भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 139

139.1

तारकाख्ये हते युद्धे उत्सार्य प्रमथान्मयः
उवाच दानवान्भूयो भूयः स तु भयावृतान् ॥

139.2

भो ऽसुरेन्द्राधुना सर्वे निबोधध्वं प्रभाषितम्
यत्कर्तव्यं मया चैव युष्माभिश्च महाबलैः ॥

139.3

पुष्यं समेष्यते काले चन्द्रश्चन्द्रनिभाननाः
यदैकं त्रिपुरं सर्वं क्षणमेकं भविष्यति ॥

139.4

कुरुध्वं निर्भयाः काले कोकिलाशंसितेन च
स कालः पुष्ययोगस्य पुरस्य च मया कृतः ॥

139.5

काले तस्मिन्पुरे यस्तु संभावयति संहतिम्
स एनं कारयेच्चूर्णं बलिनैकैषुणा सुरः ॥

139.6

यो वः प्राणो बलं यच्च या च वो वैरितासुराः
तत्कृत्वा हृदये चैव पालयध्वमिदं पुरम् ॥

139.7

महेश्वररथं ह्येकं सर्वप्राणेन भीषणम्
विमुखीकुरुतात्यर्थं यथा नोत्सृजते शरम् ॥

139.8

तत एवं कृते ऽस्माभिस् त्रिपुरस्यापि रक्षणे
प्रतीक्षिष्यन्ति विवशाः पुष्ययोगं दिवौकसः ॥

139.9

निशम्य तन्मयस्यैवं दानवास्त्रिपुरालयाः
मुहुः सिंहरुतं कृत्वा मयमूचुर्यमोपमाः ॥

139.10

प्रयत्नेन वयं सर्वे कुर्मस्तव प्रभाषितम्
तथा कुर्मो यथा रुद्रो न मोक्ष्यति पुरे शरम् ॥

139.11

अद्य यास्यामः संग्रामं तद्रुद्रस्य जिघांसवः
कथयन्ति दितेः पुत्रा हृष्टा भिन्नतनूरुहाः ॥

139.12

कल्पं स्थास्यति वा खस्थं त्रिपुरं शाश्वतं ध्रुवम्
अदानवं वा भविता नारायणपदत्रयम् ॥

139.13

वयं न धर्मं हास्यामो यस्मिन्योक्ष्यसि नो भवान्
अदैवतम् अदैत्यं वा लोकं द्रक्ष्यन्ति मानवाः ॥

139.14

इति संमन्त्र्य हृष्टास्ते पुरान्तर्विबुधारयः
प्रदोषे मुदिता भूत्वा चेरुर्मन्मथचारताम् ॥

139.15

मुहुर्मुक्तोदयो भ्रान्त उदयाग्रं महामणिः
तमांस्युत्सार्य भगवांश् चन्द्रो जृम्भति सो ऽम्बरम् ॥

139.16

कुमुदालंकृते हंसो यथा सरसि विस्तृते
सिंहो यथा चोपविष्टो वैडूर्यशिखरे महान् ॥

139.17

विष्णोर्यथा च विस्तीर्णे हारश्चोरसि संस्थितः
तथावगाढे नभसि चन्द्रो ऽत्रिनयनोद्भवः
भ्राजते भ्राजयंल् लोकान् सृजञ्ज्योत्स्नारसं बलात् ॥

139.18

शीतांशावुदिते चन्द्रे ज्योत्स्नापूर्णे पुरे ऽसुराः
प्रदोषे ललितं चक्रुर् गृहमात्मानमेव च ॥

139.19

रथ्यासु राजमार्गेषु प्रासादेषु गृहेषु च
दीपाश्चम्पकपुष्पाभा नाल्पस्नेहप्रदीपिताः ॥

139.20

तदा मठेषु ते दीपाः स्नेहपूर्णाः प्रदीपिताः
गृहाणि वसुमन्त्येषां सर्वरत्नमयानि च
ज्वलतो ऽदीपयन्दीपांश् चन्द्रोदय इव ग्रहाः ॥

139.21

चन्द्रांशुभिर्भासमानम् अन्तर्दीपैः सुदीपितम्
उपद्रवैः कुलमिव पीयते त्रिपुरे तमः ॥

139.22

तस्मिन्पुरे वै तरुणप्रदोषे चन्द्राट्टहासे तरुणप्रदोषे
रत्यर्थिनो वै दनुजा गृहेषु सहाङ्गनाभिः सुचिरं विरेमुः ॥

139.23

विनोदिता ये तु वृषध्वजस्य पञ्चेषवस्ते मकरध्वजेन
तत्रासुरेष्वासुरपुंगवेषु स्वाङ्गाङ्गनाः स्वेदयुता बभूवुः ॥

139.24

कलप्रलापेषु च दानवीनां वीणाप्रलापेषु च मूर्छितेषु
मत्तप्रलापेषु च कोकिलानां सचापबाणो मदनो ममन्थ ॥

139.25

तमांसि नैशानि द्रुतं निहत्य ज्योत्स्नावितानेन जगद्वितत्य
खे रोहिणीं तां च प्रियां समेत्य चन्द्रः प्रभाभिः कुरुते ऽधिराज्यम् ॥

139.26

स्थित्वैव कान्तस्य तु पादमूले काचिद्वरस्त्री स्वकपोलमूले
विशेषकं चारुतरं करोति तेनाननं स्वं समलंकरोति ॥

139.27

दृष्ट्वाननं मण्डलदर्पणस्थं महाप्रभा मे मुखजेति जप्त्वा
स्मृत्वा वराङ्गी रमणेरितानि तेनैव भावेन रतीमवाप ॥

139.28

रोमाञ्चितैर्गात्रवरैर्युवभ्यो रतानुरागाद् रमणेन चान्याः
स्वयं द्रुतं यान्ति मदाभिभूताः क्षपा यथा चार्कदिनावसाने ॥

139.29

पेपीयते चातिरसानुविद्धा विमार्गितान्या च प्रियं प्रसन्ना
काचित्प्रियस्यातिचिरात्प्रसन्ना आसीत्प्रलापेषु च सम्प्रसन्ना ॥

139.30

गोशीर्षयुक्तैर्हरिचन्दनैश्च पङ्काङ्किताक्षी च वरासुरीणाम्
मनोज्ञरूपा रुचिरा बभूवुः पूर्णामृतस्येव सुवर्णकुम्भाः ॥

139.31

क्षताधरोष्ठा द्रुतदोषरक्ता ललन्ति दैत्या दयितासु रक्ताः
तन्त्रीप्रलापास्त्रिपुरेषु रक्ताः स्त्रीणां प्रलापेषु पुनर्विरक्ताः ॥

139.32

क्वचित्प्रवृत्तं मधुराभिगानं कामस्य बाणैः सुकृतं निधानम्
आपानभूमीषु सुखप्रमेयं गेयं प्रवृत्तं त्वथ साधयन्ति ॥

139.33

गेयं प्रवृत्तं त्वथ शोधयन्ति केचित्प्रियां तत्र च साधयन्ति
केचित्प्रियां सम्प्रति बोधयन्ति संबुध्य संबुध्य च रामयन्ति ॥

139.34

धूतप्रसूनप्रभवः सुबन्धः सूर्ये गते वै त्रिपुरे बभूव
समर्मरो नूपुरमेखलानां शब्दश्च संबाधति कोकिलानाम् ॥

139.35

प्रियावगूढा दयितोपगूढा काचित्प्ररूढाङ्गरुहापि नारी
सुचारुबाष्पाङ्कुरपल्लवानां नवाम्बुसिक्ता इव भूमिरासीत् ॥

139.36

शशाङ्कपादैरुपशोभितेषु प्रासादवर्येषु वराङ्गनानाम्
माधुर्यभूताभरणा महान्तः स्वना बभूवुर्मदनेषु तुल्याः ॥

139.37

पानेन खिन्ना दयितातिवेलं कपोलमाजिघ्रसि किं ममेदम्
आरोह मे श्रोणिमिमां विशालां पीनोन्नतां काञ्चनमेखलाढ्याम् ॥

139.38

रथ्यासु चन्द्रोदयभासितासु सुरेन्द्रमार्गेषु च विस्तृतेषु
दैत्याङ्गना यूथगता विभान्ति तारा यथा चन्द्रमसो दिवान्ते ॥

139.39

अट्टाट्टहासेषु च चामरेषु प्रेङ्खासु चान्या मदलोलभावात्
संदोलयन्ते कलसम्प्रहासाः प्रोवाच काञ्ची गुणसूक्ष्मनादा ॥

139.40

अम्लानमालान्वितसुन्दरीणां पर्याय एषो ऽस्ति च हर्षितानाम्
श्रूयन्ति वाचः कलधौतकल्पा वापीषु चान्ये कलहंसशब्दाः ॥

139.41

काञ्चीकलापश्च सहाङ्गरागः प्रेङ्खासु तद्रागकृताश्च भावाः
छिन्दन्ति तासामसुराङ्गनानां प्रियालयान् मन्मथमार्गणानाम् ॥

139.42

चित्राम्बरश्चोद्धृतकेशपाशः संदोल्यमानः शुशुभे ऽसुरीणाम्
सुचारुवेशाभरणैरुपेतस् तारागणैर् ज्योतिरिवास चन्द्रः ॥

139.43

संदोलनाद् उच्छ्वसितैश्छिन्नसूत्रैः काञ्चीभ्रष्टैर्मणिभिर्विप्रकीर्णैः
दोलाभूमिस्तैर्विचित्रा विभाति चन्द्रस्य पार्श्वोपगतैर् विचित्रा ॥

139.44

सचन्द्रिके सोपवने प्रदोषे रुतेषु वृन्देषु च कोकिलानाम्
शरव्ययं प्राप्य पुरे ऽसुराणां प्रक्षीणबाणो मदनश्चचार ॥

139.45*

इति तत्र पुरे ऽमरद्विषाणां सपदि हि पश्चिमकौमुदी तदासीत् ।
रणशिरसि पराभविष्यतां वै भवतुरगैः कृतसंक्षया अरीणाम् ॥

139.46

चन्द्रो ऽथ कुन्दकुसुमाकरहारवर्णो ज्योत्स्नावितानरहितो ऽभ्रसमानवर्णः
विछायतां हि समुपेत्य न भाति तद्वद् भाग्यक्षये धनपतिश्च नरो विवर्णः ॥

139.47

चन्द्रप्रभामरुणसारथिनाभिभूय संतप्तकाञ्चनरथाङ्गसमानबिम्बः
स्थित्वोदयाग्रमुकुटे बहुरेव सूर्यो भात्यम्बरे तिमिरतोयवहां तरिष्यन् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc