुनः ॥

147.5

आजगाम तदा तत्र यत्रासौ दितिनन्दनः
उवाच तस्मै भगवान् प्रभुर्मधुरया गिरा ॥

147.6

किमर्थं पुत्रं भूयस्त्वं नियमं क्रूरमिच्छसि
आहाराभिमुखो दैत्य तन्नो ब्रूहि महाव्रत ॥

147.7

यावदब्दसहस्रेण निराहारस्य यत्फलम्
क्षणेनैकेन तल्लभ्यं त्यक्त्वाहारमुपस्थितम् ॥

147.8

त्यागो ह्यप्राप्तकामानां कामेभ्यो न तथा गुरुः
यथा प्राप्तं परित्यज्य कामं कमललोचन ॥

147.9

श्रुत्वैतद्ब्रह्मणो वाक्यं दैत्यः प्राञ्जलिरब्रवीत्
चिन्तयंस्तपसा युक्तो हृदि ब्रह्ममुखेरितम् ॥

147.10

उत्थितेन मया दृष्टा समाधानात्त्वदाज्ञया
महिषी भीषिता दीना रुदती शाखिनस्तले ॥

147.11

सा मयोक्ता तु तन्वङ्गी दूयमानेन चेतसा
किमेवं वर्तसे भीरु वद त्वं किं चिकीर्षसि ॥

147.12

इत्युक्ता सा मया देव प्रोवाच स्खलिताक्षरम्
वाक्यं चोवाच तन्वङ्गी भीता सा हेतुसंहितम् ॥

147.13

त्रासितास्म्यपविद्धास्मि कर्षिता पीडितास्मि च
रौद्रेण देवराजेन नष्टनाथेव भूरिशः ॥

147.14

दुःखस्यान्तमपश्यन्ती प्राणांस्त्यक्तुं व्यवस्थिता
पुत्रं मे तारकं देहि ह्य् अस्माद्दुःखमहार्णवात् ॥

147.15

एवमुक्तस्तु संक्षुब्धस् तस्याः पुत्रार्थमुद्यतः
तपो घोरं करिष्यामि जयाय त्रिदिवौकसाम् ॥

147.16

एतच्छ्रुत्वा वचो देवः पद्मगर्भोद्भवस्तदा
उवाच दैत्यराजानं प्रसन्नश्चतुराननः ॥

147.17

अलं ते तपसा वत्स मा क्लेशे दुस्तरे विश
पुत्रस्ते तारको नाम भविष्यति महाबलः ॥

147.18

देवसीमन्तिनीनां तु धम्मिल्लस्य विमोक्षणः
इत्युक्तो दैत्यनाथस्तु प्रणिपत्य पितामहम् ॥

147.19

आगत्यानन्दयामास महिषीं हर्षिताननः
तौ दम्पती कृतार्थौ तु जग्मतुः स्वाश्रमं मुदा ॥

147.20

वज्राङ्गेणाहितं गर्भं वराङ्गी वरवर्णिनी
पूर्णं वर्षसहस्रं च दधारोदर एव हि ॥

147.21

ततो वर्षसहस्रान्ते वराङ्गी सुषुवे सुतम्
जायमाने तु दैत्येन्द्रे तस्मिंल्लोकभयंकरे ॥

147.22

चचाल सकला पृथ्वी समुद्राश्च चकम्पिरे
चेलुर्महीधराः सर्वे ववुर्वाताश्च भीषणाः ॥

147.23

जेपुर्जप्यं मुनिवरा नेदुर्व्यालमृगा अपि
चन्द्रसूर्यौ जहुः कान्तिं सनीहारा दिशो ऽभवन् ॥

147.24

जाते महासुरे तस्मिन् सर्वे चापि महासुराः
आजग्मुर्हृषितास्तत्र तथा चासुरयोषितः ॥

147.25

जगुर्हर्षसमाविष्टा ननृतुश्चासुराङ्गनाः
ततो महोत्सवो जातो दानवानां द्विजोत्तमाः ॥

147.26

विषण्णमनसो देवाः समहेन्द्रास्तदाभवन्
वराङ्गी स्वसुतं दृष्ट्वा हर्षेणापूरिता तदा ॥

147.27

बहु मेने न देवेन्द्र विजयं तु तदेव सा
जातमात्रस्तु दैत्येन्द्रस् तारकश्चण्डविक्रमः ॥

147.28

अभिषिक्तो ऽसुरैः सर्वैः कुजम्भमहिषादिभिः
सर्वासुरमहाराज्ये पृथिवीतुलनक्षमैः ॥

147.29

स तु प्राप्य महाराज्यं तारको मुनिसत्तमाः
उवाच दानवश्रेष्ठान् युक्तियुक्तमिदं वचः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc