मत्स्य पुराण · अध्याय 141
कथं गच्छत्यमावास्यां मासि मासि दिवं नृपः
ऐलः पुरूरवाः सूत तर्पयेत कथं पितॄन्
एतदिच्छामहे श्रोतुं प्रभावं तस्य धीमतः ॥
एतदेव तु पप्रच्छ मनुः स मधुसूदनम्
सूर्यपुत्राय चोवाच यथा तन्मे निबोधत ॥
तस्य चाहं प्रवक्ष्यामि प्रभावं विस्तरेण तु
ऐलस्य दिवि संयोगं सोमेन सह धीमता ॥
सोमाच्चैवामृतप्राप्तिः पितॄणां तर्पणं तथा
सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ॥
यदा चन्द्रश्च सूर्यश्च नक्षत्राणां समागतौ
अमावास्यां निवसत एकस्मिन्नथ मण्डले ॥
तदा स गच्छति द्रष्टुं दिवाकरनिशाकरौ
अमावास्याममावास्यां मातामहपितामहौ ॥
अभिवाद्य तु तौ तत्र कालापेक्षः स तिष्ठति
प्रचस्कन्द ततः सोमम् अर्चयित्वा परिश्रमात् ॥
ऐलः पुरूरवा विद्वान् मासि श्राद्धचिकीर्षया
ततः स दिवि सोमं वै ह्य् उपतस्थे पितॄनपि ॥
द्विलवं कुहूमात्रं च तावुभौ तु निधाय सः
सिनीवालीप्रमाणाल्प कुहूमात्रव्रतोदये ॥
कुहूमात्रं पित्रुद्देशं ज्ञात्वा कुहूमुपासाते
तमुपास्य ततः सोमं कलापेक्षी प्रतीक्षते ॥
स्वधामृतं तु सोमाद्वै वसंस्तेषां च तृप्तये
दशभिः पञ्चभिश्चैव स्वधामृतपरिस्रवैः
कृष्णपक्षभुजां प्रीतिर् द्रुह्यते परमांशुभिः ॥
सद्यो ऽभिक्षरता तेन सौम्येन मधुना च सः
निवापेष्वथ दत्तेषु पित्र्येण विधिना तु वै ॥
स्वधामृतेन सौम्येन तर्पयामास वै पितॄन्
सौम्या बर्हिषदः काव्या अग्निष्वात्तास्तथैव च ॥
ऋतुरग्निः स्मृतो विप्रैर् ऋतुं संवत्सरं विदुः
जज्ञिरे ऋतवस्तस्माद् ऋतुभ्यो ह्यार्तवा अभवन् ॥
पितर ऋतवो ऽर्धमासा विज्ञेया ऋतुसूनवः
पितामहास्तु ऋतवो ह्य् अमावास्याब्दसूनवः
प्रपितामहाः स्मृता देवाः पञ्चाब्दा ब्रह्मणः सुताः ॥
सौम्या बर्हिषदः काव्या अग्निष्वात्ता इति त्रिधा
गृहस्था ये तु यज्वानो हविर्यज्ञार्तवाश्च ये
स्मृता बर्हिषदस्ते वै पुराणे निश्चयं गताः ॥
गृहमेधिनश्च यज्वानो ह्य् अग्निष्वात्तार्तवाः स्मृताः
अष्टकापतयः काव्याः पञ्चाब्दांस्तु निबोधत ॥
तेषु संवत्सरो ह्यग्निः सूर्यस्तु परिवत्सरः
सोमस् त्विड्वत्सरश् चैव वायुश्चैवानुवत्सरः ॥
रुद्रस्तु वत्सरस्तेषां पञ्चाब्दा ये युगात्मकाः
कालेनाधिष्ठितस्तेषु चन्द्रमाः स्रवते सुधाम् ॥
एते स्मृता देवकृत्याः सोमपाश्चोष्मपाश्च ये
तांस्तेन तर्पयामास यावदासीत्पुरूरवाः ॥
यस्मात्प्रसूयते सोमो मासि मासि विशेषतः
ततः स्वधाभृतं तद्वै पितॄणां सोमपायिनाम्
एतत्तदमृतं सोमम् अवाप मधु चैव हि ॥
ततः पीतसुधं सोमं सूर्यो ऽसावेकरश्मिना
आप्यायते सुषुम्नेन सोमं तु सोमपायिनम् ॥
निःशेषा वै कलाः पूर्वा युगपद् व्यापयन् पुरा
सुषुम्नाप्यायमानस्य भागं भागमहःक्रमात् ॥
कलाः क्षीयन्ति कृष्णास्ताः शुक्ला ह्याप्याययन्ति च
एवं सा सूर्यवीर्येण चन्द्रस्याप्यायिता तनुः ॥
पौर्णमास्यां स दृश्येत शुक्लः सम्पूर्णमण्डलः
एवमाप्यायितः सोमः शुक्लपक्षे ऽप्यहःक्रमात्
देवैः पीतसुधं सोमं पुरा पश्चात्पिबेद्रविः ॥
पीतं पञ्चदशाहं तु रश्मिनैकेन भास्करः
आप्याययत्सुषुम्नेन भागं भागमहःक्रमात् ॥
सुषुम्नाप्यायमानस्य शुक्ला वर्धन्ति वै कलाः
तस्माद्ध्रसन्ति वै कृष्णाः शुक्ला ह्याप्याययन्ति च ॥
एवमाप्यायते सोमः क्षयिते च पुनः पुनः
समृद्धिरेवं सोमस्य पक्षयोः शुक्लकृष्णयोः ॥
इत्येष पितृमान्सोमः स्मृतस्तद्वसुधात्मकः
कान्तः पञ्चदशैः सार्धं सुधाभृतपरिस्रवैः ॥
अतः परं प्रवक्ष्यामि पर्वणां संधयश्च याः
यथा ग्रथ्नन्ति पर्वाणि आवृत्तादिक्षुवेणुवत् ॥
तथाब्दमासाः पक्षाश्च शुक्लाः कृष्णास्तु वै स्मृताः
पौर्णमास्यास्तु यो भेदो ग्रन्थयः संधयस्तथा ॥
अर्धमासस्य पर्वाणि द्वितीयाप्रभृतीनि च
अग्न्याधानक्रिया यस्मान् नीयन्ते पर्वसंधिषु ॥
तस्मात्तु पर्वणो ह्यादौ प्रतिपद्यादिसंधिषु
सायाह्ने अनुमत्याश्च द्वौ लवौ काल उच्यते
लवौ द्वावेव राकायाः कालो ज्ञेयो ऽपराह्णिकः ॥
प्रकृतिः कृष्णपक्षस्य काले ऽतीते ऽपराह्णिके
सायाह्ने प्रतिपद्येष स कालः पौर्णमासिकः ॥
व्यतीपाते स्थिते सूर्ये लेखादूर्ध्वं युगान्तरम्
युगान्तरोदिते चैव चन्द्रे लेखोपरि स्थिते ॥
पूर्णमासव्यतीपातौ यदा पश्येत्परस्परम्
तौ तु वै प्रतिपद्यावत् तस्मिन्काले व्यवस्थितौ ॥
तत्कालं सूर्यमुद्दिश्य दृष्ट्वा संख्यातुमर्हसि
स चैव सत्क्रियाकालः षष्ठः कालो ऽभिधीयते ॥
पूर्णेन्दुः पूर्णपक्षे तु रात्रिसंधिषु पूर्णिमा
तस्मादाप्यायते नक्तं पौर्णमास्यां निशाकरः ॥
यदान्योन्यवतीं पाते पूर्णिमां प्रेक्षते दिवा
चन्द्रादित्यो ऽपराह्णे तु पूर्णत्वात्पूर्णिमा स्मृता ॥
यस्मात्तामनुमन्यन्ते पितरो दैवतैः सह
तस्मादनुमतिर्नाम पूर्णत्वात्पूर्णिमा स्मृता ॥
अत्यर्थं राजते यस्मात् पौर्णमास्यां निशाकरः
रञ्जनाच्चैव चन्द्रस्य राकेति कवयो विदुः ॥
अमा वसेतामृक्षे तु यदा चन्द्रदिवाकरौ
एका पञ्चदशी रात्रिर् अमावास्या ततः स्मृता ॥
उद्दिश्य ताममावास्यां यदा दर्शं समागतौ
अन्योन्यं चन्द्रसूर्यौ तु दर्शनाद्दर्श उच्यते ॥
द्वौ द्वौ लवावमावास्यां स कालः पर्वसंधिषु
द्व्यक्षरः कुहूमात्रश्च पर्वकालस्तु स स्मृतः ॥
दृष्टचन्द्रा त्वमावास्या मध्याह्नप्रभृतीह वै
दिवा तदूर्ध्वं रात्र्यां तु सूर्ये प्राप्ते तु चन्द्रमाः
सूर्येण सहसोद्गच्छेत् ततः प्रातस्तनात्तु वै ॥
समागम्य लवौ द्वौ तु मध्याह्नान्निपतन्रविः
प्रतिपच्छुक्लपक्षस्य चन्द्रमाः सूर्यमण्डलात् ॥
निर्मुच्यमानयोर्मध्ये तयोर्मण्डलयोस्तु वै
स तदान्वाहुतेः कालो दर्शस्य च वषट्क्रियाः
एतदृतुमुखं ज्ञेयम् अमावास्यां तु पार्वणम् ॥
दिवा पर्व त्वमावास्यां क्षीणेन्दौ धवले तु वै
तस्माद्दिवा त्वमावास्यां गृह्यते यो दिवाकरः ॥
कुहेति कोकिलेनोक्तं यस्मात्कालात्समाप्यते
तत्कालसंज्ञिता ह्येषा अमावास्या कुहूः स्मृता ॥
सिनीवालीप्रमाणं तु क्षीणशेषो निशाकरः
अमावास्या विशत्यर्कं सिनीवाली तदा स्मृता ॥
अनुमतिश्च राका च सिनीवाली कुहूस्तथा
एतासां द्विलवः कालः कुहूमात्रा कुहूः स्मृता ॥
इत्येष पर्वसंधीनां कालो वै द्विलवः स्मृतः
पर्वणां तुल्यकालस्तु तुल्याहुतिवषट्क्रियाः ॥
चन्द्रभूर्यव्यतीपाते समे वै पूर्णिमे उभे
प्रतिपत्प्रतिपन्नस्तु पर्वकालो द्विमात्रकः ॥
कालः कुहूसिनीवाल्योः समुद्धो द्विलवः स्मृतः
अर्कनिर्मण्डले सोमे पर्वकालः कलाः स्मृताः ॥
यस्माद् आपूर्यते सोमः पञ्चदश्यां तु पूर्णिमा
दशभिः पञ्चभिश्चैव कलाभिर्दिवसक्रमात् ॥
तस्मात्पञ्चदशे सोमे कला वै नास्ति षोडशी
तस्मात्सोमस्य विप्रोक्तः पञ्चदश्यां मया क्षयः ॥
इत्येते पितरो देवाः सोमपाः सोमवर्धनाः
आर्तवा ऋतवो ऽथाब्दा देवास्तान्भावयन्ति हि ॥
अतः परं प्रवक्ष्यामि पितॄञ्छ्राद्धभुजस्तु ये
तेषां गतिं च सत्तत्वं प्राप्तिं श्राद्धस्य चैव हि ॥
न मृतानां गतिः शक्या ज्ञातुं वा पुनरागतिः
तपसा हि प्रसिद्धेन किं पुनर्मांसचक्षुषा ॥
अत्र देवान्पितॄंश्चैते पितरो लौकिकाः स्मृताः
तेषां ते धर्मसामर्थ्यात् स्मृताः सायुज्यगा द्विजैः ॥
यदि वाश्रमधर्मेण प्रज्ञानेषु व्यवस्थितान्
अन्ये चात्र प्रसीदन्ति श्रद्धायुक्तेषु कर्मसु ॥
ब्रह्मचर्येण तपसा यज्ञेन प्रजया भुवि
श्राद्धेन विद्यया चैव चान्नदानेन सप्तधा ॥
कर्मस्वेतेषु ये सक्ता वर्तन्त्य् आ देहपातनात्
देवैस्ते पितृभिः सार्धम् ऊष्मपैः सोमपैस्तथा
स्वर्गता दिवि मोदन्ते पितृमन्त उपासते ॥
प्रजावतां प्रसिद्धैषा उक्ता श्राद्धकृतां च वै
तेषां निवापे दत्तं हि तत्कुलीनैस्तु बान्धवैः ॥
मासश्राद्धं हि भुञ्जानास् तेऽत्येते सोमलौकिकाः
एते मनुष्याः पितरो मासश्राद्धभुजस्तु वै ॥
तेभ्यो ऽपरे तु ये त्वन्ये संकीर्णाः कर्मयोनिषु
भ्रष्टाश्चाश्रमधर्मेषु स्वधास्वाहाविवर्जिताः ॥
भिन्ने देहे दुरापन्नाः प्रेतभूता यमक्षये
स्वकर्माण्यनुशोचन्तो यातनास्थानमागताः ॥
दीर्घाश्चैवातिशुष्काश्च श्मश्रुलाश्च विवाससः
क्षुत्पिपासाभिभूतास्ते विद्रवन्ति त्वितस्ततः ॥
सरित्सरस्तडागानि पुष्करिण्यश्च सर्वशः
परान्नान्यभिकाङ्क्षन्तः काल्यमाना इतस्ततः ॥
स्थानेषु पात्यमाना ये यातनास्थेषु तेषु वै
शाल्मल्यां वैतरण्यां च कुम्भीपाकेद्धवालुके ॥
असिपत्त्रवने चैव पात्यमानाः स्वकर्मभिः
तत्रस्थानां तु तेषां वै दुःखितानाम् अशायिनाम् ॥
तेषां लोकान्तरस्थानां बान्धवैर्नामगोत्रतः
भूमावसव्यं दर्भेषु दत्ताः पिण्डास्त्रयस्तु वै
प्राप्तांस्तु तर्पयन्त्येव प्रेतस्थानेष्वधिष्ठितान् ॥
अप्राप्ता यातनास्थानं प्रभ्रष्टा ये च पञ्चधा
पश्चाद्ये स्थावरान्ते वै भूतानीके स्वकर्मभिः ॥
नानारूपासु जातीनां तिर्यग्योनिषु मूर्तिषु
यदाहारा भवन्त्येते तासु तास्विह योनिषु ॥
तस्मिंस् तस्मिंस् तदाहारे श्राद्धं दत्तं तु प्रीणयेत्
काले न्यायागतं पात्रे विधिना प्रतिपादितम्
प्राप्नुवन्त्यन्नमादत्तं यत्र यत्रावतिष्ठते ॥
यथा गोषु प्रनष्टासु वत्सो विन्दति मातरम्
तथा श्राद्धेषु दृष्टान्तो मन्त्रः प्रापयते तु तम् ॥
एवं ह्यविकलं श्राद्धं श्रद्धादत्तं मनुर्ब्रवीत्
सनत्कुमारः प्रोवाच पश्यन्दिव्येन चक्षुषा ॥
गतागतज्ञः प्रेतानां प्राप्तिं श्राद्धस्य चैव हि
कृष्णपक्षस्त्वहस्तेषां शुक्लः स्वप्नाय शर्वरी ॥
इत्येते पितरो देवा देवाश्च पितरश्च वै
अन्योन्यपितरो ह्येते देवाश्च पितरो दिवि ॥
एते तु पितरो देवा मनुष्याः पितरश्च ये
पिता पितामहश्चैव तथैव प्रपितामहः ॥
इत्येष विषयः प्रोक्तः पितॄणां सोमपायिनाम्
एतत्पितृमहत्त्वं हि पुराणे निश्चयं गतम् ॥
इत्येष सोमसूर्याभ्याम् ऐलस्य च समागमः
अवाप्तिं श्रद्धया चैव पितॄणां चैव तर्पणम् ॥
पर्वणां चैव यः कालो यातनास्थानमेव च
समासात्कीर्तितस्तुभ्यं सर्ग एष सनातनः ॥
वैरूप्यं येन तत्सर्वं कथितं त्वेकदेशिकम्
अशक्यं परिसंख्यातुं श्रद्धेयं भूतिमिच्छता ॥
स्वायम्भुवस्य देवस्य एष सर्गो मयेरितः
विस्तरेणानुपूर्व्याच्च भूयः किं कथयामि वः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0