भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 142

142.1

चतुर्युगाणि यानि स्युः पूर्वे स्वायम्भुवे ऽन्तरे
एषां निसर्गसंख्यां च श्रोतुमिच्छाम विस्तरात् ॥

142.2

पृथिवीद्युप्रसङ्गेन मया तु प्रागुदाहृतम्
एतच्चतुर्युगं त्वेवं तद्वक्ष्यामि निबोधत
तत्प्रमाणं प्रसंख्याय विस्तराच्चैव कृत्स्नशः ॥

142.3

लौकिकेन प्रमाणेन निष्पाद्याब्दं तु मानुषम्
तेनापीह प्रसंख्याय वक्ष्यामि तु चतुर्युगम्
निमेषतुल्यकालानि मात्रालब्धेक्षराणि च ॥

142.4

काष्ठा निमेषा दश पञ्च चैव त्रिंशच्च काष्ठां गणयेत्कलां तु
त्रिंशत्कलाश्चैव भवेन्मुहूर्तस् तैस्त्रिंशता रात्र्यहनी समेते ॥

142.5

अहोरात्रे विभजते सूर्यो मानुषलौकिके
रात्रिः स्वप्नाय भूतानां चेष्टायै कर्मणामहः ॥

142.6

पित्र्ये रात्र्यहनी मासः प्रविभागस् तयोः पुनः
कृष्णपक्षस् त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ॥

142.7

त्रिंशद्ये मानुषा मासाः पित्र्यो मासः स उच्यते
शतानि त्रीणि मासानां षष्ट्या चाभ्यधिकानि तु
पित्र्यः संवत्सरो ह्येष मानुषेण विभाव्यते ॥

142.8

मानुषेणैव मानेन वर्षाणां यच्छतं भवेत्
पितॄणां तानि वर्षाणि संख्यातानि तु त्रीणि वै
दश च द्व्यधिका मासाः पितृसंख्येह कीर्तिता ॥

142.9

लौकिकेन प्रमाणेन अब्दो यो मानुषः स्मृतः
एतद्दिव्यमहोरात्रम् इत्येषा वैदिकी श्रुतिः ॥

142.10

दिव्ये रात्र्यहनी वर्षं प्रविभागस्तयोः पुनः
अहस्तु यदुदक्चैव रात्रिर्या दक्षिणायनम्
एते रात्र्यहनी दिव्ये प्रसंख्याते तयोः पुनः ॥

142.11

त्रिंशद्यानि तु वर्षाणि दिव्यो मासस्तु स स्मृतः
मानुषाणां शतं यच्च दिव्या मासास्त्रयस्तु वै
तथैव सह संख्यातो दिव्य एष विधिः स्मृतः ॥

142.12

त्रीणि वर्षशतान्येवं षष्टिर्वर्षास्तथैव च
दिव्यः संवत्सरो ह्येष मानुषेण प्रकीर्तितः ॥

142.13

त्रीणि वर्षसहस्राणि मानुषेण प्रमाणतः
त्रिंशदन्यानि वर्षाणि स्मृतः सप्तर्षिवत्सरः ॥

142.14

नव यानि सहस्राणि वर्षाणां मानुषाणि च
वर्षाणि नवतिश्चैव ध्रुवसंवत्सरः स्मृतः ॥

142.15

षट्त्रिंशत्तु सहस्राणि वर्षाणां मानुषाणि च
षष्टिश्चैव सहस्राणि संख्यातानि तु संख्यया
दिव्यं वर्षसहस्रं तु प्राहुः संख्याविदो जनाः ॥

142.16

इत्येतदृषिभिर्गीतं दिव्यया संख्यया द्विजाः
दिव्येनैव प्रमाणेन युगसंख्या प्रकल्पिता ॥

142.17

चत्वारि भारते वर्षे युगानि ऋषयो ऽब्रुवन्
कृतं त्रेता द्वापरं च कलिश्चैवं चतुर्युगम् ॥

142.18

पूर्वं कृतयुगं नाम ततस्त्रेताभिधीयते
द्वापरं च कलिश्चैव युगानि परिकल्पयेत् ॥

142.19

चत्वार्याहुः सहस्राणि वर्षाणां तत्कृतं युगम्
तस्य ताव् अच्छती संध्या संध्यांशश्च तथाविधः ॥

142.20

इतरेषु ससंध्येषु ससंध्यांशेषु च त्रिषु
एकपादे निवर्तन्ते सहस्राणि शतानि च ॥

142.21

त्रेता त्रीणि सहस्राणि युगसंख्याविदो विदुः
तस्यापि त्रिशती संध्या संध्यांशः संध्यया समः ॥

142.22

द्वे सहस्रे द्वापरं तु संध्यांशौ तु चतुःशतम्
सहस्रमेकं वर्षाणां कलिरेव प्रकीर्तितः
द्वे शते च तथान्ये च संध्यासंध्यांशयोः स्मृते ॥

142.23

एषा द्वादशसाहस्री युगसंख्या तु संज्ञिता
कृतं त्रेता द्वापरं च कलिश्चेति चतुष्टयम् ॥

142.24

तत्र संवत्सराः सृष्टा मानुषास्तान्निबोधत
नियुतानि दश द्वे च पञ्च चैवात्र संख्यया
अष्टाविंशत्सहस्राणि कृतं युगमथोच्यते ॥

142.25

प्रयुतं तु तथा पूर्णं द्वे चान्ये नियुते पुनः
षण्णवतिसहस्राणि संख्यातानि च संख्यया
त्रेतायुगस्य संख्यैषा मानुषेण तु संज्ञिता ॥

142.26

अष्टौ शतसहस्राणि वर्षाणां मानुषाणि तु
चतुःषष्टिसहस्राणि वर्षाणां द्वापरं युगम् ॥

142.27

चत्वारि नियुतानि स्युर् वर्षाणि तु कलिर्युगम्
द्वात्रिंशच्च तथान्यानि सहस्राणि तु संख्यया
एतत्कलियुगं प्रोक्तं मानुषेण प्रमाणतः ॥

142.28

एषा चतुर्युगावस्था मानुषेण प्रकीर्तिता
चतुर्युगस्य संख्याता संध्या संध्यांशकैः सह ॥

142.29

एषा चतुर्युगाख्या तु साधिका त्वेकसप्ततिः
कृतत्रेतादियुक्ता सा मनोरन्तरमुच्यते ॥

142.30

मन्वन्तरस्य संख्या तु मानुषेण निबोधत
एकत्रिंशत्तथा कोट्यः संख्याताः संख्यया द्विजैः ॥

142.31

तथा शतसहस्राणि दश चान्यानि भागशः
सहस्राणि तु द्वात्रिंशच् छतान्यष्टाधिकानि च ॥

142.32

अशीतिश्चैव वर्षाणि मासाश्चैवाधिकास्तु षट्
मन्वन्तरस्य संख्यैषा मानुषेण प्रकीर्तिता ॥

142.33

दिव्येन च प्रमाणेन प्रवक्ष्याम्यन्तरं मनोः
सहस्राणां शतान्याहुः स च वै परिसंख्यया ॥

142.34

चत्वारिंशत्सहस्राणि मनोरन्तरमुच्यते
मन्वन्तरस्य कालस्तु युगैः सह प्रकीर्तितः ॥

142.35

एषा चतुर्युगाख्या तु साधिका ह्येकसप्ततिः
क्रमेण परिवृत्ता सा मनोरन्तरमुच्यते ॥

142.36

एतच्चतुर्दशगुणं कल्पमाहुस्तु तद्विदः
ततस्तु प्रलयः कृत्स्नः स तु संप्रलयो महान् ॥

142.37

कल्पप्रमाणो द्विगुणो यथा भवति संख्यया
चतुर्युगाख्या व्याख्याता कृतं त्रेतायुगं च वै ॥

142.38

त्रेतासृष्टं प्रवक्ष्यामि द्वापरं कलिमेव च
युगपत्समवेतौ द्वौ द्विधा वक्तुं न शक्यते ॥

142.39

क्रमागतं मयाप्येतत् तुभ्यं नोक्तं युगद्वयम्
ऋषिवंशप्रसङ्गेन व्याकुलत्वात्तथा क्रमात् ॥

142.40

नोक्तं त्रेतायुगे शेषं तद्वक्ष्यामि निबोधत
अथ त्रेतायुगस्यादौ मनुः सप्तर्षयश्च ये
श्रौतस्मार्तं ब्रुवन्धर्मं ब्रह्मणा तु प्रचोदिताः ॥

142.41

दाराग्निहोत्रसम्बन्धम् ऋग्यजुःसामसंहिताः
इत्यादिबहुलं श्रौतं धर्मं सप्तर्षयो ऽब्रुवन् ॥

142.42

परम्परागतं धर्मं स्मार्तं त्वाचारलक्षणम्
वर्णाश्रमाचारयुतं मनुः स्वायम्भुवो ऽब्रवीत् ॥

142.43

सत्येन ब्रह्मचर्येण श्रुतेन तपसा तथा
तेषां सुतप्ततपसाम् आर्षेणानुक्रमेण ह ॥

142.44

सप्तर्षीणां मनोश्चैव आदौ त्रेतायुगे ततः
अबुद्धिपूर्वकं तेन सकृत्पूर्वकमेव च ॥

142.45

अभिवृत्तास्तु ते मन्त्रा दर्शनैस्तारकादिभिः
आदिकल्पे तु देवानां प्रादुर्भूतास्तु ते स्वयम् ॥

142.46

प्रमाणेष्वथ सिद्धानाम् अन्येषां च प्रवर्तते
मन्त्रयोगो व्यतीतेषु कल्पेष्वथ सहस्रशः
ते मन्त्रा वै पुनस्तेषां प्रतिमायामुपस्थिताः ॥

142.47

ऋचो यजूंषि सामानि मन्त्राश्चाथर्वणास्तु ये
सप्तर्षिभिश्च ये प्रोक्ताः स्मार्तं तु मनुरब्रवीत् ॥

142.48

त्रेतादौ संहता वेदाः केवलं धर्मसेतवः
संरोधादायुषश्चैव व्यस्यन्ते द्वापरे च ते
ऋषयस्तपसा वेदान् अहोरात्रमधीयते ॥

142.49

अनादिनिधना दिव्याः पूर्वं प्रोक्ताः स्वयम्भुवा
स्वधर्मसंवृताः साङ्गा यथाधर्मं युगे युगे
विक्रियन्ते स्वधर्मं तु वेदवादाद्यथायुगम् ॥

142.50

आरम्भयज्ञः क्षत्रस्य हविर्यज्ञा विशः स्मृताः
परिचारयज्ञाः शूद्राश्च जपयज्ञाश्च ब्राह्मणाः ॥

142.51

ततः समुदिता वर्णास् त्रेतायां धर्मशालिनः
क्रियावन्तः प्रजावन्तः समृद्धाः सुखिनश्च वै ॥

142.52

ब्राह्मणैश्च विधीयन्ते क्षत्रियाः क्षत्रियैर्विशः
वैश्याञ्छूद्रा अनुवर्तन्ते परस्परमनुग्रहात् ॥

142.53

शुभाः प्रकृतयस्तेषां धर्मा वर्णाश्रमाश्रयाः
संकल्पितेन मनसा वाचा वा हस्तकर्मणा
त्रेतायुगे ह्यविकले कर्मारम्भः प्रसिध्यति ॥

142.54

आयूरूपं बलं मेधा आरोग्यं धर्मशीलता
सर्वसाधारणं ह्येतद् आसीत्त्रेतायुगे तु वै ॥

142.55

वर्णाश्रमव्यवस्थानम् एषां ब्रह्मा तथाकरोत्
संहिताश्च तथा मन्त्रा आरोग्यं धर्मशीलता ॥

142.56

संहिताश्च तथा मन्त्रा ऋषिभिर् ब्रह्मणः सुतैः
यज्ञः प्रवर्तितश्चैव तदा ह्येव तु दैवतैः ॥

142.57

यामैः शुक्लैर्जयैश्चैव सर्वसाधनसंभृतैः
विश्वसृड्भिस् तथा सार्धं देवेन्द्रेण महौजसा
स्वायम्भुवे ऽन्तरे देवैस् ते यज्ञाः प्राक्प्रवर्तिताः ॥

142.58

सत्यं जपस्तपो दानं पूर्वधर्मो य उच्यते
यदा धर्मस्य ह्रसते शाखाधर्मस्य वर्धते ॥

142.59

जायन्ते च तदा शूरा आयुष्मन्तो महाबलाः
न्यस्तदण्डा महायोगा यज्वानो ब्रह्मवादिनः ॥

142.60

पद्मपत्त्रायताक्षाश्च पृथुवक्त्राः सुसंहताः
सिंहोरस्का महासत्त्वा मत्तमातंगगामिनः ॥

142.61

महाधनुर्धराश्चैव त्रेतायां चक्रवर्तिनः
सर्वलक्षणपूर्णास्ते न्यग्रोधपरिमण्डलाः ॥

142.62

न्यग्रोधौ तु स्मृतौ बाहू व्यामो न्यग्रोध उच्यते
व्यामेन सूच्छ्रयो यस्य अत ऊर्ध्वं तु देहिनः
समुच्छ्रयः परीणाहो न्यग्रोधपरिमण्डलः ॥

142.63

चक्रं रथो मणिर्भार्या निधिरश्वो गजस्तथा
प्रोक्तानि सप्त रत्नानि पूर्वं स्वायम्भुवे ऽन्तरे ॥

142.64

विष्णोरंशेन जायन्ते पृथिव्यां चक्रवर्तिनः
मन्वन्तरेषु सर्वेषु ह्य् अतीतानागतेषु वै ॥

142.65

भूतभव्यानि यानीह वर्तमानानि यानि च
त्रेतायुगानि तेष्वत्र जायन्ते चक्रवर्तिनः ॥

142.66

भद्राणीमानि तेषां च विभाव्यन्ते महीक्षिताम्
अत्यद्भुतानि चत्वारि बलं धर्मं सुखं धनम् ॥

142.67

अन्योन्यस्याविरोधेन प्राप्यन्ते नृपतेः समम्
अर्थो धर्मश्च कामश्च यशो विजय एव च ॥

142.68

ऐश्वर्येणाणिमाद्येन प्रभुशक्तिबलान्विताः
श्रुतेन तपसा चैव ऋषींस्ते ऽभिभवन्ति हि ॥

142.69

बलेनाभिभवन्त्येते तेन दानवमानवान्
लक्षणैश्चैव जायन्ते शरीरस्थैरमानुषैः ॥

142.70

केशाः स्थिता ललाटेन जिह्वा च परिमार्जनी
श्यामप्रभाश्चतुर्दंष्ट्राः सुवंशाश्चोर्ध्वरेतसः ॥

142.71

आजानुबाहवश्चैव तालहस्तौ वृषाकृती
परिणाहप्रमाणाभ्यां सिंहस्कन्धाश्च मेधिनः ॥

142.72

पादयोश्चक्रमत्स्यौ तु शङ्खपद्मे च हस्तयोः
पञ्चाशीतिसहस्राणि जीवन्ति ह्यजरामयाः ॥

142.73

असङ्गा गतयस्तेषां चतस्रश्चक्रवर्तिनाम्
अन्तरिक्षे समुद्रेषु पाताले पर्वतेषु च ॥

142.74

इज्या दानं तपः सत्यं त्रेताधर्मास्तु वै स्मृताः
तदा प्रवर्तते धर्मो वर्णाश्रमविभागशः
मर्यादास्थापनार्थं च दण्डनीतिः प्रवर्तते ॥

142.75

हृष्टपुष्टा जनाः सर्वे अरोगाः पूर्णमानसाः
एको वेदश्चतुष्पादस् त्रेतायां तु विधिः स्मृतः
त्रीणि वर्षसहस्राणि जीवन्ते तत्र ताः प्रजाः ॥

142.76

पुत्रपौत्रसमाकीर्णा म्रियन्ते च क्रमेण ताः
एष त्रेतायुगे भावस् त्रेतासंख्यां निबोधत ॥

142.77

त्रेतायुगस्वभावेन संध्यापादेन वर्तते
संध्यापादः स्वभावाच्च यो ऽंशः पादेन तिष्ठति ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc