मत्स्य पुराण · अध्याय 136
मयः प्रहारं कृत्वा तु मायावी दानवर्षभः
विवेश तूर्णं त्रिपुरम् अभ्रं नीलमिवाम्बरम् ॥
स दीर्घमुष्णं निःश्वस्य दानवान्वीक्ष्य मध्यगान्
दध्यौ लोकक्षये प्राप्ते कालं काल इवापरः ॥
इन्द्रो ऽपि बिभ्यते यस्य स्थितो युद्धेप्सुरग्रतः
स चापि निधनं प्राप्तो विद्युन्माली महायशाः ॥
दुर्गं वै त्रिपुरस्यास्य न समं विद्यते पुरम्
तस्याप्येषो ऽनयः प्राप्तो न दुर्गं कारणं क्वचित् ॥
कालस्यैव वशे सर्वं दुर्गं दुर्गतरं च यत्
काले क्रुद्धे कथं कालात् त्राणं नो ऽद्य भविष्यति ॥
एकेषु त्रिषु यत्किंचिद् बलं वै सर्वजन्तुषु
कालस्य तद्वशं सर्वम् इति पैतामहो विधिः ॥
अस्मिन्कः प्रभवेद्योगो ह्य् असंधार्ये ऽमितात्मनि
लङ्घने कः समर्थः स्याद् ऋते देवं महेश्वरम् ॥
बिभेमि नेन्द्राद्धि यमाद् वरुणान्न च वित्तपात्
स्वामी चैषां तु देवानां दुर्जयः स महेश्वरः ॥
ऐश्वर्यस्य फलं यत्तत् प्रभुत्वस्य च यत्फलम्
तदद्य दर्शयिष्यामि यावद्वीराः समन्ततः ॥
वापीममृततोयेन पूर्णां स्रक्ष्ये वरौषधीः
जीविष्यन्ति तदा दैत्याः संजीवनवरौषधैः ॥
इति संचिन्त्य बलवान् मयो मायाविनां वरः
मायया ससृजे वापीं रम्भामिव पितामहः ॥
द्वियोजनायतां दीर्घां पूर्णयोजनविस्तृताम्
आरोहसंक्रमवतीं चित्ररूपां कथामिव ॥
इन्दोः किरणकल्पेन मृष्टेनामृतगन्धिना
पूर्णां परमतोयेन गुणपूर्णामिवाङ्गनाम् ॥
उत्पलैः कुमुदैः पद्मैर् वृतां कादम्बकैस्तथा
चन्द्रभास्करवर्णाभैर् भीमैर् आवरणैर्वृताम् ॥
खगैर् मधुररावैश्च चारुचामीकरप्रभैः
कामैषिभिर् इवाकीर्णां जीवानामरणीम् इव ॥
तां वापीं सृज्य स मयो गङ्गामिव महेश्वरः
तस्यां प्रक्षालयामास विद्युन्मालिनमादितः ॥
स वाप्यां मज्जितो दैत्यो देवशत्रुर्महाबलः
उत्तस्थाविन्धनैरिद्धः सद्यो हुत इवानलः ॥
मयस्य चाञ्जलिं कृत्वा तारकाख्यो ऽभिवादितः
विद्युन्मालीति वचनं मयमुत्थाय चाब्रवीत् ॥
क्व नन्दी सह रुद्रेण वृतः प्रमथजम्बुकैः
युध्यामो ऽरीन् विनिष्पीड्य दया देहेषु का हि नः ॥
अन्वास्यैव च रुद्रस्य भवामः प्रभविष्णवः
तैर्वा विनिहता युद्धे भविष्यामो यमाशनाः ॥
विद्युन्मालेर् निशम्यैतन् मयो वचनमूर्जितम्
तं परिष्वज्य सार्द्राक्ष इदमाह महासुरः ॥
विद्युन्मालिन्न मे राज्यम् अभिप्रेतं न जीवितम्
त्वया विना महाबाहो किमन्येन महासुर ॥
महामृतमयी वापी ह्य् एषा मायाभिरीश्वर
सृष्टा दानवदैत्यानां हतानां जीववर्धिनी ॥
दिष्ट्या त्वां दैत्य पश्यामि यमलोकाद् इहागतम्
दुर्गतावनयग्रस्तं भोक्ष्यामो ऽद्य महानिधिम् ॥
दृष्ट्वा दृष्ट्वा च तां वापीं मायया मयनिर्मिताम्
हृष्टाननाक्षा दैत्येन्द्रा इदं वचनमब्रुवन् ॥
दानवा युध्यतेदानीं प्रमथैः सह निर्भयाः
मयेन निर्मिता वापी हतान्संजीवयिष्यति ॥
ततः क्षुब्धाम्बुधिनिभा भेरी सा तु भयंकरी
वाद्यमाना ननादोच्चै रौरवी सा पुनः पुनः ॥
श्रुत्वा भेरीरवं घोरं मेघारम्भितसंनिभम्
न्यपतन्नसुरास्तूर्णं त्रिपुराद्युद्धलालसाः ॥
लोहराजतसौवर्णैः कटकैर्मणिराजितैः
आमुक्तैः कुण्डलैर्हारैर् मुकुटैरपि चोत्कटैः ॥
धूमायिता ह्यविरमा ज्वलन्त इव पावकाः
आयुधानि समादाय काशिनो दृढविक्रमाः ॥
नृत्यमाना इव नटा गर्जन्त इव तोयदाः
करोच्छ्रया इव गजाः सिंहा इव च निर्भयाः ॥
ह्रदा इव च गम्भीराः सूर्या इव प्रतापिताः
द्रुमा इव च दैत्येन्द्रास् त्रासयन्तो बलं महत् ॥
प्रमथा अपि सोत्साहा गरुडोत्पातपातिनः
युयुत्सवो ऽभिधावन्ति दानवान्दानवारयः ॥
नन्दीश्वरेण प्रमथास् तारकाख्येन दानवाः
चक्रुः संहत्य संग्रामं चोद्यमाना बलेन च ॥
ते ऽसिभिश्चन्द्रसंकाशैः शूलैश्चानलपिङ्गलैः
बाणैश्च दृढनिर्मुक्तैर् अभिजघ्नुः परस्परम् ॥
शराणां सृज्यमानानाम् असीनां च निपात्यताम्
रूपाण्यासन्महोल्कानां पतन्तीनामिवाम्बरात् ॥
शक्तिभिर्भिन्नहृदया निर्दया इव पातिताः
निरयेष्विव निर्मग्नाः कूजन्ते प्रमथासुराः ॥
हेमकुण्डलयुक्तानि किरीटोत्कटवन्ति च
शिरांस्युर्व्यां पतन्ति स्म गिरिकूटा इवात्यये ॥
परश्वधैः पट्टिशैश्च खड्गैश्च परिघैस्तथा
छिन्नाः करिवराकारा निपेतुस्ते धरातले ॥
गर्जन्ति सहसा हृष्टाः प्रमथा भीमगर्जनाः
साधयन्त्यपरे सिद्धा युद्धगान्धर्वमद्भुतम् ॥
बलवान्भासि प्रमथ दर्पितो भासि दानव
इति चोच्चारयन्वाचं वारणा रणधूर्गताः ॥
परिघैराहताः केचिद् दानवैः शंकरानुगाः
वमन्ते रुधिरं वक्त्रैः स्वर्णधातुमिवाचलाः ॥
प्रमथैरपि नाराचैर् असुराः सुरशत्रवः
द्रुमैश्च गिरिशृङ्गैश्च गाढमेवाहवे हताः ॥
सूदितानथ तान्दैत्यान् अन्ये दानवपुंगवाः
उत्क्षिप्य चिक्षिपुर् वाप्यां मयदानवचोदिताः ॥
ते चापि भास्वरैर्देहैः स्वर्गलोक इवामराः
उत्तस्थुर्वापीमासाद्य सद्रूपाभरणाम्बराः ॥
अथैके दानवाः प्राप्य वापीप्रक्षेपणाद् असून्
आस्फोट्य सिंहनादं च कृत्वाधावंस्तथासुराः ॥
दानवाः प्रमथानेतान् प्रसर्पत किम् आसथ
हतानपि हि वो वापी पुनरुज्जीवयिष्यति ॥
एवं श्रुत्वा शङ्कुकर्णो वचो ऽग्रग्रहसंनिभः
द्रुतमेवैत्य देवेशम् इदं वचनमब्रवीत् ॥
सूदिताः सूदिता देव प्रमथैरसुरा ह्यमी
उत्तिष्ठन्ति पुनर्भीमाः सस्या इव जलोक्षिताः ॥
अस्मिन्किल पुरे वापी पूर्णामृतरसाम्भसा
निहता निहता यत्र क्षिप्ता जीवन्ति दानवाः ॥
इति विज्ञापयद्देवं शङ्कुकर्णो महेश्वरम्
अभवन्दानवबल उत्पाता वै सुदारुणाः ॥
तारकाख्यः सुभीमाक्षो दारितास्यो हरिर्यथा
अभ्यधावत्सुसंक्रुद्धो महादेवरथं प्रति ॥
त्रिपुरे तु महान्घोरो भेरीशङ्खरवो बभौ
दानवा निःसृता दृष्ट्वा देवदेवरथे सुरम् ॥
भूकम्पश्चाभवत्तत्र शताङ्गो भूगतो ऽभवत्
दृष्ट्वा क्षोभमगाद्रुद्रः स्वयम्भूश्च पितामहः ॥
ताभ्यां देववरिष्ठाभ्याम् अन्वितः स रथोत्तमः
अनायतनम् आसाद्य सीदते गुणवानिव ॥
धातुक्षये देह इव ग्रीष्मे चाल्पमिवोदकम्
शैथिल्यं याति स रथः स्नेहो विप्रकृतो यथा ॥
रथादुत्पत्यात्मभूर् वै सीदन्तं तु रथोत्तमम्
उज्जहार महाप्राणो रथं त्रैलोक्यरूपिणम् ॥
तदा शराद्विनिष्पत्य पीतवासा जनार्दनः
वृषरूपं महत्कृत्वा रथं जग्राह दुर्धरम् ॥
स विषाणाभ्यां त्रैलोक्यं रथमेव महारथः
प्रगृह्योद्वहते सज्जं कुलं कुलवहो यथा ॥
तारकाख्यो ऽपि दैत्येन्द्रो गिरीन्द्र इव पक्षवान्
अभ्यद्रवत्तदा देवं ब्रह्माणं हतवांश्च सः ॥
स तारकाख्याभिहतः प्रतोदं न्यस्य कूबरे
विजज्वाल मुहुर्ब्रह्मा श्वासं वक्त्रात् समुद्गिरन् ॥
तत्र दैत्यैर्महानादो दानवैरपि भैरवः
तारकाख्यस्य पूजार्थं कृतो जलधरोपमः ॥
रथचरणकरो ऽथ महामृधे वृषभवपुर्वृषभेन्द्रपूजितः
दितितनयबलं विमर्द्य सर्वं त्रिपुरपुरं प्रविवेश केशवः ॥
सजलजलदराजितां समस्तां कुमुदवरोत्पलफुल्लपङ्कजाढ्याम्
सुरगुरुरपिबत्पयो ऽमृतं तद् रविरिव संचितशार्वरं तमो ऽन्धम् ॥
वापीं पीत्वासुरेन्द्राणां पीतवासा जनार्दनः
नर्दमानो महाबाहुः प्रविवेश शरं ततः ॥
ततो ऽसुरा भीमगणेश्वरैर्हताः प्रहारसंवर्धितशोणितापगाः
पराङ्मुखा भीममुखैः कृता रणे यथा नयाभ्युद्यततत्परैर्नरैः ॥
स तारकाख्यस् तडिन्मालिरेव च मयेन सार्धं प्रमथैरभिद्रुताः
पुरं परावृत्य नु ते शरार्दिता यथा शरीरं पवनोदये गताः ॥
गणेश्वराभ्युद्यतदर्पकाशिनो महेन्द्रनन्दीश्वरषण्मुखा युधि
विनेदुरुच्चैर्जहसुश्च दुर्मदा जयेम चन्द्रादिदिगीश्वरैः सह ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0