मत्स्य पुराण · अध्याय 137
प्रमथैः समरे भिन्नास् त्रैपुरास्ते सुरारयः
पुरं प्रविविशुर्भीताः प्रमथैर्भग्नगोपुरम् ॥
शीर्णदंष्ट्रा यथा नागा भग्नशृङ्गा यथा वृषाः
यथा विपक्षाः शकुना नद्यः क्षीणोदका यथा ॥
मृतप्रायास्तथा दैत्या दैवतैर्विकृताननाः
बभूवुस्ते विमनसः कथं कार्यमिति ब्रुवन् ॥
अथ तान्म्लानमनसस् तदा तामरसाननः
उवाच दैत्यो दैत्यानां परमाधिपतिर्मयः ॥
कृत्वा युद्धानि घोराणि प्रमथैः सह सामरैः
तोषयित्वा तथा युद्धे प्रमथानमरैः सह ॥
यूयं यत्प्रथमं दैत्याः पश्चाच्च बलपीडिताः
प्रविष्टा नगरं त्रासात् प्रमथैर्भृशमर्दिताः ॥
अप्रियं क्रियते व्यक्तं देवैर्नास्त्यत्र संशयः
यत्र नाम महाभागाः प्रविशन्ति गिरेर्वनम् ॥
अहो हि कालस्य बलम् अहो कालो हि दुर्जयः
यत्रेदृशस्य दुर्गस्य उपरोधो ऽवमागतः ॥
मये विवदमाने तु नर्दमान इवाम्बुदे
बभूवुर्निष्प्रभा दैत्या ग्रहा इन्दूदये यथा ॥
वापीपालास्ततो ऽभ्येत्य नभः काल इवाम्बुदाः
मयमाहुर्यमप्रख्यं साञ्जलिप्रग्रहाः स्थिताः ॥
या सामृतरसा गूढा वापी वै निर्मिता त्वया
समाकुलोत्पलवना समीनाकुलपङ्कजा ॥
पीता सा वृषरूपेण केनचिद्दैत्यनायक
वापी सा साम्प्रतं दृष्टा मृतसंज्ञा इवाङ्गना ॥
वापीपालवचः श्रुत्वा मयो ऽसौ दानवप्रभुः
कष्टमित्यसकृत्प्रोच्य दितिजानिदमब्रवीत् ॥
मया मायाबलकृता वापी पीता त्वियं यदि
विनष्टाः स्म न संदेहस् त्रिपुरं दानवा गतम् ॥
निहतान्निहतान्दैत्यान् आजीवयति दैवतैः
पीता वा यदि वा वापी पीता वै पीतवाससा ॥
को ऽन्यो मन्मायया गुप्तां वापीम् अमृततोयिनीम्
पास्यते विष्णुमजितं वर्जयित्वा गदाधरम् ॥
सुगुह्यम् अपि दैत्यानां नास्त्यस्याविदितं भुवि
यत्र मद्वरकौशल्यं विज्ञातं न वृतं बुधैः ॥
समो ऽयं रुचिरो देशो निर्द्रुमो निर्द्रुमाचलः
नवाम्भःपूरितं कृत्वा बाधन्ते ऽस्मान्मरुद्गणाः ॥
ते यूयं यदि मन्यध्वं सागरोपरिधिष्ठिताः
प्रमथानां महावेगं सहामः श्वसनोपमम् ॥
एतेषां च समारम्भास् तस्मिन्सागरसम्प्लवे
निरुत्साहा भविष्यन्ति एतद्रथपथावृताः ॥
युध्यतां निघ्नतां शत्रून् भीतानां च द्रविष्यताम्
सागरो ऽम्बरसंकाशः शरणं नो भविष्यति ॥
इत्युक्त्वा स मयो दैत्यो दैत्यानामधिपस्तदा
त्रिपुरेण ययौ तूर्णं सागरं सिन्धुबान्धवम् ॥
सागरे जलगम्भीर उत्पपात पुरं वरम्
अवतस्थुः पुराण्येव गोपुराभरणानि च ॥
अपक्रान्ते तु त्रिपुरे त्रिपुरारिस्त्रिलोचनः
पितामहमुवाचेदं वेदवादविशारदम् ॥
पितामह दृढं भीता भगवन्दानवा हि नः
विपुलं सागरं ते तु दानवाः समुपाश्रिताः ॥
यत एव हि ते यातास् त्रिपुरेण तु दानवाः
तत एव रथं तूर्णं प्रापयस्व पितामह ॥
सिंहनादं ततः कृत्वा देवा देवरथं च तम्
परिवार्य ययुर्हृष्टाः सायुधाः पश्चिमोदधिम् ॥
ततो ऽमरामरगुरुं परिवार्य भवं हरम्
नर्दयन्तो ययुस्तूर्णं सागरं दानवालयम् ॥
अथ चारुपताकभूषितं पटहाडम्बरशङ्खनादितम् ।
त्रिपुरमभिसमीक्ष्य देवता विविधबला ननदुर्यथा घनाः ॥
अमरवरपुरे ऽपि दारुणो जलधररावमृदङ्गगह्वरः
दनुतनयनिनादमिश्रितः प्रतिनिधिसंक्षुभिताणवोपमः ॥
अथ भुवनपतिर्गतिः सुराणाम् अरिमृगयाम् अददात्सुलब्धबुद्धिः
त्रिदशगणपतिर्ह्युवाच शक्रं त्रिपुरगतं सहसा निरीक्ष्य शत्रुम् ॥
त्रिदशगणपते निशामयैतत् त्रिपुरनिकेतनं दानवाः प्रविष्टाः
यमवरुणकुबेरषण्मुखैस्तत् सह गणपैरपि हन्मि तावदेव ॥
विहितपरबलाभिघातभूतं व्रज जलधेस्तु यतः पुराणि तस्थुः
स रथवरगतो भवः समर्थो ह्य् उदधिमगात्त्रिपुरं पुनर्निहन्तुम् ॥
इति परिगणयन्तो दितेः सुता ह्य् अवतस्थुर्लवणार्णवोपरिष्टात्
अभिभवत्रिपुरं सदानवेन्द्रं शरवर्षैर्मुसलैश्च वज्रमिश्रैः ॥
अहमपि रथवर्यमास्थितः सुरवरवर्य भवेय पृष्ठतः
असुरवरवधार्थमुद्यतानां प्रतिविदधामि सुखाय ते ऽनघ ॥
इति भववचनप्रचोदिते दशशतनयनवपुः समुद्यतः
त्रिपुरपुरजिघांसया हरिः प्रविकसिताम्बुजलोचनो ययौ ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0