भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 143

143.1

कथं त्रेतायुगमुखे यज्ञस्यासीत्प्रवर्तनम्
पूर्वे स्वायम्भुवे सर्गे यथावत्प्रब्रवीहि नः ॥

143.2

अन्तर्हितायां संध्यायां सार्धं कृतयुगेन हि
कालाख्यायां प्रवृत्तायां प्राप्ते त्रेतायुगे तदा ॥

143.3

ओषधीषु च जातासु प्रवृत्ते वृष्टिसर्जने
प्रतिष्ठितायां वार्त्तायां ग्रामेषु च पुरेषु च ॥

143.4

वर्णाश्रमप्रतिष्ठानं कृत्वा मन्त्रैश्च तैः पुनः
संहितास्तु सुसंहृत्य कथं यज्ञः प्रवर्तितः
एतच्छ्रुत्वाब्रवीत्सूतः श्रूयतां तत्प्रचोदितम् ॥

143.5

मन्त्रान्वै योजयित्वा तु इहामुत्र च कर्मसु
तथा विश्वभुगिन्द्रस्तु यज्ञं प्रावर्तयत्प्रभुः ॥

143.6

दैवतैः सह संहृत्य सर्वसाधनसंवृतः
तस्याश्वमेधे वितते समाजग्मुर्महर्षयः ॥

143.7

यज्ञकर्मण्यवर्तन्त कर्मण्यग्रे तथर्त्विजः
हूयमाने देवहोत्रे अग्नौ बहुविधं हविः ॥

143.8

सम्प्रतीतेषु देवेषु सामगेषु च सुस्वरम्
परिक्रान्तेषु लघुषु अध्वर्युपुरुषेषु च ॥

143.9

आलब्धेषु च मध्ये तु तथा पशुगणेषु वै
आहूतेषु च देवेषु यज्ञभुक्षु ततस्तदा ॥

143.10

य इन्द्रियात्मका देवा यज्ञभागभुजस्तु ते
तान्यजन्ति तदा देवाः कल्यादिषु भवन्ति ये ॥

143.11

अध्वर्युप्रैषकाले तु व्युत्थिता ऋषयस्तथा
महर्षयश्च तान्दृष्ट्वा दीनान्पशुगणांस्तदा
विश्वभुजं ते त्वपृच्छन् कथं यज्ञविधिस्तव ॥

143.12

अधर्मो बलवानेष हिंसा धर्मेप्सया तव
नवः पशुविधिस्त्विष्टस् तव यज्ञे सुरोत्तम ॥

143.13

अधर्मो धर्मघाताय प्रारब्धः पशुभिस्त्वया
नायं धर्मो ह्यधर्मो ऽयं न हिंसा धर्म उच्यते
आगमेन भवान्धर्मं प्रकरोतु यदीच्छति ॥

143.14

विधिदृष्टेन यज्ञेन धर्मेणाव्यसनेन तु
यज्ञबीजैः सुरश्रेष्ठ त्रिवर्गपरिमोषितैः ॥

143.15

एष यज्ञो महानिन्द्रः स्वयम्भुविहितः पुरा
एवं विश्वभुगिन्द्रस्तु ऋषिभिस्तत्त्वदर्शिभिः
उक्तो न प्रतिजग्राह मानमोहसमन्वितः ॥

143.16

तेषां विवादः सुमहाञ् जज्ञे इन्द्रमहर्षीणाम्
जङ्गमैः स्थावरैः केन यष्टव्यमिति चोच्यते ॥

143.17

ते तु खिन्ना विवादेन शक्त्या युक्ता महर्षयः
संधाय सममिन्द्रेण पप्रच्छुः खचरं वसुम् ॥

143.18

महाप्राज्ञ त्वया दृष्टः कथं यज्ञविधिर्नृप
औत्तानपादे प्रब्रूहि संशयं नस्तुद प्रभो ॥

143.19

श्रुत्वा वाक्यं वसुस्तेषाम् अविचार्य बलाबलम्
वेदशास्त्रमनुस्मृत्य यज्ञतत्त्वमुवाच ह ॥

143.20

यथोपनीतैर्यष्टव्यम् इति होवाच पार्थिवः
यष्टव्यं पशुभिर्मेध्यैर् अथ मूलफलैरपि ॥

143.21

हिंसा स्वभावो यज्ञस्य इति मे दर्शनागमः
तथैते भाविता मन्त्रा हिंसालिङ्गा महर्षिभिः ॥

143.22

दीर्घेण तपसा युक्तैस् तारकादिनिदर्शिभिः
तत्प्रमाणं मया चोक्तं तस्माच्छमितुम् अर्हथ ॥

143.23

यदि प्रमाणं स्वान्येव मन्त्रवाक्याणि वो द्विजाः
तथा प्रवर्ततां यज्ञो ह्य् अन्यथा मानृतं वचः ॥

143.24

एवं कृतोत्तरास्ते तु युज्यात्मानं ततो धिया
अवश्यम्भाविनं दृष्ट्वा तमधो ह्यशपंस्तदा ॥

143.25

इत्युक्तमात्रो नृपतिः प्रविवेश रसातलम्
ऊर्ध्वचारी नृपो भूत्वा रसातलचरो ऽभवत् ॥

143.26

वसुधातलचारी तु तेन वाक्येन सो ऽभवत्
धर्माणां संशयछेत्ता राजा वसुरधोगतः ॥

143.27

तस्मान्न वाच्यो ह्येकेन बहुज्ञेनापि संशयः
बहुधारस्य धर्मस्य सूक्ष्मा दुरनुगा गतिः ॥

143.28

तस्मान्न निश्चयाद्वक्तुं धर्मः शक्यो हि केनचित्
देवानृषीनुपादाय स्वायम्भुवमृते मनुम् ॥

143.29

तस्मान्न हिंसा यज्ञे स्याद् यदुक्तमृषिभिः पुरा
ऋषिकोटिसहस्राणि स्वैस्तपोभिर्दिवं गताः ॥

143.30

तस्मान्न हिंसायज्ञं च प्रशंसन्ति महर्षयः
उञ्छं मूलं फलं शाकम् उदपात्रं तपोधनाः ॥

143.31

एतद्दत्त्वा विभवतः स्वर्गलोके प्रतिष्ठिताः
अद्रोहश्चाप्यलोभश्च दमो भूतदया शमः ॥

143.32

ब्रह्मचर्यं तपः शौचम् अनुक्रोशं क्षमा धृतिः
सनातनस्य धर्मस्य मूलमेव दुरासदम् ॥

143.33

द्रव्यमन्त्रात्मको यज्ञस् तपश्च समतात्मकम्
यज्ञैश्च देवानाप्नोति वैराजं तपसा पुनः ॥

143.34

ब्रह्मणः कर्मसंन्यासाद् वैराग्यात्प्रकृतेर्लयम्
ज्ञानात्प्राप्नोति कैवल्यं पञ्चैता गतयः स्मृताः ॥

143.35

एवं विवादः सुमहान् यज्ञस्यासीत्प्रवर्तने
ऋषीणां देवतानां च पूर्वे स्वायम्भुवे ऽन्तरे ॥

143.36

ततस्ते ऋषयो दृष्ट्वा हृतं धर्मं बलेन तु
वसोर्वाक्यमनादृत्य जग्मुस्ते वै यथागतम् ॥

143.37

गतेषु ऋषिसंघेषु देवा यज्ञमवाप्नुयुः
श्रूयन्ते हि तपःसिद्धा ब्रह्मक्षत्रादयो नृपाः ॥

143.38

प्रियव्रतोत्तानपादौ ध्रुवो मेधातिथिर्वसुः
सुधामा विरजाश्चैव शङ्खपाद्राजसस्तथा ॥

143.39

प्राचीनबर्हिः पर्जन्यो हविर्धानादयो नृपाः
एते चान्ये च बहवस् ते तपोभिर्दिवं गताः ॥

143.40

राजर्षयो महात्मानो येषां कीर्तिः प्रतिष्ठिता
तस्माद्विशिष्यते यज्ञात् तपः सर्वैस्तु कारणैः ॥

143.41

ब्रह्मणा तपसा सृष्टं जगद्विश्वमिदं पुरा
तस्मान्नाप्नोति तद्यज्ञात् तपोमूलमिदं स्मृतम् ॥

143.42

यज्ञप्रवर्तनं ह्येवम् आसीत्स्वायम्भुवे ऽन्तरे
तदाप्रभृति यज्ञो ऽयं युगैः सार्धं प्रवर्तितः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc