मत्स्य पुराण · अध्याय 138
मघवा तु निहन्तुं तान् असुरानमरेश्वरः
लोकपाला ययुः सर्वे गणपालाश्च सर्वशः ॥
ईश्वरा मोदिताः सर्व उत्पेतुश्चाम्बरे तदा
खगतास्तु विरेजुस्ते पक्षवन्त इवाचलाः ॥
प्रययुस्तत्पुरं हन्तुं शरीरमिव व्याधयः
शङ्खाडम्बरनिर्घोषैः पणवान्पटहानपि
नादयन्तः पुरो देवा दृष्टास्त्रिपुरवासिभिः ॥
हरः प्राप्त इतीवोक्त्वा बलिनस्ते महासुराः
आजग्मुः परमं क्षोभम् अत्ययेष्विव सागराः ॥
सुरतूर्यरवं श्रुत्वा दानवा भीमदर्शनाः
निनेदुर्वादयन्तश्च नानावाद्यान्यनेकशः ॥
भूयोदीरितवीर्यास्ते परस्परकृतागसः
पूर्वदेवाश्च देवाश्च सूदयन्तः परस्परम् ॥
आक्रोशे ऽपि समप्रख्ये तेषां देहनिकृन्तनम्
प्रवृत्तं युद्धमतुलं प्रहारकृतनिःस्वनम् ॥
निष्पतन्त इवादित्याः प्रज्वलन्त इवाग्नयः
शंसन्त इव नागेन्द्रा भ्रमन्त एव पक्षिणः
गिरीन्द्रा इव कम्पन्तो गर्जन्त इव तोयदाः ॥
जृम्भन्त इव शार्दूलाः गर्जन्त इव तोयदाः
प्रवृद्धोर्मितरंगौघाः क्षुभ्यन्त इव सागराः ॥
प्रमथाश्च महाशूरा दानवाश्च महाबलाः
युयुधुर्निश्चला भूत्वा वज्रा इव महाचलैः ॥
कार्मुकाणां विकृष्टानां बभूवुर्दारुणा रवाः
कालानुगानां मेघानां यथा वियति वायुना ॥
आहुश्च युद्धे मा भैषीः क्व यास्यसि मृतो ह्यसि
प्रहराशु स्थितो ऽस्म्यत्र एहि दर्शय पौरुषम् ॥
गृहाण छिन्द्धि भिन्द्धीति खाद मारय दारय
इत्यन्योन्यम् अनूच्चार्य प्रययुर्यमसादनम् ॥
खड्गापवर्जिताः केचित् केचिच्छिन्नाः परश्वधैः
केचिन्मुद्गरचूर्णाश्च केचिद्बाहुभिराहताः ॥
पट्टिशैः सूदिताः केचित् केचिच्छूलविदारिताः
दानवाः शरपुष्पाभाः सवना इव पर्वताः
निपतन्त्यर्णवजले भीमनक्रतिमिङ्गिले ॥
व्यसुभिः सुनिबद्धाङ्गैः पतमानैः सुरेतरैः
संबभूवार्णवे शब्दः सजलाम्बुदनिस्वनः ॥
तेन शब्देन मकरा नक्रास्तिमितिमिङ्गिलाः
मत्ता लोहितगन्धेन क्षोभयन्तो महार्णवम् ॥
परस्परेण कलहं कुर्वाणा भीममूर्तयः
भ्रमन्ते भक्षयन्तश्च दानवानां च लोहितम् ॥
सरथान् सायुधान् साश्वान् सवस्त्राभरणावृतान्
जग्रसुस्तिमयो दैत्यान् द्रावयन्तो जलेचरान् ॥
मृधं यथासुराणां च प्रमथानां प्रवर्तते
अम्बरे ऽम्भसि च तथा युद्धं चक्रुर्जलेचराः ॥
यथा भ्रमन्ति प्रमथाः सदैत्यास् तथा भ्रमन्ते तिमयः सनक्राः
यथैव छिन्दन्ति परस्परं तु तथैव क्रन्दन्ति विभिन्नदेहाः ॥
व्रणाननैर् अङ्गरसं स्रवद्भिः सुरासुरैर्नक्रतिमिङ्गिलैश्च
कृतो मुहूर्तेन समुद्रदेशः सरक्ततोयः समुदीर्णतोयः ॥
पूर्वं महाम्भोधरपर्वताभं द्वारं महान्तं त्रिपुरस्य शक्रः
निपीड्य तस्थौ महता बलेन युक्तो ऽमराणां महता बलेन ॥
तथोत्तरं सो ऽन्तरजो हरस्य बालार्कजाम्बूनदतुल्यवर्णः
स्कन्दः पुरद्वारमथारुरोह वृद्धो ऽस्तशृङ्गं प्रपतन्निवार्कः ॥
यमश्च वित्ताधिपतिश्च देवो दण्डान्वितः पाशवरायुधश्च
देवारिणस्तस्य पुरस्य द्वारं ताभ्यां तु तत्पश्चिमतो निरुद्धम् ॥
दक्षारिरुद्रस्तपनायुताभः स भास्वता देवरथेन देवः
तद्दक्षिणद्वारमरेः पुरस्य रुद्ध्वावतस्थौ भगवांस्त्रिनेत्रः ॥
तुङ्गानि वेश्मानि सगोपुराणि स्वर्णानि कैलासशशिप्रभाणि
प्रह्लादरूपाः प्रमथावरुद्धा ज्योतींषि मेघा इव चाश्मवर्षाः ॥
उत्पात्य चोत्पाट्य गृहाणि तेषां सशैलमालासमवेदिकानि
प्रक्षिप्य प्रक्षिप्य समुद्रमध्ये कालाम्बुदाभाः प्रमथा विनेदुः ॥
रक्तानि चाशेषवनैर्युतानि साशोकखण्डानि सकोकिलानि
गृहाणि हे नाथ पितः सुतेति भ्रातेति कान्तेति प्रियेति चापि
उत्पाट्यमानेषु गृहेषु नार्यस् त्व् अनार्यशब्दान्विविधान्प्रचक्रुः ॥
कलत्रपुत्रक्षयप्राणनाशे तस्मिन्पुरे युद्धमतिप्रवृत्ते
महासुराः सागरतुल्यवेगा गणेश्वराः कोपवृताः प्रतीयुः ॥
परश्वधैस्तत्र शिलोपलैश्च त्रिशूलवज्रोत्तमकम्पनैश्च
शरीरसद्मक्षपणं सुघोरं युद्धं प्रवृत्तं दृढवैरबद्धम् ॥
अन्योन्यमुद्दिश्य विमर्दतां च प्रधावतां चैव विनिघ्नतां च
शब्दो बभूवामरदानवानां युगान्तकालेष्विव सागराणाम् ॥
व्रणैरजस्रं क्षतजं वमन्तः कोपोपरक्ता बहुधा नदन्तः
गणेश्वरास्ते ऽसुरपुंगवाश्च युध्यन्ति शब्दं च महदुद्गिरन्तः ॥
मार्गाः पुरे लोहितकर्दमालाः स्वर्णेष्टकास्फाटिकभिन्नचित्राः
कृता मुहूर्तेन सुखेन गन्तुं छिन्नोत्तमाङ्गाङ्घ्रिकराः करालाः ॥
कोपावृताक्षः स तु तारकाख्यः संख्ये सवृक्षः सगिरिर्निलीनः
तस्मिन्क्षणे द्वारवरं रिरक्षो रुद्धं भवेनाद्भुतविक्रमेण ॥
स तत्र प्राकारागतांश्च भूताञ् छातन् महानद्भुतवीर्यसत्त्वः
चचार चाप्तेन्द्रियगर्वदृप्तः पुराद्विनिष्क्रम्य ररास घोरम् ॥
ततः स दैत्योत्तमपर्वताभो यथाञ्जसा नाग इवाभिमत्तः
निवारितो रुद्ररथं जिघृक्षुर् यथार्णवः सर्पति चातिवेलः ॥
शेषः सुधन्वा गिरिशश्च देवश् चतुर्मुखो यः स त्रिलोचनश्च
ते तारकाख्याभिगता गताजौ क्षोभं यथा वायुवशात्समुद्राः ॥
शेषो गिरीशः सपितामहेशश् चोत्क्षुभ्यमाणः स रथे ऽम्बरस्थः
बिभेद संधीषु बलाभिपन्नः कूजन्निनादांश्च करोति घोरान् ॥
एकं तु ऋग्वेदतुरंगमस्य पृष्ठे पदं न्यस्य वृषस्य चैकम्
तस्थौ भवः सोद्यतबाणचापः पुरस्य तत्सङ्गसमीक्षमाणः ॥
तदा भवपदन्यासाद् धयस्य वृषभस्य च
पेतुः स्तनाश्च दन्ताश्च पीडिताभ्यां त्रिशूलिना ॥
ततःप्रभृति चाश्वानां स्तना दन्ता गवां तथा
मूढाः समभवंस्तेन चादृश्यत्वमुपागताः ॥
तारकाख्यस्तु भीमाक्षो रौद्ररक्तान्तरेक्षणः
रुद्रान्तिके सुसंरुद्धो नन्दिना कुलनन्दिना ॥
परश्वधेन तीक्ष्णेन स नन्दी दानवेश्वरम्
तक्षयामास वै तक्षा चन्दनं गन्धदो यथा ॥
परश्वधहतः शूरः शैलादिः शरभो यथा
दुद्राव खड्गं निष्कृष्य तारकाख्यो गणेश्वरम् ॥
यज्ञोपवीतम् आदाय चिछेद च ननाद च
ततः सिंहरवो घोरः शङ्खशब्दश्च भैरवः
गणेश्वरैः कृतस्तत्र तारकाख्ये निषूदिते ॥
प्रमथारसितं श्रुत्वा वादित्रस्वनमेव च
पार्श्वस्थः सुमहापार्श्वं विद्युन्मालिं मयो ऽब्रवीत् ॥
बहुवदनवतां किमेष शब्दो नदतां श्रूयते भिन्नसागराभः
वद वचनं तडिन्मालिन् किं किम् एतद्गणपाला युयुधुर्ययुर्गजेन्द्राः ॥
इति मयवचनाङ्कुशार्दितस्तं तडिन्माली रविरिवांशुमाली
रणशिरसि समागतः सुराणां निजगादेदम् अरिंदमो ऽतिहर्षात् ॥
यमवरुणमहेन्द्ररुद्रवीर्यस् तव यशसो निधिर्धीर तारकाख्यः
सकलसमरशीर्षपर्वतेन्द्रो युद्ध्वा यस्तपति हि तारको गणेन्द्रैः ॥
मृदितम् उपनिशम्य तारकाख्यं रविदीप्तानलभीषणायताक्षम्
हृषितसकलनेत्रलोमसत्त्वाः प्रमथास्तोयमुचो यथा नदन्ति ॥
इति सुहृदो वचनं निशम्य तत् त्वं तडिमालेः स मयः सुवर्णमाली
रणशिरस्य् असिताञ्जनाचलाभो जगदे वाक्यमिदं नवेन्दुमालिम् ॥
विद्युन्मालिन्न नः कालः साधितुं ह्यवहेलया
करोमि विक्रमेणैतत् पुरं व्यसनवर्जितम् ॥
विद्युन्माली ततः क्रुद्धो मयश्च त्रिपुरेश्वरः
गणाञ्जघ्नुस्तु द्राघिष्ठाः सहितास्तैर्महासुरैः ॥
येन येन ततो विद्युन् माली याति मयश्च सः
तेन तेन पुरं शून्यं प्रमथैः प्रहृतैः कृतम् ॥
अथ यमवरुणमृदङ्गघोषैः पणवडिण्डिमज्यास्वनप्रघोषैः
सकरतलपुटैश्च सिंहनादैर् भवमभिपूज्य तदा सुरा अवतस्थुः ॥
सम्पूज्यमानो दितिजैर्महात्मभिः सहस्ररश्मिप्रतिमौजसैर् विभुः
अभिष्टुतः सत्यरतैस् तपोधनैर् यथास्तशृङ्गाभिगतो दिवाकरः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0