मत्स्य पुराण · अध्याय 140
उदिते तु सहस्रांशौ मेरौ भासाकरे रवौ
नदद्देवबलं कृत्स्नं युगान्त इव सागरः ॥
सहस्रनयनो देवस् ततः शक्रः पुरंदरः
सवित्तदः सवरुणस् त्रिपुरं प्रययौ हरः ॥
ते नानाविधरूपाश्च प्रमथातिप्रमाथिनः
ययुः सिंहरवैर् घोरैर् वादित्रनिनदैरपि ॥
ततो वादितवादित्रैश् चातपत्रैर्महाद्रुमैः
बभूव तद्बलं दिव्यं वनं प्रचलितं यथा ॥
तदापतन्तं सम्प्रेक्ष्य रौद्रं रुद्रबलं महत्
संक्षोभो दानवेन्द्राणां समुद्रप्रतिमो बभौ ॥
ते चासीन्पट्टिशाञ्शक्तीः शूलदण्डपरश्वधान्
शरासनानि वज्राणि गुरूणि मुसलानि च ॥
प्रगृह्य कोपरक्ताक्षाः सपक्षा इव पर्वताः
निजघ्नुः पर्वतघ्नाय घना इव तपात्यये ॥
सविद्युन्मालिनस्ते वै समया दितिनन्दनाः
मोदमानाः समासेदुर् देवदेवैः सुरारयः ॥
मर्तव्यकृतबुद्धीनां जये चानिश्चितात्मनाम्
अबलानां चमूर्ह्यासीद् अबलावयवा इव ॥
विगर्जन्त इवाम्भोदा अम्भोदसदृशत्विषः
प्रयुध्य युद्धकुशलाः परस्परकृतागसः ॥
धूमायन्तो ज्वलद्भिश्च आयुधैश्चन्द्रवर्चसैः
कोपाद्वा युद्धलुब्धाश्च कुट्टयन्ते परस्परम् ॥
वज्राहताः पतन्त्यन्ये बाणैरन्ये विदारिताः
अन्ये विदारिताश्चक्रैः पतन्ति ह्युदधेर्जले ॥
छिन्नस्रग्दामहाराश्च प्रमृष्टाम्बरभूषणाः
तिमिनक्रगणे चैव पतन्ति प्रमथाः सुराः ॥
गदानां मुसलानां च तोमराणां परश्वधाम्
वज्रशूलर्ष्टिपातानां पट्टिशानां च सर्वतः ॥
गिरिशृङ्गोपलानां च प्रेरितानां प्रमन्युभिः
सजवानां दानवानां सधूमानां रवित्विषाम्
आयुधानां महानोघः सागरौघे पतत्यपि ॥
प्रवृद्धवेगैस्तैस्तत्र सुरासुरकरेरितैः
आयुधैस्त्रस्तनक्षत्रः क्रियते संक्षयो महान् ॥
क्षुद्राणां गजयोर्युद्धे यथा भवति संक्षयः
देवासुरगणैस् तद्वत् तिमिनक्रक्षयो ऽभवत् ॥
विद्युन्माली च वेगेन विद्युन्माली इवाम्बुदः
विद्युर्मालघनोन्नादो नन्दीश्वरमभिद्रुतः ॥
स तं तमोरिवदनं प्रणदन्वदतां वरः
उवाच युधि शैलादिं दानवो ऽम्बुधिनिःस्वनः ॥
युद्धाकाङ्क्षी तु बलवान् विद्युन्माल्यहमागतः
यदि त्विदानीं मे जीवन् मुच्यसे नन्दिकेश्वर
न विद्युन्मालिहननं वचोभिर्युधि दानव ॥
तम् एवंवादिनं दैत्यं नन्दीशस्तपतां वरः
उवाच प्रहरंस्तत्र वाक्यालंकारकोविदः ॥
दानवा धर्मकामाणां नैषो ऽवसर इत्युत
शक्तो हन्तुं किमात्मानं जातिदोषाद् विबृंहसि ॥
यदि तावन्मया पूर्वं हतो ऽसि पशुवद्यथा
इदानीं वा कथं नाम न हिंस्ये क्रतुदूषणम् ॥
सागरं तरते दोर्भ्यां पातयेद्यो दिवाकरम्
सो ऽपि मां शक्नुयान्नैव चक्षुर्भ्यां समवेक्षितुम् ॥
इत्येवंवादिनं तत्र नन्दिनं तन्निभो बले
बिभेदैकेषुणा दैत्यः करेणार्क इवाम्बुदम् ॥
वक्षसः स शरस्तस्य पपौ रुधिरमुत्तमम्
सूर्यस्त्वात्मप्रभावेण नद्यर्णवजलं यथा ॥
स तेन सुप्रहारेण प्रथमं चातिरोपितः
हस्तेन वृक्षमुत्पाट्य चिक्षेप गजराडिव ॥
वायुनुन्नः स च तरुः शीर्णपुष्पो महारवः
विद्युन्मालिशरैश्छिन्नः पपात पतगेशवत् ॥
वृक्षमालोक्य तं छिन्नं दानवेन वरेषुभिः
रोषमाहारयत्तीव्रं नन्दीश्वरः सुविग्रहः ॥
सोद्यम्य करमारावे रविशक्रकरप्रभम्
दुद्राव हन्तुं स क्रूरं महिषं गजराडिव ॥
तमापतन्तं वेगेन वेगवान्प्रसभं बलात्
विद्युन्माली शरशतैः पूरयामास नन्दिनम् ॥
शरकण्टकिताङ्गो वै शैलादिः सो ऽभवत्पुनः
अरेर्गृह्य रथं तस्य महतः प्रययौ जवात् ॥
विलम्बिताश्वो विशिरो भ्रमितश्च रणे रथः
पपात मुनिशापेन सादित्यो ऽर्करथो यथा ॥
अन्तरान्निर्गतश्चैव मायया स दितेः सुतः
आजघान तदा शक्त्या शैलादिं समवस्थितम् ॥
तामेव तु विनिष्क्रम्य शक्तिं शोणितभूषिताम्
विद्युन्मालिनमुद्दिश्य चिक्षेप प्रमथाग्रणीर् ॥
तया भिन्नतनुत्राणो विभिन्नहृदयस्त्वपि
विद्युन्माल्यपतद्भूमौ वज्राहत इवाचलः ॥
विद्युन्मालिनि निहते सिद्धचारणकिंनराः
साधु साध्विति चोक्त्वा ते पूजयन्त उमापतिम् ॥
नन्दिना सादिते दैत्ये विद्युन्मालौ हते मयः
ददाह प्रमथानीकं वनमग्निरिवोद्धतः ॥
शूलनिर्दारितोरस्का गदाचूर्णितमस्तकाः
इषुभिर्गाढविद्धाश्च पतन्ति प्रमथार्णवे ॥
अथ वज्रधरो यमो ऽर्थदः स च नन्दी स च षण्मुखो गुहः ।
मयम् असुरवीरसम्प्रवृत्तं विविधुः शस्त्रवरैर्हतारयः ॥
नागं तु नागाधिपतेः शताक्षं मयो विदार्येषुवरेण तूर्णम्
यमं च वित्ताधिपतिं च विद्ध्वा ररास मत्ताम्बुदवत्तदानीम् ॥
ततः शरैः प्रमथगणैश्च दानवा दृढाहताश्चोत्तमवेगविक्रमाः
भृशानुविद्धास्त्रिपुरं प्रवेशिता यथा शिवश्चक्रधरेण संयुगे ॥
ततस्तु शङ्खानकभेरिमर्दलाः ससिंहनादा दनुपुत्रभङ्गदाः
कपर्दिसैन्ये प्रबभुः समन्ततो निपात्यमाना युधि वज्रसंनिभाः ॥
अथ दैत्यपुराभावे पुष्ययोगो बभूव ह
बभूव चापि संयुक्तं तद्योगेन पुरत्रयम् ॥
ततो बाणं त्रिधा देवस् त्रिदैवतमयं हरः
मुमोच त्रिपुरे तूर्णं त्रिनेत्रस्त्रिपथाधिपः ॥
तेन मुक्तेन बाणेन बाणपुष्पसमप्रभम्
आकाशं स्वर्णसंकाशं कृतं सूर्येण रञ्जितम् ॥
मुक्त्वा त्रिदैवतमयं त्रिपुरे त्रिदशः शरम्
धिग्धिङ् मामिति चक्रन्द कष्टं कष्टमिति ब्रुवन् ॥
वैधुर्यं दैवतं दृष्ट्वा शैलादिर्गजवद्गतः
किमिदं त्विति पप्रच्छ शूलपाणिं महेश्वरम् ॥
ततः शशाङ्कतिलकः कपर्दी परमार्तवत्
उवाच नन्दिनं भक्तः स मयो ऽद्य विनङ्क्ष्यति ॥
अथ नन्दीश्वरस्तूर्णं मनोमारुतवद्बली
शरे त्रिपुरमायाति त्रिपुरं प्रविवेश सः ॥
स मयं प्रेक्ष्य गणपः प्राह काञ्चनसंनिभः
विनाशस्त्रिपुरस्यास्य प्राप्तो मय सुदारुणः
अनेनैव गृहेण त्वम् अपक्राम ब्रवीम्यहम् ॥
श्रुत्वा तन्नन्दिवचनं दृढभक्तो महेश्वरे
तेनैव गृहमुख्येण त्रिपुराद् अपसर्पितः ॥
सो ऽपीषुः पत्त्रपुटवद् दग्ध्वा तन्नगरत्रयम्
त्रिधा इव हुताशश्च सोमो नारायणस्तथा ॥
शरतेजःपरीतानि पुराणि द्विजपुंगवाः
दुष्पुत्रदोषाद्दह्यन्ते कुलान्यूर्ध्वं यथा तथा ॥
मेरुकैलासकल्पानि मन्दराग्रनिभानि च
सकपाटगवाक्षाणि बलिभिः शोभितानि च ॥
सप्रासादानि रम्याणि कूटागारोत्कटानि च
सजलानि समाख्यानि सावलोकनकानि च ॥
बद्धध्वजपताकानि स्वर्णरौप्यमयानि च
गृहाणि तस्मिंस्त्रिपुरे दानवानामुपद्रवे
दह्यन्ते दहनाभानि दहनेन सहस्रशः ॥
प्रासादाग्रेषु रम्येषु वनेषूपवनेषु च
वातायनगताश्चान्याश् चाकाशस्य तलेषु च ॥
रमणैरुपगूढाश्च रमन्त्यो रमणैः सह
दह्यन्ते दानवेन्द्राणाम् अग्निना ह्यपि ताः स्त्रियः ॥
काचित्प्रियं परित्यज्य अशक्ता गन्तुमन्यतः
पुरः प्रियस्य पञ्चत्वं गताग्निवदने क्षयम् ॥
उवाच शतपत्त्राक्षी सास्राक्षीव कृताञ्जलिः
हव्यवाहन भार्याहं परस्य परतापन
धर्मसाक्षी त्रिलोकस्य न मां स्प्रष्टुमिहार्हसि ॥
शायितं च मया देव शिवया च शिवप्रभ
परेण प्रैहि मुक्त्वेदं गृहं च दयितं हि मे ॥
एका पुत्रमुपादाय बालकं दानवाङ्गना
हुताशनसमीपस्था इत्युवाच हुताशनम् ॥
बालो ऽयं दुःखलब्धश्च मया पावक पुत्रकः
नार्हस्येनमुपादातुं दयितं षण्मुखप्रिय ॥
काश्चित्प्रियान्परित्यज्य पीडिता दानवाङ्गनाः
निपतन्त्यर्णवजले सिञ्जमानविभूषणाः ॥
तात पुत्रेति मातेति मातुलेति च विह्वलम्
चक्रन्दुस्त्रिपुरे नार्यः पावकज्वालवेपिताः ॥
यथा दहति शैलाग्निः साम्बुजं जलजाकरम्
तथा स्त्रीवक्त्रपद्मानि चादहत्त्रिपुरे ऽनलः ॥
तुषारराशिः कमलाकराणां यथा दहत्यम्बुजकानि शीते
तथैव सो ऽग्निस्त्रिपुराङ्गनानां ददाह वक्त्रेक्षणपङ्कजानि ॥
शराग्निपातात् समभिद्रुतानां तत्राङ्गनानाम् अतिकोमलानाम्
बभूव काञ्चीगुणनूपुराणाम् आक्रन्दितानां च रवो ऽतिमिश्रः ॥
दग्धार्धचन्द्राणि सवेदिकानि विशीर्णहर्म्याणि सतोरणानि
दग्धानि दग्धानि गृहाणि तत्र पतन्ति रक्षार्थमिवार्णवौघे ॥
गृहैः पतद्भिर्ज्वलनावलीढैर् आसीत्समुद्रे सलिलं प्रतप्तम्
कुपुत्रदोषैः प्रहतानुविद्धं यथा कुलं याति धनान्वितस्य ॥
गृहप्रतापैः क्वथितं समन्तात् तदार्णवे तोयमुदीर्णवेगम्
वित्रासयामास तिमीन्सनक्रांस् तिमिङ्गिलांस्तत्क्वथितांस्तथान्यान् ॥
सगोपुरो मन्दरपादकल्पः प्राकारवर्यस्त्रिपुरे च सो ऽथ
तैरेव सार्धं भवनैः पपात शब्दं महान्तं जनयन्समुद्रे ॥
सहस्रशृङ्गैर् भवनैर् यदासीत् सहस्रशृङ्गः स इवाचलेशः
नामावशेषं त्रिपुरं प्रजज्ञे हुताशनाहारबलिप्रयुक्तम् ॥
प्रदह्यमानेन पुरेण तेन जगत् सपातालदिवं प्रतप्तम्
दुःखं महत्प्राप्य जलावमग्नं यस्मिन्महान्सौधवरो मयस्य ॥
तद्देवेशो वचः श्रुत्वा इन्द्रो वज्रधरस्तदा
शशाप तद्गृहं चापि मयस्यादितिनन्दनः ॥
असेव्यमप्रतिष्ठं च भयेन च समावृतम्
भविष्यति मयगृहं नित्यमेव यथानलः ॥
यस्य यस्य तु देशस्य भविष्यति पराभवः
द्रक्ष्यन्ति त्रिपुरं खण्डं तत्रेदं नाशगा जनाः
तदेतदद्यापि गृहं मयस्यामयवर्जितम् ॥
भगवन्स मयो येन गृहेण प्रपलायितः
तस्य नो गतिमाख्याहि मयस्य चमसोद्भव ॥
दृश्यते दृश्यते यत्र ध्रुवस्तत्र मयास्पदम्
देवद्विट् तु मयश्चातः स तदा खिन्नमानसः
ततश्च्युतो ऽन्यलोके ऽस्मिंस् त्राणार्थं वै चकार सः ॥
तत्रापि देवताः सन्ति आप्तोर्यामाः सुरोत्तमाः
तत्राशक्तं ततो गन्तुं तं चैकं पुरमुत्तमम् ॥
शिवः सृष्ट्वा गृहं प्रादान् मयायैव गृहार्थिने
विरराम सहस्राक्षः पूजयामास चेश्वरम्
पूज्यमानं च भूतेशं सर्वे तुष्टुवुरीश्वरम् ॥
सम्पूज्यमानं त्रिदशैः समीक्ष्य गणैर्गणेशाधिपतिं तु मुख्यम्
हर्षाद् ववल्गुर् जहसुश्च देवा जग्मुर्ननर्दुस्तु विषक्तहस्ताः ॥
पितामहं वन्द्य ततो महेशं प्रगृह्य चापं प्रविमृज्य भूतान्
रथाच्च संपत्य हरेषुदग्धं क्षिप्तं पुरं तन्मकरालये च ॥
य इमं रुद्रविजयं पठते विजयावहम्
विजयं तस्य कृत्येषु ददाति वृषभध्वजः ॥
पितॄणां वापि श्राद्धेषु य इमं श्रावयिष्यति
अनन्तं तस्य पुण्यं स्यात् सर्वयज्ञफलप्रदम् ॥
इदं स्वस्त्ययनं पुण्यम् इदं पुंसवनं महत्
इदं श्रुत्वा पठित्वा च यान्ति रुद्रसलोकताम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0