भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 144

144.1

अत ऊर्ध्वं प्रवक्ष्यामि द्वापरस्य विधिं पुनः
तत्र त्रेतायुगे क्षीणे द्वापरं प्रतिपद्यते ॥

144.2

द्वापरादौ प्रजानां तु सिद्धिस्त्रेतायुगे तु या
परिवृत्ते युगे तस्मिंस् ततः सा वै प्रणश्यति ॥

144.3

ततः प्रवर्तिते तासां प्रजानां द्वापरे पुनः
लोभो धृतिर्वणिग्युद्धं तत्त्वानाम् अविनिश्चयः ॥

144.4

प्रध्वंसश्चैव वर्णानां कर्मणां तु विपर्ययः
यात्रा वधः परो दण्डो मानो दर्पो ऽक्षमा बलम् ॥

144.5

तथा रजस्तमो भूयः प्रवृत्ते द्वापरे पुनः
आद्ये कृते नाधर्मो ऽस्ति स त्रेतायां प्रवर्तितः ॥

144.6

द्वापरे व्याकुलो भूत्वा प्रणश्यति कलौ पुनः
वर्णानां द्वापरे धर्माः संकीर्यन्ते तथाश्रमाः ॥

144.7

द्वैधमुत्पद्यते चैव युगे तस्मिञ्श्रुतिस्मृतौ
द्विधा श्रुतिः स्मृतिश्चैव निश्चयो नाधिगम्यते ॥

144.8

अनिश्चयावगमनाद् धर्मतत्त्वं न विद्यते
धर्मतत्त्वे ह्यविज्ञाते मतिभेदस्तु जायते ॥

144.9

परस्परं विभिन्नास्ते दृष्टीनां विभ्रमेण तु
अतो दृष्टिविभिन्नैस्तैः कृतमत्याकुलं त्विदम् ॥

144.10

एको वेदश्चतुष्पादः संहृत्य तु पुनः पुनः
संक्षेपादायुषश्चैव व्यस्यते द्वापरेष्विह ॥

144.11

वेदश्चैकश्चतुर्धा तु व्यस्यते द्वापरादिषु
ऋषिपुत्रैः पुनर्वेदा भिद्यन्ते दृष्टिविभ्रमैः ॥

144.12

ते तु ब्राह्मणविन्यासैः स्वरक्रमविपर्ययैः
संहृता ऋग्यजुःसाम्नां संहितास्तैर्महर्षिभिः ॥

144.13

सामान्याद्वैकृताच्चैव दृष्टिभिन्नैः क्वचित्क्वचित्
ब्राह्मणं कल्पसूत्राणि भाष्यविद्यास्तथैव च ॥

144.14

अन्ये तु प्रस्थितास्तान्वै केचित् तान् प्रत्यवस्थिताः
द्वापरेषु प्रवर्तन्ते भिन्नार्थैस्तैः स्वदर्शनैः ॥

144.15

एकमाध्वर्यवं पूर्वम् आसीद्द्वैधं तु तत्पुनः
सामान्यविपरीतार्थैः कृतं शास्त्राकुलं त्विदम् ॥

144.16

आध्वर्यवं च प्रस्थानैर् बहुधा व्याकुलीकृतम्
तथैवाथर्वणां साम्नां विकल्पैः स्वस्य संक्षयैः ॥

144.17

व्याकुलो द्वापरेष्वर्थः क्रियते भिन्नदर्शनैः
द्वापरे संनिवृत्ते ते वेदा नश्यन्ति वै कलौ ॥

144.18

तेषां विपर्ययोत्पन्ना भवन्ति द्वापरे पुनः
अदृष्टिर्मरणं चैव तथैव व्याध्युपद्रवाः ॥

144.19

वाङ्मनःकर्मभिर्दुःखैर् निर्वेदो जायते ततः
निर्वेदाज्जायते तेषां दुःखमोक्षविचारणा ॥

144.20

विचारणायां वैराग्यं वैराग्याद्दोषदर्शनम्
दोषाणां दर्शनाच्चैव ज्ञानोत्पत्तिस्तु जायते ॥

144.21

तेषां मेधाविनां पूर्वं मर्त्ये स्वायम्भुवे ऽन्तरे
उत्पस्यन्तीह शास्त्राणां द्वापरे परिपन्थिनः ॥

144.22

आयुर्वेदविकल्पाश्च अङ्गानां ज्योतिषस्य च
अर्थशास्त्रविकल्पाश्च हेतुशास्त्रविकल्पनम् ॥

144.23

प्रक्रिया कल्पसूत्राणां भाष्यविद्याविकल्पनम्
स्मृतिशास्त्रप्रभेदाश्च प्रस्थानानि पृथक् पृथक् ॥

144.24

द्वापरेष्वभिवर्तन्ते मतिभेदास्तथा नृणाम्
मनसा कर्मणा वाचा कृच्छ्राद्वार्त्ता प्रसिध्यति ॥

144.25

द्वापरे सर्वभूतानां कालः क्लेशपरः स्मृतः
लोभो ऽधृतिर्वणिग्युद्धं तत्त्वानामविनिश्चयः ॥

144.26

वेदशास्त्रप्रणयनं धर्माणां संकरस्तथा
वर्णाश्रमपरिध्वंसः कामद्वेषौ तथैव च ॥

144.27

पूर्णे वर्षसहस्रे द्वे परमायुस्तदा नृणाम्
निःशेषे द्वापरे तस्मिंस् तस्य संध्या तु पादतः ॥

144.28

गुणहीनास्तु तिष्ठन्ति धर्मस्य द्वापरस्य तु
तथैव संध्या पादेन अंशस्तस्यां प्रतिष्ठितः ॥

144.29

द्वापरस्य तु पर्याये पुष्यस्य च निबोधत
द्वापरस्यांशशेषे तु प्रतिपत्तिः कलेरथ ॥

144.30

हिंसा स्तेयानृतं माया दम्भश्चैव तपस्विनाम्
एते स्वभावाः पुष्यस्य साधयन्ति च ताः प्रजाः ॥

144.31

एष धर्मः स्मृतः कृत्स्नो धर्मश्च परिहीयते
मनसा कर्मणा वाचा वार्त्ताः सिध्यन्ति वा न वा ॥

144.32

कलिः प्रमारको रोगः सततं चापि क्षुद्भयम्
अनावृष्टिभयं चैव देशानां च विपर्ययः ॥

144.33

न प्रमाणे स्थितिर्ह्यस्ति पुष्ये घोरे युगे कलौ
गर्भस्थो म्रियते कश्चिद् यौवनस्थस्तथा परः ॥

144.34

स्थाविर्ये मध्यकौमारे म्रियन्ते च कलौ प्रजाः
अल्पतेजोबलाः पापा महाकोपा ह्यधार्मिकाः ॥

144.35

अनृतव्रतलुब्धाश्च पुष्ये चैव प्रजाः स्थिताः
दुरिष्टैर्दुरधीतैश्च दुराचारैर्दुरागमैः ॥

144.36

विप्राणां कर्मदोषैस्तैः प्रजानां जायते भयम्
हिंसा मानस्तथेर्ष्या च क्रोधो ऽसूयाक्षमाधृतिः ॥

144.37

पुष्ये भवन्ति जन्तूनां लोभो मोहश्च सर्वशः
संक्षोभो जायते ऽत्यर्थं कलिमासाद्य वै युगम् ॥

144.38

नाधीयते तथा वेदान् न यजन्ते द्विजातयः
उत्सीदन्ति तथा चैव वैश्यैः सार्धं तु क्षत्रियाः ॥

144.39

शूद्राणां मन्त्रयोनिस्तु सम्बन्धो ब्राह्मणैः सह
भवतीह कलौ तस्मिञ् छयनासनभोजनैः ॥

144.40

राजानः शूद्रभूयिष्ठाः पाषण्डानां प्रवृत्तयः
काषायिणश्च निष्कच्छास् तथा कापालिनश्च ह ॥

144.41

ये चान्ये देवव्रतिनस् तथा ये धर्मदूषकाः
दिव्यवृत्ताश्च ये केचिद् वृत्त्यर्थं श्रुतिलिङ्गिनः ॥

144.42

एवंविधाश्च ये केचिद् भवन्तीह कलौ युगे
अधीयते तदा वेदाञ् छूद्रा धर्मार्थकोविदाः ॥

144.43

यजन्ते ह्यश्वमेधैस्तु राजानः शूद्रयोनयः
स्त्रीबालगोवधं कृत्वा हत्वा चैव परस्परम् ॥

144.44

उपहत्य तथान्योन्यं साधयन्ति तदा प्रजाः
दुःखप्रचुरताल्पायुर् देशोत्सादः सरोगता ॥

144.45

अधर्माभिनिवेशित्वं तमोवृत्तं कलौ स्मृतम्
भ्रूणहत्या प्रजानां न तथा ह्येवं प्रवर्तते ॥

144.46

तस्मादायुर्बलं रूपं प्रहीयन्ते कलौ युगे
दुःखेनाभिप्लुतानां च परमायुः शतं नृणाम् ॥

144.47

भूत्वा च न भवन्तीह वेदाः कलियुगे ऽखिलाः
उत्सीदन्ते तथा यज्ञाः केवलं धर्महेतवः ॥

144.48

एषा कलियुगावस्था संध्यांशौ तु निबोधत
युगे युगे तु हीयन्ते त्रींस्त्रीन्पादांश्च सिद्धयः ॥

144.49

युगस्वभावाः संध्यासु अवतिष्ठन्ति पादतः
संध्यास्वभावाः स्वांशेषु पादेनैवावतस्थिरे ॥

144.50

एवं संध्यांशके काले सम्प्राप्ते तु युगान्तिके
तेषामधर्मिणां शास्ता भृगूणां च कुले स्थितः ॥

144.51

गोत्रेण वै चन्द्रमसो नाम्ना प्रमतिरुच्यते
कलिसंध्यांशभागेषु मनोः स्वायम्भुवे ऽन्तरे ॥

144.52

समास्त्रिंशत्तु सम्पूर्णाः पर्यटन्वै वसुंधराम्
अश्वकर्मा स वै सेनां हस्त्यश्वरथसंकुलाम् ॥

144.53

प्रगृहीतायुधैर्विप्रैः शतशो ऽथ सहस्रशः
स तदा तैः परिवृतो म्लेच्छान्सर्वान् निजघ्निवान् ॥

144.54

स हत्वा सर्वशश्चैव राजानः शूद्रयोनयः
पाषण्डान्स सदा सर्वान् निःशेषानकरोत्प्रभुः ॥

144.55

अधार्मिकाश्च ये केचित् तान्सर्वान्हन्ति सर्वशः
उदीच्यान्मध्यदेशांश्च पार्वतीयांस्तथैव च ॥

144.56

प्राच्यान्प्रतीच्यांश्च तथा विन्ध्यपृष्ठापरान्तिकान्
तथैव दाक्षिणात्यांश्च द्रविडान्सिंहलैः सह ॥

144.57

गान्धारान्पारदांश्चैव पह्लवान्यवनाञ्छकान्
तुषारान्बर्बराञ्छ्वेतान् हलिकान्दरदान्खसान् ॥

144.58

लम्पकान् आन्ध्रकांश्चापि चोरजातींस्तथैव च
प्रवृत्तचक्रो बलवाञ् छूद्राणामन्तकृद्बभौ ॥

144.59

विद्राव्य सर्वभूतानि चचार वसुधामिमाम्
मानवस्य तु वंशे तु नृदेवस्येह जज्ञिवान् ॥

144.60

पूर्वजन्मनि विष्णुश्च प्रमतिर्नाम वीर्यवान्
सुतः स वै चन्द्रमसः पूर्वे कलियुगे प्रभुः ॥

144.61

द्वात्रिंशे ऽभ्युदिते वर्षे प्रक्रान्तो विंशतिं समाः
निजघ्ने सर्वभूतानि मानुषाण्येव सर्वशः ॥

144.62

कृत्वा बीजावशिष्टां तां पृथ्वीं क्रूरेण कर्मणा
परस्परनिमित्तेन कालेनाकस्मिकेन च ॥

144.63

संस्थिता सहसा या तु सेना प्रमतिना सह
गङ्गायमुनयोर्मध्ये सिद्धिं प्राप्ता समाधिना ॥

144.64

ततस्तेषु प्रनष्टेषु संध्यांशे कूरकर्मसु
उत्साद्य पार्थिवान्सर्वांस् तेष्वतीतेषु वै तदा ॥

144.65

ततः संध्यांशके काले सम्प्राप्ते च युगान्तिके
स्थितास्वल्पावशिष्टासु प्रजास्विह क्वचित् क्वचित् ॥

144.66

स्वाप्रदानास् तदा ते वै लोभाविष्टास्तु वृन्दशः
उपहिंसन्ति चान्योन्यं प्रलुम्पन्ति परस्परम् ॥

144.67

अराजके युगांशे तु संक्षये समुपस्थिते
प्रजास्ता वै तदा सर्वाः परस्परभयार्दिताः ॥

144.68

व्याकुलास्ताः परावृत्तास् त्यक्त्वा देवं गृहाणि तु
स्वान्स्वान्प्राणानवेक्षन्तो निष्कारुण्यात् सुदुःखिताः ॥

144.69

नष्टे श्रौतस्मृते धर्मे कामक्रोधवशानुगाः
निर्मर्यादा निरानन्दा निःस्नेहा निरपत्रपाः ॥

144.70

नष्टे धर्मे प्रतिहता ह्रस्वकाः पञ्चविंशकाः
हित्वा दारांश्च पुत्रांश्च विषादव्याकुलप्रजाः ॥

144.71

अनावृष्टिहतास्ते वै वार्त्तामुत्सृज्य दुःखिताः
आश्रयन्ति स्म प्रत्यन्तान् हित्वा जनपदान्स्वकान् ॥

144.72

सरितः सागरानूपान् सेवन्ते पर्वतानपि
चीरकृष्णाजिनधरा निष्क्रिया निष्परिग्रहाः ॥

144.73

वर्णाश्रमपरिभ्रष्टाः संकरं घोरमास्थिताः
एवं कष्टमनुप्राप्ता ह्य् अल्पशेषाः प्रजास्ततः ॥

144.74

जन्तवश्च क्षुधाविष्टा दुःखान्निर्वेदमागमन्
संश्रयन्ति च देशांस्तांश् चक्रवत्परिवर्तनाः ॥

144.75

ततः प्रजास्तु ताः सर्वा मांसाहारा भवन्ति हि
मृगान्वराहान्वृषभान् ये चान्ये वनचारिणः ॥

144.76

भक्ष्यांश्चैवाप्यभक्ष्यांश्च सर्वांस्तान्भक्षयन्ति ताः
समुद्रं संश्रिता यास्तु नदीश्चैव प्रजास्तु ताः ॥

144.77

ते ऽपि मत्स्यान्हरन्तीह आहारार्थं च सर्वशः
अभक्ष्याहारदोषेण एकवर्णगताः प्रजाः ॥

144.78

यथा कृतयुगे पूर्वम् एकवर्णमभूत्किल
तथा कलियुगस्यान्ते शूद्रीभूताः प्रजास्तथा ॥

144.79

एवं वर्षशतं पूर्णं दिव्यं तेषां न्यवर्तत
षट्त्रिंशच्च सहस्राणि मानुषाणि तु तानि वै ॥

144.80

अथ दीर्घेण कालेन पक्षिणः पशवस्तथा
मत्स्याश्चैव हताः सर्वैः क्षुधाविष्टैश्च सर्वशः ॥

144.81

निःशेषेष्वथ सर्वेषु मत्स्यपक्षिपशुष्वथ
संध्यांशे प्रतिपन्ने तु निःशेषास्तु तदा कृताः ॥

144.82

ततः प्रजास्तु सम्भूय कन्दमूलमथो ऽखनन्
फलमूलाशनाः सर्वे अनिकेतास्तथैव च ॥

144.83

वल्कलान्यथ वासांसि अधःशय्याश्च सर्वशः
परिग्रहो न तेष्वस्ति धनशुद्धिमवाप्नुयुः ॥

144.84

एवं क्षयं गमिष्यन्ति ह्य् अल्पशिष्टाः प्रजास्तदा
तासामल्पावशिष्टानाम् आहारादृद्धिरिष्यते ॥

144.85

एवं वर्षशतं दिव्यं संध्यांशस्तस्य वर्तते
ततो वर्षशतस्यान्ते अल्पशिष्टाः स्त्रियः सुताः ॥

144.86

मिथुनानि तु ताः सर्वा ह्य् अन्योन्यं सम्प्रजज्ञिरे
ततस्तास्तु म्रियन्ते वै पूर्वोत्पन्नाः प्रजास्तु याः ॥

144.87

जातमात्रेष्वपत्येषु ततः कृतमवर्तत
यथा स्वर्गे शरीराणि नरके चैव देहिनाम् ॥

144.88

उपभोगसमर्थानि एवं कृतयुगादिषु
एवं कृतस्य संतानः कलेश्चैव क्षयस्तथा ॥

144.89

विचारणात्तु निर्वेदः साम्यावस्थात्मना तथा
ततश्चैवात्मसम्बोधः सम्बोधाद्धर्मशीलता ॥

144.90

कलिशिष्टेषु तेष्वेवं जायन्ते पूर्ववत्प्रजाः
भाविनो ऽर्थस्य च बलात् ततः कृतमवर्तत ॥

144.91

अतीतानागतानि स्युर् यानि मन्वन्तरेष्विह
एते युगस्वभावास्तु मयोक्तास्तु समासतः ॥

144.92

विस्तरेणानुपूर्व्याच्च नमस्कृत्य स्वयम्भुवे
प्रवृत्ते तु ततस्तस्मिन् पुनः कृतयुगे तु वै ॥

144.93

उत्पन्नाः कलिशिष्टेषु प्रजाः कार्तयुगास्तथा
तिष्ठन्ति चेह ये सिद्धा अदृष्टा विहरन्ति च ॥

144.94

सह सप्तर्षिभिर्ये तु तत्र ये च व्यवस्थिताः
ब्रह्मक्षत्रविशः शूद्रा बीजार्थे य इह स्मृताः
कार्तयुगभवैः सार्धं निर्विशेषास्तदाभवन् ॥

144.95

तेषां सप्तर्षयो धर्मं कथयन्तीह तेषु च ॥

144.96

वर्णाश्रमाचारयुतं श्रौतस्मार्तविधानतः
एवं तेषु क्रियावत्सु प्रवर्तन्तीह वै कृते ॥

144.97

श्रौतस्मार्तस्थितानां तु धर्मे सप्तर्षिदर्शिते
ते तु धर्मव्यवस्थार्थं तिष्ठन्तीह कृते युगे ॥

144.98

मन्वन्तराधिकारेषु तिष्ठन्ति ऋषयस्तु ते
यथा दावप्रदग्धेषु तृणेष्वेवापरं तृणम् ॥

144.99

वनानां प्रथमं वृष्ट्या तेषां मूलेषु सम्भवः
एवं युगाद्युगानां वै संतानस्तु परस्परम् ॥

144.100

प्रवर्तते ह्यविच्छेदाद् यावन्मन्वन्तरक्षयः
सुखमायुर्बलं रूपं धर्मार्थौ काम एव च ॥

144.101

युगेष्वेतानि हीयन्ते त्रयः पादाः क्रमेण तु
इत्येष प्रतिसंधिर्वः कीर्तितस्तु मया द्विजाः ॥

144.102

चतुर्युगाणां सर्वेषाम् एतदेव प्रसाधनम्
एषां चतुर्युगाणां तु गणिता ह्येकसप्ततिः ॥

144.103

क्रमेण परिवृत्तास्ता मनोरन्तरमुच्यते
युगाख्यासु तु सर्वासु भवतीह यदा च यत् ॥

144.104

तदेव च तदन्यासु पुनस्तद्वै यथाक्रमम्
सर्गे सर्गे यथा भेदा ह्य् उत्पद्यन्ते तथैव च ॥

144.105

चतुर्दशसु तावन्तो ज्ञेया मन्वन्तरेष्विह
आसुरी यातुधानी च पैशाची यक्षराक्षसी ॥

144.106

युगे युगे तदा काले प्रजा जायन्ति ताः शृणु
यथाकल्पं युगैः सार्धं भवन्ते तुल्यलक्षणाः
इत्येतल्लक्षणं प्रोक्तं युगानां वै यथाक्रमम् ॥

144.107

मन्वन्तराणां परिवर्तनानि चिरप्रवृत्तानि युगस्वभावात्
क्षणं न संतिष्ठति जीवलोकः क्षयोदयाभ्यां परिवर्तमानः ॥

144.108

एते युगस्वभावा वः परिक्रान्ता यथाक्रमम्
मन्वन्तराणि यान्यस्मिन् कल्पे वक्ष्यामि तानि च ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc