मत्स्य पुराण · अध्याय 146
कथं मत्स्येन कथितस् तारकस्य वधो महान्
कस्मिन्काले विनिर्वृत्ता कथेयं सूतनन्दन ॥
त्वन्मुखक्षीरसिन्धूत्था कथेयममृतात्मिका
कर्णाभ्यां पिबतां तृप्तिर् अस्माकं न प्रजायते
इदं मुने समाख्याहि महाबुद्धे मनोगतम् ॥
पृष्टस्तु मनुना देवो मत्स्यरूपी जनार्दनः
कथं शरवणे जातो देवः षड्वदनो विभो ॥
एतत्तु वचनं श्रुत्वा पार्थिवस्यामितौजसः
उवाच भगवान्प्रीतो ब्रह्मसूनुर्महामतिम् ॥
वज्राङ्गो नाम दैत्यो ऽभूत् तस्य पुत्रस्तु तारकः
सुरानुद्वासयामास पुरेभ्यः स महाबलः ॥
ततस्ते ब्रह्मणो ऽभ्याशं जग्मुर्भयनिपीडिताः
भीतांश्च त्रिदशान्दृष्ट्वा ब्रह्मा तेषामुवाच ह ॥
संत्यजध्वं भयं देवाः शंकरस्यात्मजः शिशुः
तुहिनाचलदौहित्रस् तं हनिष्यति दानवम् ॥
ततः काले तु कस्मिंश्चिद् दृष्ट्वा वै शैलजां शिवः
स्वरेतो वह्निवदने व्यसृजत्कारणान्तरे ॥
तत्प्राप्तं वह्निवदने रेतो देवानतर्पयत्
विदार्य जठराण्येषाम् अजीर्णं निर्गतं मुने ॥
पतितं तत्सरिद्वरां ततस्तु शरकानने
तस्मात्तु स समुद्भूतो गुहो दिनकरप्रभः ॥
स सप्तदिवसो बालो निजघ्ने तारकासुरम्
एवं श्रुत्वा ततो वाक्यं तम् ऊचुर् ऋषिसत्तमाः ॥
अत्याश्चर्यवती रम्या कथेयं पापनाशिनी
विस्तरेण हि नो ब्रूहि याथातथ्येन शृण्वताम् ॥
वज्राङ्गो नाम दैत्येन्द्रः कस्य वंशोद्भवः पुरा
यस्याभूत्तारकः पुत्रः सुरप्रमथनो बली ॥
निर्मितः को वधे चाभूत् तस्य दैत्येश्वरस्य तु
गुहजन्म तु कार्त्स्न्येन अस्माकं ब्रूहि मानद ॥
मानसो ब्रह्मणः पुत्रो दक्षो नाम प्रजापतिः
षष्टिं सो ऽजनयत्कन्या वैरिण्यामेव नः श्रुतम् ॥
ददौ स दश धर्माय कश्यपाय त्रयोदश
सप्तविंशतिं सोमाय चतस्रो ऽरिष्टनेमये ॥
द्वे वै बाहुकपुत्राय द्वे वै चाङ्गिरसे तथा
द्वे कृशाश्वाय विदुषे प्रजापतिसुतः प्रभुः ॥
अदितिर्दितिर्दनुर्विश्वा ह्य् अरिष्टा सुरसा तथा
सुरभिर्विनता चैव ताम्रा क्रोधवशा इरा ॥
कद्रूर्मुनिश्च लोकस्य मातरो गोषु मातरः
तासां सकाशाल्लोकानां जङ्गमस्थावरात्मनाम् ॥
जन्म नानाप्रकाराणां ताभ्यो ऽन्ये देहिनः स्मृताः
देवेन्द्रोपेन्द्रपूषाद्याः सर्वे ते दितिजा मताः ॥
दितेः सकाशाल्लोकास्तु हिरण्यकशिपादयः
दानवाश्च दनोः पुत्रा गावश्च सुरभीसुताः ॥
पक्षिणो विनतापुत्रा गरुडप्रमुखाः स्मृताः
नागाः कद्रूसुता ज्ञेयाः शेषाश्चान्ये ऽपि जन्तवः ॥
त्रैलोक्यनाथं शक्रं तु सर्वामरगणप्रभुम्
हिरण्यकशिपुश्चक्रे जित्वा राज्यं महाबलः ॥
ततः केनापि कालेन हिरण्यकशिपादयः
निहता विष्णुना संख्ये शेषाश्चेन्द्रेण दानवाः ॥
ततो निहतपुत्राभूद् दितिर् वरमयाचत
भर्तारं कश्यपं देवं पुत्रमन्यं महाबलम् ॥
समरे शक्रहन्तारं स तस्या अददात्प्रभुः ॥
नियमे वर्त हे देवि सहस्रं शुचिमानसा
वर्षाणां लप्स्यसे पुत्रम् इत्युक्ता सा तथाकरोत् ॥
वर्तन्त्या नियमे तस्याः सहस्राक्षः समाहितः
उपासामाचरत्तस्याः सा चैनमन्वमन्यत ॥
दशवत्सरशेषस्य सहस्रस्य तदा दितिः
उवाच शक्रं सुप्रीता वरदा तपसि स्थिता ॥
पुत्रोत्तीर्णव्रतां प्रायो विद्धि मां पाकशासन
भविष्यति च ते भ्राता तेन सार्धमिमां श्रियम् ॥
भुङ्क्ष्व वत्स यथाकामं त्रैलोक्यं हतकण्टकम्
इत्युक्त्वा निद्रयाविष्टा चरणाक्रान्तमूर्धजा ॥
स्वयं सुष्वापानियता भाविनो ऽर्थस्य गौरवात्
तत्तु रन्ध्रं समासाद्य जठरं पाकशासनः ॥
चकार सप्तधा गर्भं कुलिशेन तु देवराट्
एकैकं तु पुनः खण्डं चकार मघवा ततः ॥
सप्तधा सप्तधा कोपात् प्राबुध्यत ततो दितिः
विबुध्योवाच मा शक्र घातयेथाः प्रजां मम ॥
तच्छ्रुत्वा निर्गतः शक्रः स्थित्वा प्राञ्जलिरग्रतः
उवाच वाक्यं संत्रस्तो मातुर्वै वदनेरितम् ॥
दिवास्वप्नपरा मातः पादाक्रान्तशिरोरुहा
सप्तसप्तभिरेवातस् तव गर्भः कृतो मया ॥
एकोनपञ्चाशत्कृता भागा वज्रेण ते सुताः
दास्यामि तेषां स्थानानि दिवि दैवतपूजिते ॥
इत्युक्ता सा तदा देवी सैवमस्त्वित्यभाषत
पुनश्च देवी भर्तारम् उवाचासितलोचना ॥
पुत्रं प्रजापते देहि शक्रजेतारमूर्जितम्
यो नास्त्रशस्त्रैर्वध्यत्वं गच्छेत्त्रिदिववासिनाम् ॥
इत्युक्तः स तथोवाच तां पत्नीमतिदुःखिताम्
दश वर्षसहस्राणि तपः कृत्वा तु लप्स्यसे ॥
वज्रासारमयैर् अङ्गैर् अछेद्यैरायसैर् दृढैः
वज्राङ्गो नाम पुत्रस्ते भविता पुत्रवत्सले ॥
सा तु लब्धवरा देवी जगाम तपसे वनम्
दश वर्षसहस्राणि सा तपो घोरमाचरत् ॥
तपसो ऽन्ते भगवती जनयामास दुर्जयम्
पुत्रमप्रतिकर्माणम् अजेयं वज्रदुश्छिदम् ॥
स जातमात्र एवाभूत् सर्वशस्त्रास्त्रपारगः
उवाच मातरं भक्त्या मातः किं करवाण्यहम् ॥
तमुवाच ततो हृष्टा दितिर्दैत्याधिपं च सा
बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक ॥
तेषां त्वं प्रतिकर्तुं वै गच्छ शक्रवधाय च
बाढमित्येव तामुक्त्वा जगाम त्रिदिवं बली ॥
बद्ध्वा ततः सहस्राक्षं पाशेनामोघवर्चसा
मातुरन्तिकमागच्छद् व्याघ्रः क्षुद्रमृगं यथा ॥
एतस्मिन्नन्तरे ब्रह्मा कश्यपश्च महातपाः
आगतौ तत्र यत्रास्तां मातापुत्रावभीतकौ ॥
दृष्ट्वा तु तावुवाचेदं ब्रह्मा कश्यप एव च
मुञ्चैनं पुत्र देवेन्द्रं किमनेन प्रयोजनम् ॥
अपमानो वधः प्रोक्तः पुत्र संभावितस्य च
अस्मद्वाक्येन यो मुक्तो विद्धि तं मृतमेव च ॥
परस्य गौरवान्मुक्तः शत्रूणां भारमावहेत्
जीवन्नेव मृतो वत्स दिवसे दिवसे स तु ॥
महतां वशमायाते वैरं नैवास्ति वैरिणि
एतच्छ्रुत्वा तु वज्राङ्गः प्रणतो वाक्यमब्रवीत् ॥
न मे कृत्यमनेनास्ति मातुराज्ञा कृता मया
त्वं सुरासुरनाथो ऽसि मम च प्रपितामहः ॥
करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः
तपसे मे रतिर्देव निर्विघ्नं चैव मे भवेत् ॥
त्वत्प्रसादेन भगवन्न् इत्युक्त्वा विरराम सः
तस्मिंस्तूष्णीं स्थिते दैत्ये प्रोवाचेदं पितामहः ॥
तपस्त्वं क्रूरमापन्नो ह्य् अस्मच्छासनसंस्थितः
अनया चित्तशुद्ध्या ते पर्याप्तं जन्मनः फलम् ॥
इत्युक्त्वा पद्मजः कन्यां ससर्जायतलोचनाम्
तामस्मै प्रददौ देवः पत्न्यर्थं पद्मसम्भवः ॥
वराङ्गीति च नामास्याः कृत्वा यातः पितामहः
वज्राङ्गो ऽपि तया सार्धं जगाम तपसे वनम् ॥
ऊर्ध्वबाहुः स दैत्येन्द्रो ऽचरदब्दसहस्रकम्
कालं कमलपत्त्राक्षः शुद्धबुद्धिर् महातपाः ॥
तावच्चावाङ्मुखः कालं तावत्पञ्चाग्निमध्यगः
निराहारो घोरतपास् तपोराशिरजायत ॥
ततः सो ऽन्तर्जले चक्रे कालं वर्षसहस्रकम्
जलान्तरं प्रविष्टस्य तस्य पत्नी महाव्रता ॥
तस्यैव तीरे सरसस् तत्प्रीत्या मौनमास्थिता
निराहारा तपो घोरं प्रविवेश महाद्युतिः ॥
तस्यां तपसि वर्तन्त्याम् इन्द्रश्चक्रे विभीषिकाम्
भूत्वा तु मर्कटस्तत्र तदाश्रमपदं महान् ॥
चक्रे विलोलं निःशेषं तुम्बीघटकरण्डकम्
ततस्तु मेघरूषेण कम्पं तस्याकरोन्महान् ॥
ततो भुजंगरूपेण बद्ध्वा च चरणद्वयम्
अपाकर्षत्ततो दूरं भ्रमंस्तस्या महीमिमाम् ॥
तपोबलाढ्या सा तस्य न वध्यत्वं जगाम ह
ततो गोमायुरूपेण तस्यादूषयदाश्रमम् ॥
ततस्तु मेघरूपेण तस्याः क्लेदयदाश्रमम्
भीषिकाभिर् अनेकाभिस् तां क्लिश्यन्पाकशासनः ॥
विरराम यदा नैवं वज्राङ्गमहिषी तदा
शैलस्य दुष्टतां मत्वा शापं दातुं व्यवस्थिता ॥
स शापाभिमुखां दृष्ट्वा शैलः पुरुषविग्रहः
उवाच तां वरारोहां वराङ्गीं भीरुचेतनः ॥
नाहं वराङ्गने दुष्टः सेव्यो ऽहं सर्वदेहिनाम्
विभ्रमं तु करोत्येष रुषितः पाकशासनः ॥
एतस्मिन्नन्तरे जातः कालो वर्षसहस्रिकः
तस्मिन्गते तु भगवान् काले कमलसंभवः
तुष्टः प्रोवाच वज्राङ्गं तमागम्य जलाश्रयम् ॥
ददामि सर्वकामांस्ते उत्तिष्ठ दितिनन्दन
एवमुक्तस्तदोत्थाय दैत्येन्द्रस्तपसां निधिः
उवाच प्राञ्जलिर्वाक्यं सर्वलोकपितामहम् ॥
आसुरो मास्तु मे भावः सन्तु लोका ममाक्षयाः
तपस्येव रतिर् मेऽस्तु शरीरस्यास्तु वर्तनम् ॥
एवमस्त्विति तं देवो जगाम स्वकमालयम्
वज्राङ्गो ऽपि समाप्ते तु तपसि स्थिरसंयमः ॥
आहारमिच्छन्भार्यां स्वां न ददर्शाश्रमे स्वके
क्षुधाविष्टः स शैलस्य गहनं प्रविवेश ह ॥
आदातुं फलमूलानि स च तस्मिन्व्यलोकयत्
रुदतीं तां प्रियां दीनां तनुप्रच्छादिताननाम्
तां विलोक्य स दैत्येन्द्रः प्रोवाच परिसान्त्वयन् ॥
केन ते ऽपकृतं भीरु यमलोकं यियासुना
कं वा कामं प्रयच्छामि शीघ्रं मे ब्रूहि भामिनि ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0