मत्स्य पुराण · अध्याय 145
मन्वन्तराणि यानि स्युः कल्पे कल्पे चतुर्दश
व्यतीतानागतानि स्युर् यानि मन्वन्तरेष्विह ॥
विस्तरेणानुपूर्व्याच्च स्थितिं वक्ष्ये युगे युगे
तस्मिन्युगे च सम्भूतिर् यासां यावच्च जीवितम् ॥
युगमात्रं तु जीवन्ति न्यूनं तत्स्याद्द्वयेन च
चतुर्दशसु तावन्तो ज्ञेया मन्वन्तरेष्विह ॥
मनुष्याणां पशूनां च पक्षिणां स्थावरैः सह
तेषामायुरुपक्रान्तं युगधर्मेषु सर्वशः ॥
तथैवायुः परिक्रान्तं युगधर्मेषु सर्वशः
अस्थितिं च कलौ दृष्ट्वा भूतानामायुषश्च वै ॥
परमायुः शतं त्वेतन् मानुषाणां कलौ स्मृतम्
देवासुरमनुष्याश्च यक्षगन्धर्वराक्षसाः ॥
परिणाहोच्छ्रये तुल्या जायन्ते ह कृते युगे
षण्णवत्यङ्गुलोत्सेधो ह्य् अष्टानां देवयोनिनाम् ॥
नवाङ्गुलप्रमाणेन निष्पन्नेन तथाष्टकम्
एतत्स्वाभाविकं तेषां प्रमाणमधिकुर्वताम् ॥
मनुष्या वर्तमानास्तु युगसंध्यांशकेष्विह
देवासुरप्रमाणं तु सप्तसप्ताङ्गुलं क्रमात् ॥
चतुरशीतिकैश्चैव कलिजैरङ्गुलैः स्मृतम्
आ पादतलमस्तको नवतालो भवेत्तु यः ॥
संहृत्याजानुबाहुश्च दैवतैरभिपूज्यते
गवां च हस्तिनां चैव महिषस्थावरात्मनाम् ॥
क्रमेणैतेन विज्ञेये ह्रासवृद्धी युगे युगे
षट्सप्तत्यङ्गुलोत्सेधः पशुर् आककुदो भवेत् ॥
अङ्गुलानामष्टशतम् उत्सेधो हस्तिनां स्मृतः
अङ्गुलानां सहस्रं तु द्विचत्वारिंशदङ्गुलम् ॥
शतार्धमङ्गुलानां तु ह्य् उत्सेधः शाखिनां परः
मानुषस्य शरीरस्य संनिवेशस्तु यादृशः ॥
तल्लक्षणं तु देवानां दृश्यते ऽन्वयदर्शनात्
बुद्ध्यातिशयसंयुक्तो देवानां काय उच्यते ॥
तथा नातिशयश्चैव मानुषः काय उच्यते
इत्येव हि परिक्रान्ता भावा ये दिव्यमानुषाः ॥
पशूनां पक्षिणां चैव स्थावराणां च सर्वशः
गावो ऽजाश्वाश्च विज्ञेया हस्तिनः पक्षिणो मृगाः ॥
उपयुक्ताः क्रियास्वेते यज्ञियास्त्विह सर्वशः
यथाक्रमोपभोगाश्च देवानां पशुमूर्तयः ॥
तेषां रूपानुरूपैश्च प्रमाणैः स्थिरजङ्गमाः
मनोज्ञैस्तत्र तैर्भोगैः सुखिनो ह्युपपेदिरे ॥
अथ शिष्टान्प्रवक्ष्यामि साधूनथ ततश्च वै
ब्राह्मणाः श्रुतिशब्दाश्च देवानां पशुमूर्तयः
संयुज्य ब्रह्मणा ह्यन्तस् तेन सन्तः प्रचक्षते ॥
सामान्येषु च धर्मेषु तथा वैशिषिकेषु च
ब्रह्मक्षत्रविशो युक्ताः श्रौतस्मार्तेन कर्मणा ॥
वर्णाश्रमेषु युक्तस्य सुखोदर्कस्य स्वर्गतौ
श्रौतस्मार्तो हि यो धर्मो ज्ञानधर्मः स उच्यते ॥
दिव्यानां साधनात्साधुर् ब्रह्मचारी गुरोर्हितः
कारणात्साधनाच्चैव गृहस्थः साधुरुच्यते ॥
तपसश्च तथारण्ये साधुर्वैखानसः स्मृतः
यतमानो यतिः साधुः स्मृतो योगस्य साधनात् ॥
धर्मो धर्मगतिः प्रोक्तः शब्दो ह्येष क्रियात्मकः
कुशलाकुशलौ चैव धर्माधर्मौ ब्रवीत्प्रभुः ॥
अथ देवाश्च पितर ऋषयश्चैव मानुषाः
अयं धर्मो ह्ययं नेति ब्रुवते मौनमूर्तिना ॥
धर्मेति धारणे धातुर् महत्त्वे चैव उच्यते
आधारणे महत्त्वे वा धर्मः स तु निरुच्यते ॥
तत्रेष्टप्रापको धर्म आचार्यैरुपदिश्यते
अधर्मश्चानिष्टफल आचार्यैर्नोपदिश्यते ॥
वृद्धाश्चालोलुपाश्चैव आत्मवन्तो ह्यदाम्भिकाः
सम्यग्विनीता मृदवस् तानाचार्यान्प्रचक्षते ॥
धर्मज्ञैर्विहितो धर्मः श्रौतस्मार्तो द्विजातिभिः
दाराग्निहोत्रसम्बन्धम् इज्या श्रौतस्य लक्षणम् ॥
स्मार्तो वर्णाश्रमाचारो यमैश्च नियमैर्युतः
पूर्वेभ्यो वेदयित्वेह श्रौतं सप्तर्षयो ऽब्रुवन् ॥
ऋचो यजूंषि सामानि ब्रह्मणो ऽङ्गानि वै श्रुतिः
मन्वन्तरस्यातीतस्य स्मृत्वा तन्मनुरब्रवीत् ॥
तस्मात्स्मार्तः सूतो धर्मो वर्णाश्रमविभागशः
एवं वै द्विविधो धर्मः शिष्टाचारः स उच्यते ॥
शिषेर् धातोश्च निष्ठान्ताच् छिष्टशब्दं प्रचक्षते
मन्वन्तरेषु ये शिष्टा इह तिष्ठन्ति धार्मिकाः ॥
मनुः सप्तर्षयश्चैव लोकसंतानकारिणः
तिष्ठन्तीह च धर्मार्थं ताञ्छिष्टान्सम्प्रचक्षते ॥
तैः शिष्टैश्चलितो धर्मः स्थाप्यते वै युगे युगे
त्रयी वार्त्ता दण्डनीतिः प्रजावर्णाश्रमेप्सया ॥
शिष्टैराचर्यते यस्मात् पुनश्चैव मनुक्षये
पूर्वैःपूर्वैर्मतत्वाच्च शिष्टाचारः स शाश्वतः ॥
दानं सत्यं तपो लोको विद्येज्या पूजनं दमः
अष्टौ तानि चरित्राणि शिष्टाचारस्य लक्षणम् ॥
शिष्टा यस्माच्चरन्त्येनं मनुः सप्तर्षयश्च ह
मन्वन्तरेषु सर्वेषु शिष्टाचारस्ततः स्मृतः ॥
विज्ञेयः श्रवणाच्छ्रौतः स्मरणात्स्मार्त उच्यते
इज्यावेदात्मकः श्रौतः स्मार्तो वर्णाश्रमात्मकः
प्रत्यङ्गानि प्रवक्ष्यामि धर्मस्येह तु लक्षणम् ॥
दृष्टानुभूतमर्थं च यः पृष्टो न विगूहते
यथाभूतप्रवादस्तु इत्येतत्सत्यलक्षणम् ॥
ब्रह्मचर्यं तपो मौनं निराहारत्वमेव च
इत्येतत्तपसो रूपं सुघोरं तु दुरासदम् ॥
पशूनां द्रव्यहविषाम् ऋक्सामयजुषां तथा
ऋत्विजां दक्षिणायाश्च संयोगो यज्ञ उच्यते ॥
आत्मवत्सर्वभूतेषु यो हिताय शुभाय च
वर्तते सततं हृष्टः क्रिया श्रेष्ठा दया स्मृता ॥
आक्रुष्टो ऽभिहतो यस्तु नाक्रोशेत्प्रहरेदपि
अदुष्टो वाङ्मनःकायैस् तितिक्षुः सा क्षमा स्मृता ॥
स्वामिना रक्ष्यमाणानाम् उत्सृष्टानां च सम्भ्रमे
परस्वानाम् अनादानम् अलोभ इति संज्ञितम् ॥
मैथुनस्यासमाचारो जल्पनाच्चिन्तनात्तथा
निवृत्तिर्ब्रह्मचर्यं च तदेतच्छमलक्षणम् ॥
आत्मार्थे वा परार्थे वा इन्द्रियाणीह यस्य वै
विषये न प्रवर्तन्ते दमस्यैतत्तु लक्षणम् ॥
पञ्चात्मके यो विषये कारणे चाष्टलक्षणे
न क्रुध्येत प्रतिहतः स जितात्मा भविष्यति ॥
यद्यदिष्टतमं द्रव्यं न्यायेनैवागतं च यत्
तत्तद्गुणवते देयम् इत्येतद्दानलक्षणम् ॥
श्रुतिस्मृतिभ्यां विहितो धर्मो वर्णाश्रमात्मकः
शिष्टाचारप्रवृद्धश्च धर्मो ऽयं साधुसंमतः ॥
अप्रद्वेषो ह्यनिष्टेषु इष्टं वै नाभिनन्दति
प्रीतितापविषादानां विनिवृत्तिर् विरक्तता ॥
संन्यासः कर्मणां न्यासः कृतानामकृतैः सह
कुशलाकुशलाभ्यां तु प्रहाणं न्यास उच्यते ॥
अव्यक्तादिविशेषान्तव् इकारे ऽस्मिन्निवर्तते
चेतनाचेतनं ज्ञात्वा ज्ञाने ज्ञानी स उच्यते ॥
प्रत्यङ्गानि तु धर्मस्य चेत्येतल्लक्षणं स्मृतम्
ऋषिभिर्धर्मतत्त्वज्ञैः पूर्वैः स्वायम्भुवे ऽन्तरे ॥
अत्र वो वर्णयिष्यामि विधिं मन्वन्तरस्य तु
तथैव चातुर्होत्रस्य चातुर्वर्ण्यस्य चैव हि ॥
प्रतिमन्वन्तरं चैव श्रुतिरन्या विधीयते
ऋचो यजूंषि सामानि यथावत्प्रतिदैवतम् ॥
विधिस्तोत्रं तथा हौत्रं पूर्ववत्सम्प्रवर्तते
द्रव्यस्तोत्रं गुणस्तोत्रं कर्मस्तोत्रं तथैव च ॥
तथैवाभिजनस्तोत्रं स्तोत्रमेवं चतुर्विधम्
मन्वन्तरेषु सर्वेषु यथा भेदा भवन्ति हि ॥
प्रवर्तयन्ति तेषां वै ब्रह्मस्तोत्रं पुनः पुनः
एवं मन्त्रगुणानां तु समुत्पत्तिश्चतुर्विधा ॥
अथर्वऋग्यजुःसाम्नां वेदेष्विह पृथक्पृथक्
ऋषीणां तप्यतां तेषां तपः परमदुश्चरम् ॥
मन्त्राः प्रादुर्भवन्त्यादौ पूर्वमन्वन्तरस्य ह
असंतोषाद्भयाद्दुःखान् मोहाच्छोकाच्च पञ्चधा ॥
ऋषीणां तारका येन लक्षणेन यदृच्छया
ऋषीणां यादृशत्वं हि तद्वक्ष्यामीह लक्षणम् ॥
अतीतानागतानां च पञ्चधा ह्यार्षकं स्मृतम्
तथा ऋषीणां वक्ष्यामि आर्षस्येह समुद्भवम् ॥
गुणसाम्येन वर्तन्ते सर्वसंप्रलये तदा
अविभागेन देवानाम् अनिर्देश्ये तमोमये ॥
अबुद्धिपूर्वकं तद्वै चेतनार्थं प्रवर्तते
तेनार्षं बुद्धिपूर्वं तु चेतनेनाप्यधिष्ठितम् ॥
प्रवर्तते तथा ते तु यथा मत्स्योदकावुभौ
चेतनाधिकृतं सर्वं प्रावर्तत गुणात्मकम्
कार्यकारणभावेन तथा तस्य प्रवर्तते ॥
विषयो विषयित्वं च तदा ह्यर्थपदात्मकौ
कालेन प्रापणीयेन भेदाश्च कारणात्मकाः ॥
सांसिद्धिकास्तदा वृत्ताः क्रमेण महदादयः
महतो ऽसावहंकारस् तस्माद्भूतेन्द्रियाणि च ॥
भूतभेदाश्च भूतेभ्यो जज्ञिरे तु परस्परम्
संसिद्धिकारणं कार्यं सद्य एव विवर्तते ॥
यथोल्मुकात्तु विटपा एककालाद्भवन्ति हि
तथा प्रवृत्ताः क्षेत्रज्ञाः कालेनैकेन कारणात् ॥
यथान्धकारे खद्योतः सहसा सम्प्रदृश्यते
तथा निवृत्तो ह्यव्यक्तः खद्योत इव संज्वलन् ॥
स महात्मा शरीरस्थस् तत्रैवेह प्रवर्तते
महतस्तमसः पारे वैलक्षण्याद्विभाव्यते ॥
तत्रैव संस्थितो विद्वांस् तपसो ऽन्त इति श्रुतम्
बुद्धिर्विवर्धतस्तस्य प्रादुर्भूता चतुर्विधा ॥
ज्ञानं वैराग्यमैश्वर्यं धर्मश्चेति चतुष्टयम्
सांसिद्धिकान्यथैतानि अप्रतीतानि तस्य वै ॥
महात्मनः शरीरस्य चैतन्यात्सिद्धिरुच्यते
पुरि शेते यतः पूर्वं क्षेत्रज्ञानं तथापि च ॥
पुरे शयनात्पुरुषो ज्ञानात्क्षेत्रज्ञ उच्यते
यस्माद्धर्मात्प्रसूते हि तस्माद्वै धार्मिकस्तु सः ॥
सांसिद्धिके शरीरे च बुद्ध्याव्यक्तस्तु चेतनः
एवं विवृत्तः क्षेत्रज्ञः क्षेत्रं ह्यनभिसंधितः ॥
निवृत्तिसमकाले तु पुराणं तदचेतनम्
क्षेत्रज्ञेन परिज्ञातं भोग्यो ऽयं विषयो मम ॥
ऋषिर्हिंसागतौ धातुर् विद्या सत्यं तपः श्रुतम्
एष सन्निलयो यस्माद् ब्राह्मणस्तुततस् त्व् ऋषिः ॥
निवृत्तिसमकालाच्च बुद्ध्याव्यक्त ऋषिस्त्वयम्
ऋषते परमं यस्मात् परमर्षिस्ततः स्मृतः ॥
गत्यर्थाद् ऋषतेर् धातोर् नामनिर्वृत्तिकारणम्
यस्मादेष स्वयंभूतस् तस्माच्च ऋषिता मता ॥
सेश्वराः स्वयमुद्भूता ब्रह्मणो मानसाः सुताः
निवर्तमानैस्तैर्बुद्ध्या महान्परिगतः परः ॥
यस्माद् दृशपरत्वेन सह तस्मान्महर्षयः
ईश्वराणां सुतास्तेषां मानसाश्चौरसाश्च वै ॥
ऋषिस्तस्मात्परत्वेन भूतादिरृषयस्ततः
ऋषिपुत्रा ऋषीकास्तु मैथुनाद्गर्भसम्भवाः ॥
परत्वेन ऋषन्ते वै भूतादीनृषिकास्ततः
ऋषिकाणां सुता ये तु विज्ञेया ऋषिपुत्रकाः ॥
श्रुत्वा ऋषं परत्वेन श्रुतास्तस्माच्छ्रुतर्षयः
अव्यक्तात्मा महात्मा वा -हंकारात्मा तथैव च ॥
भूतात्मा चेन्द्रियात्मा च तेषां तज्ज्ञानमुच्यते
इत्येवमृषिजातिस्तु पञ्चधा नामविश्रुता ॥
भृगुर्मरीचिरत्रिश्च अङ्गिराः पुलहः क्रतुः
मनुर्दक्षो वसिष्ठश्च पुलस्त्यश्चापि ते दश ॥
ब्रह्मणो मानसा ह्येते उत्पन्नाः स्वयमीश्वराः
परत्वेनर्षयो यस्मान् मतास्तस्मान्महर्षयः ॥
ईश्वराणां सुतास्त्वेषाम् ऋषयस्तान्निबोधत
काव्यो बृहस्पतिश्चैव कश्यपश्च्यवनस्तथा ॥
उतथ्यो वामदेवश्च अगस्त्यः कौशिकस्तथा
कर्दमो वालखिल्याश्च विश्रवाः शक्तिवर्धनः ॥
इत्येते ऋषयः प्रोक्तास् तपसा ऋषितां गताः
तेषां पुत्रानृषीकांस्तु गर्भोत्पन्नान्निबोधत ॥
वत्सरो नग्नहूश् चैव भरद्वाजश्च वीर्यवान्
ऋषिर्दीर्घतमाश्चैव बृहद्वक्षाः शरद्वतः ॥
वाजिश्रवाः सुचिन्तश्च शावश्च सपराशरः
शृङ्गी च शङ्खपाच् चैव राजा वैश्रवणस्तथा ॥
इत्येते ऋषिकाः सर्वे सत्येन ऋषितां गताः
ईश्वरा ऋषयश्चैव ऋषीका ये च विश्रुताः ॥
एवं मन्त्रकृतः सर्वे कृत्स्नशश्च निबोधत
भृगुः काश्यपः प्रचेता दधीचो ह्यात्मवानपि ॥
ऊर्षो ऽथ जमदग्निश्च वेदः सारस्वतस्तथा
आर्ष्टिषेणश्च्यवनश्च वीतहव्यः सवेधसः ॥
वैन्यः पृथुर्दिवोदासो ब्रह्मवान्गृत्सशौनकौ
एकोनविंशतिर्ह्येते भृगवो मन्त्रकृत्तमाः ॥
अङ्गिराश्चैव त्रितश्च भरद्वाजो ऽथ लक्ष्मणः
कृतवाचस्तथा गर्गः स्मृतिसंकृतिरेव च ॥
गुरुवीतश्च मान्धाता अम्बरीषस्तथैव च
युवनाश्वः पुरुकुत्सः स्वश्रवस्तु सदस्यवान् ॥
अजमीढो ऽस्वहार्यश्च ह्य् उत्कलः कविरेव च
पृषदश्वो विरूपश्च काव्यश्चैवाथ मुद्गलः ॥
उतथ्यश्च शरद्वांश्च तथा वाजिश्रवा अपि
अपस्यौषः सुचित्तिश्च वामदेवस्तथैव च ॥
ऋषिजो बृहच्छुक्लश्च ऋषिर्दीर्घतमा अपि
कक्षीवांश्च त्रयस्त्रिंशत् स्मृता ह्यङ्गिरसां वराः ॥
एते मन्त्रकृतः सर्वे काश्यपांस्तु निबोधत
काश्यपः सहवत्सारो नैध्रुवो नित्य एव च ॥
असितो देवलश्चैव षडेते ब्रह्मवादिनः
अत्रिर् अर्धस्वनश्चैव शावास्यो ऽथ गविष्ठिरः ॥
कर्णकश्च ऋषिः सिद्धस् तथा पूर्वातिथिश्च यः ॥
इत्येते त्वत्रयः प्रोक्ता मन्त्रकृत्षण्महर्षयः
वसिष्ठश्चैव शक्तिश्च तृतीयश्च पराशरः ॥
ततस्तु इन्द्रप्रतिमः पञ्चमस्तु भरद्वसुः
षष्ठस्तु मित्रावरुणः सत्तमः कुण्डिनस्तथा ॥
इत्येते सप्त विज्ञेया वासिष्ठा ब्रह्मवादिनः
विश्वामित्रश्च गाधेयो देवरातस्तथा बलः ॥
तथा विद्वान्मधुच्छन्दा ऋषिश्चान्यो ऽघमर्षणः
अष्टको लोहितश्चैव भृतकीलश्च माम्बुधिः ॥
देवश्रवा देवरातः पुराणश्च धनंजयः
शिशिरश्च महातेजाः शालङ्कायन एव च ॥
त्रयोदशैते विज्ञेया ब्रह्मिष्ठाः कौशिका वराः
अगस्त्यो ऽथ दृढद्युम्न इन्द्रबाहुस्तथैव च ॥
ब्रह्मिष्ठागस्तयो ह्येते त्रयः परमकीर्तयः
मनुर्वैवस्वतश्चैव ऐलो राजा पुरूरवाः ॥
क्षत्रियाणां वरा ह्येते विज्ञेया मन्त्रवादिनः
भलन्दकश्च वासाश्वः संकीलश्चैव ते त्रयः ॥
एते मन्त्रकृतो ज्ञेया वैश्यानां प्रवराः सदा
इति द्विनवतिः प्रोक्ता मन्त्रायैश्च बहिष्कृताः ॥
ब्राह्मणाः क्षत्रिया वैश्या ऋषिपुत्रान्निबोधत
ऋषीकाणां सुता ह्येते ऋषिपुत्राः श्रुतर्षयः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0