भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 135

135.1

ततो रणे देवबलं नारदो ऽभ्यगमत्पुनः
आगत्य चैव त्रिपुरात् सभायामास्थितः स्वयम् ॥

135.2

इलावृतमिति ख्यातं तद्वर्षं विस्तृतायतम्
यत्र यज्ञो बलेर्वृत्तो बलिर्यत्र च संयतः ॥

135.3

देवानां जन्मभूमिर्या त्रिषु लोकेषु विश्रुता
विवाहाः क्रतवश्चैव जातकर्मादिकाः क्रियाः ॥

135.4

देवानां यत्र वृत्तानि कन्यादानानि यानि च
रेमे नित्यं भवो यत्र सहायैः पार्षदैर्गणैः ॥

135.5

लोकपालाः सदा यत्र तस्थुर्मेरुगिरौ यथा
मधुपिङ्गलनेत्रस्तु चन्द्रावयवभूषणः
देवानामधिपं प्राह गणपांश्च महेश्वरः ॥

135.6

वासवैतद् अरीणां ते त्रिपुरं परिदृश्यते
विमानैश्च पताकाभिर् ध्वजैश्च समलंकृतम् ॥

135.7

इदं वृत्तमिदं ख्यातं वह्निवद्भृशतापनम्
एते जना गिरिप्रख्याः सकुण्डलकिरीटिनः ॥

135.8

प्राकारगोपुराट्टेषु कक्षान्ते दानवाः स्थिताः
इमे च तोयदाभासा दनुजा विकृताननाः ॥

135.9

निर्गच्छन्ति पुरो दैत्याः सायुधा विजयैषिणः ॥

135.10

स त्वं सुरशतैः सार्धं ससहायो वरायुधः
सहद्भिर्मामकैर्भृत्यैर् व्यापादय महासुरान् ॥

135.11

अहं च रथवर्येण निश्चलाचलवत्स्थितः
पुरः पुरस्य रन्ध्रार्थी स्थास्यामि विजयाय वः ॥

135.12

यदा तु पुष्ययोगेण एकत्वं स्थास्यते पुरम्
तदेतन्निर्दहिष्यामि शरेणैकेन वासव ॥

135.13

इत्युक्तो वै भगवता रुद्रेणेह सुरेश्वरः
ययौ तत्त्रिपुरं जेतुं तेन सैन्येन संवृतः ॥

135.14

प्रक्रान्तरथभीमैस्तैः सदेवैः पार्षदां गणैः
कृतसिंहरवोपेतैर् उद्गच्छद्भिरिवाम्बुदैः ॥

135.15

तेन नादेन त्रिपुराद् दानवा युद्धलालसाः
उत्पत्य दुद्रुवुश्चेलुः सायुधाः खे गणेश्वरान् ॥

135.16

अन्ये पयोधरारावाः पयोधरसमा बभुः
ससिंहनादं वादित्रं वादयामासुरुद्धताः ॥

135.17

देवानां सिंहनादश्च सर्वतूर्यरवो महान्
ग्रस्तो ऽभूद्दैत्यनादैश्च चन्द्रस्तोयधरैरिव ॥

135.18

चन्द्रोदयात्समुद्भूतः पौर्णमास इवार्णवः
त्रिपुरं प्रभवत्तद्वद् भीमरूपमहासुरैः ॥

135.19

प्राकारेषु पुरे तत्र गोपुरेष्वपि चापरे
अट्टालकान्समारुह्य केचिच् चलितवादिनः ॥

135.20

स्वर्णमालाधराः शूराः प्रभासितकराम्बराः
केचिन् नदन्ति दनुजास् तोयमत्ता इवाम्बुदाः ॥

135.21

इतश्चेतश्च धावन्तः केचिदुद्भूतवाससः
किमेतदिति पप्रच्छुर् अन्योन्यं गृहमाश्रिताः ॥

135.22

किमेतन्नैव जानामि ज्ञानमन्तर्हितं हि मे
ज्ञास्यसे ऽनन्तरेणेति कालो विस्तारतो महान् ॥

135.23

सो ऽप्यसौ पृथ्वीसारं च सिंहश्च रथमास्थितः
तिष्ठते त्रिपुरं पीड्य देहं व्याधिरिवोच्छ्रितः ॥

135.24

य एषो ऽस्ति स एषो ऽस्तु का चिन्ता सम्भ्रमे सति
एहि आयुधम् आदाय क्व मे पृच्छा भविष्यति ॥

135.25

इति ते ऽन्योन्यमाविद्धा उत्तरोत्तरभाषिणः
आसाद्य पृच्छन्ति तदा दानवास्त्रिपुरालयाः ॥

135.26

तारकाख्यपुरे दैत्यास् तारकाख्यपुरःसराः
निर्गताः कुपितास्तूर्णं बिलादिव महोरगाः ॥

135.27

निर्धावन्तस्तु ते दैत्याः प्रमथाधिपयूथपैः
निरुद्धा गजराजानो यथा केसरियूथपैः ॥

135.28

दर्पितानां ततश्चैषां दर्पितानाम् इवाग्नीनाम्
रूपाणि जज्वलुस्तेषाम् अग्नीनामिव धम्यताम् ॥

135.29

ततो बृहन्ति चापानि भीमनादानि सर्वशः
निकृष्य जघ्नुरन्योन्यम् इषुभिः प्राणभोजनैः ॥

135.30

मार्जारमृगभीमास्यान् पार्षदान्विकृताननान्
दृष्ट्वा दृष्ट्वाहसन्नुच्चैर् दानवा रूपसम्पदा ॥

135.31

बाहुभिः परिघाकारैः कृष्यतां धनुषां शराः
भटवर्मेषु विविशुस् तडागानीव पक्षिणः ॥

135.32

मृताः स्थ क्व नु यास्यध्वं हनिष्यामो निवर्तताम्
इत्येवं परुषाण्युक्त्वा दानवाः पार्षदर्षभान् ॥

135.33

बिभिदुः सायकैस्तीक्ष्णैः सूर्यपादा इवाम्बुदान्
प्रमथा अपि सिंहाक्षाः सिंहविक्रान्तविक्रमाः
खण्डशैलशिलावृक्षैर् बिभिदुर् दैत्यदानवान् ॥

135.34

अम्बुदैराकुलमिव हंसाकुलमिवाम्बरम्
दानवाकुलमत्यर्थं तत्पुरं सकलं बभौ ॥

135.35

विकृष्टचापा दैत्येन्द्राः सृजन्ति शरदुर्दिनम्
इन्द्रचापाङ्कितोरस्का जलदा इव दुर्दिनम् ॥

135.36

इषुभिस्ताड्यमानास्ते भूयो भूयो गणेश्वराः
चक्रुस्ते देहनिर्यासं स्वर्णधातुमिवाचलाः ॥

135.37

तथा वृक्षशिलावज्र शूलपट्टिपरश्वधैः
चूर्ण्यन्ते ऽभिहता दैत्याः काचाष्टङ्कहता इव ॥

135.38

चन्द्रोदयात्समुद्भूतः पौर्णमास इवार्णवः
त्रिपुरं प्रभवत् तद्वद् भीमरूपमहासुरैः ॥

135.39

तारकाख्यो जयत्येष इति दैत्या अघोषयन्
जयतीन्द्रश्च रुद्रश्च इत्येव च गणेश्वराः ॥

135.40

वारिता दारिता बाणैर् योधास्तस्मिन्बलार्णवे
निःस्वनन्तो ऽम्बुसमये जलगर्भा इवाम्बुदाः ॥

135.41

करैश्छिन्नैः शिरोभिश्च ध्वजैश्छत्त्रैश्च पाण्डुरैः
युद्धभूमिर्भयवती मांसशोणितपूरिता ॥

135.42

व्योम्नि चोत्प्लुत्य सहसा तालमात्रं वरायुधैः
दृढाहताः पतन् पूर्वं दानवाः प्रमथास्तथा ॥

135.43

सिद्धाश्चाप्सरसश्चैव चारणाश्च नभोगताः
दृढप्रहारहृषिताः साधु साध्विति चुक्रुशुः ॥

135.44

अनाहताश्च वियति देवदुन्दुभयस्तथा
नदन्तो मेघशब्देन शरभा इव रोषिताः ॥

135.45

ते तस्मिंस्त्रिपुरे दैत्या नद्यः सिन्धुपताविव
विशन्ति क्रुद्धवदना वल्मीकमिव पन्नगाः ॥

135.46

तारकाख्यपुरे तस्मिन् सुराः शूराः समन्ततः
सशस्त्रा निपतन्ति स्म सपक्षा इव भूधराः ॥

135.47

योधयन्ति त्रिभागेण त्रिपुरे तु गणेश्वराः
विद्युन्माली मयश्चैव मग्नौ च द्रुमवद्रणे ॥

135.48

विद्युन्माली स दैत्येन्द्रो गिरीन्द्रसदृशद्युतिः
आदाय परिघं घोरं ताडयामास नन्दिनम् ॥

135.49

स नन्दी दानवेन्द्रेण परिघेण दृढाहतः
भ्रमते मधुना व्यक्तः पुरा नारायणो यथा ॥

135.50

नन्दीश्वरे गते तत्र गणपाः ख्यातविक्रमाः
दुद्रुवुर्जातसंरम्भा विद्युन्मालिनमासुरम् ॥

135.51

घण्टाकर्णः शङ्कुकर्णो महाकालश्च पार्षदाः
ततश्च सायकैः सर्वान् गणपान्गणपाकृतीन् ॥

135.52

भूयो भूयः स विव्याध गणेश्वरमहत्तमान्
भित्त्वा भित्त्वा रुरावोच्चैर् नभस्यम्बुधरो यथा ॥

135.53

तस्यारम्भितशब्देन नन्दी दिनकरप्रभः
संज्ञां प्राप्य ततः सो ऽपि विद्युन्मालिनमाद्रवत् ॥

135.54

रुद्रदत्तं तदा दीप्तं दीप्तानलसमप्रभम्
वज्रं वज्रनिभाङ्गस्य दानवस्य ससर्ज ह ॥

135.55

तं नन्दिभुजनिर्मुक्तं मुक्ताफलविभूषितम्
पपात वक्षसि तदा वज्रं दैत्यस्य भीषणम् ॥

135.56

स वज्रनिहतो दैत्यो वज्रसंहननोपमः
पपात वज्राभिहतः शक्रेणाद्रिरिवाहतः ॥

135.57

दैत्येश्वरं विनिहतं नन्दिना कुलनन्दिना
चुक्रुशुर्दानवाः प्रेक्ष्य दुद्रुवुश्च गणाधिपाः ॥

135.58

दुःखामर्षितरोषास्ते विद्युन्मालिनि पातिते
द्रुमशैलमहावृष्टिं पयोदाः ससृजुर्यथा ॥

135.59

ते पीड्यमाना गुरुभिर् गिरिभिश्च गणेश्वराः
कर्तव्यं न विदुः किंचिद् वन्द्यमाधार्मिका इव ॥

135.60

ततो ऽसुरवरः श्रीमांस् तारकाख्यः प्रतापवान्
सतरूणां गिरीणां वै तुल्यरूपधरो बभौ ॥

135.61

भिन्नोत्तमाङ्गा गणपा भिन्नपादाङ्किताननाः
विरेजुर्भुजगा मन्त्रैर् वार्यमाणा यथा तथा ॥

135.62

मयेन मायावीर्येण वध्यमाना गणेश्वराः
भ्रमन्ति बहुशब्दालाः पञ्जरे शकुना इव ॥

135.63

तयासुरवरः श्रीमांस् तारकाख्यः प्रतापवान्
ददाह च बलं सर्वं शुष्केन्धनमिवानलः ॥

135.64

तारकाख्येन वार्यन्ते शरवर्षैस्तदा गणाः
मयेन मायानिहतास् तारकाख्येन चेषुभिः
गणेशा विधुरा जाता जीर्णमूला यथा द्रुमाः ॥

135.65

भूयः संपतते चाग्निर् ग्रहान्ग्राहान्भुजंगमान्
गिरीन्द्रांश्च हरीन्व्याघ्रान् वृक्षान् सृमरवर्णकान् ॥

135.66

शरभानष्टपादांश्च अपः पवनमेव च
मयो मायाबलेनैव पातयत्येव शत्रुषु ॥

135.67

ते तारकाख्येन मयेन मायया संमुह्यमाना विवशा गणेश्वराः
नाशक्नुवंस्ते मनसापि चेष्टितुं यथेन्द्रियार्था मुनिनाभिसंयताः ॥

135.68

महाजलाग्न्यादिसकुञ्जरोरगैर् हरीन्द्रव्याघ्रर्क्षतरक्षुराक्षसैः
विबाध्यमानास्तमसा विमोहिताः समुद्रमध्येष्विव गाधकाङ्क्षिणः ॥

135.69

संमर्द्यमानेषु गणेश्वरेषु संनर्दमानेषु सुरेतरेषु
ततः सुराणां प्रवराभिरक्षितुं रिपोर्बलं संविविशुः सहायुधाः ॥

135.70

यमो गदास्त्रो वरुणश्च भास्करस् तथा कुमारो ऽमरकोटिसंयुतः
स्वयं च शक्रः सितनागवाहनः कुलीशपाणिः सुरलोकपुंगवः ॥

135.71

स चोडुनाथः ससुतो दिवाकरः स सान्तकस्त्र्यक्षपतिर् महाद्युतिः
एते रिपूणां प्रबलाभिरक्षितं तदा बलं संविविशुर्मदोद्धताः ॥

135.72

यथा वनं दर्पितकुञ्जराधिपा यथा नभः साम्बुधरं दिवाकरः
यथा च सिंहैर्विजनेषु गोकुलं तथा बलं तत्त्रिदशैर् अभिद्रुतम् ॥

135.73

कृतप्रहारातुरदीनदानवं ततस्त्वभज्यन्त बलं हि पार्षदाः
स्वर्ज्योतिषां ज्योतिर् इवोष्मवान् हरिर् यथा तमो घोरतरं नराणाम् ॥

135.74

विशान्तयामास यथा सदैव निशाकरः संचितशार्वरं तमः
ततो ऽपकृष्टे च तमःप्रभावे अस्त्रप्रभावे च विवर्धमाने ॥

135.75

दिग्लोकपालैर् गणनायकैश्च कृतो महान्सिंहरवो मुहूर्तम्
संख्ये विभग्ना विकरा विपादाश् छिन्नोत्तमाङ्गाः शरपूरिताङ्गाः ॥

135.76

देवेतरा देववरैर्विभिन्नाः सीदन्ति पङ्केषु यथा गजेन्द्राः
वज्रेण भीमेन च वज्रपाणिः शक्त्या च शक्त्या च मयूरकेतुः ॥

135.77

दण्डेन चोग्रेण च धर्मराजः पाशेन चोग्रेण च वारिगोप्ता
शूलेन कालेन च यक्षराजो वीर्येण तेजस्वितया सुकेशः ॥

135.78

गणेश्वरास्ते सुरसंनिकाशाः पूर्णाहुतीसिक्तशिखिप्रकाशाः
उत्सादयन्ते दनुपुत्रवृन्दान् यथैव इन्द्राशनयः पतन्त्यः ॥

135.79

मयस्तु देवान्परिरक्षितारम् उमात्मजं देववरं कुमारम्
शरेण भित्त्वा स हि तारकासुतं स तारकाख्यासुरम् आबभाषे ॥

135.80

कृत्वा प्रहारं प्रविशामि वीरं पुरं हि दैत्येन्द्रबलेन युक्तः
विश्राममूर्जस्करमप्यवाप्य पुनः करिष्यामि रणं प्रपन्नैः ॥

135.81

वयं हि शस्त्रक्षतविक्षताङ्गा विशीर्णशस्त्रध्वजवर्मवाहाः
जयैषिणस्ते जयकाशिनश्च गणेश्वरा लोकवराधिपाश्च ॥

135.82

मयस्य श्रुत्वा दिवि तारकाख्यो वचो ऽभिकाङ्क्षन्क्षतजोपमाक्षः
विवेश तूर्णं त्रिपुरं दितेः सुतैः सुतैरदित्या युधि वृद्धहर्षैः ॥

135.83*

ततः सशङ्खानकभेरिभीमं ससिंहनादं हरसैन्यमाबभौ ।
मयानुगं घोरगभीरगह्वरं यथा सिंहनादितम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc