भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 134

134.1

पूज्यमाने रथे तस्मिंल् लोकैर्देवे रथे स्थिते
प्रमथेषु नदत्सूग्रं प्रवदत्सु च साध्विति ॥

134.2

ईश्वरस्वरघोषेण नर्दमाने महावृषे
जयत्सु विप्रेषु तथा गर्जत्सु तुरगेषु च ॥

134.3

रणाङ्गणात्समुत्पत्य देवर्षिर्नारदः प्रभुः
कान्त्या चन्द्रोपमस्तूर्णं त्रिपुरं पुरमागतः ॥

134.4

औत्पातिकं तु दैत्यानां त्रिपुरे वर्तते ध्रुवम्
नारदश्चात्र भगवान् प्रादुर्भूतस्तपोधनः ॥

134.5

आगतं जलदाभासं समेताः सर्वदानवाः
उत्तस्थुर्नारदं दृष्ट्वा अभिवादनवादिनः ॥

134.6

तमर्घ्येण च पाद्येन मधुपर्केण चेश्वराः
नारदं पूजयामासुर् ब्रह्माणमिव वासवः ॥

134.7

तेषां स पूजां पूजार्हः प्रतिगृह्य तपोधनः
नारदः सुखमासीनः काञ्चने परमासने ॥

134.8

मयस्तु सुखमासीने नारदे नारदोद्भवे
यथार्हं दानवैः सार्धम् आसीनो दानवाधिपः ॥

134.9

आसीनं नारदं प्रेक्ष्य मयस्त्वथ महासुरः
अब्रवीद्वचनं तुष्टो हृष्टरोमाननेक्षणः ॥

134.10

औत्पातिकं पुरे ऽस्माकं यथा नान्यत्र कुत्रचित्
वर्तते वर्तमानज्ञ वद त्वं हि च नारद ॥

134.11

दृश्यन्ते भयदाः स्वप्ना भज्यन्ते च ध्वजाः परम्
विना च वायुना केतुः पतते च तथा भुवि ॥

134.12

अट्टालकाश्च नृत्यन्ते सपताकाः सगोपुराः
हिंस हिंसेति श्रूयन्ते गिरश्च भयदाः पुरे ॥

134.13

नाहं बिभेमि देवानां सेन्द्राणामपि नारद
मुक्त्वैकं वरदं स्थाणुं भक्ताभयकरं हरम् ॥

134.14

भगवन्नास्त्यविदितम् उत्पातेषु तवानघ
अनागतमतीतं च भवाञ्जानाति तत्त्वतः ॥

134.15

तदेतन्नो भयस्थानम् उत्पाताभिनिवेदितम्
कथयस्व मुनिश्रेष्ठ प्रपन्नस्य तु नारद ॥

134.16

इत्युक्तो नारदस्तेन मयेनामयवर्जितः ॥

134.17

शृणु दानव तत्त्वेन भवन्त्यौत्पातिका यथा
धर्मेति धारणे धातुर् माहात्म्ये चैव पठ्यते
धारणाच्च महत्त्वेन धर्म एष निरुच्यते ॥

134.18

स इष्टप्रापको धर्म आचार्यैरुपदिश्यते
इतरश्चानिष्टफल आचार्यैर्नोपदिश्यते ॥

134.19

उत्पथान्मार्गमागच्छेन् मार्गाच्चेव विमार्गताम्
विनाशस्तस्य निर्देश्य इति वेदविदो विदुः ॥

134.20

त्वमधर्मरथारूढः सहैभिर्मत्तदानवैः
अपकारिषु देवानां कुरुषे त्वं सहायताम् ॥

134.21

तदेतान्येवमादीनि उत्पातावेदितानि च
वैनाशिकानि दृश्यन्ते दानवानां तथैव च ॥

134.22

एष रुद्रः समास्थाय महालोकमयं रथम्
आयाति त्रिपुरं हन्तुं मय त्वामसुरानपि ॥

134.23

स त्वं महौजसं नित्यं प्रपद्यस्व महेश्वरम्
यास्यसे सह पुत्रेण दानवैः सह मानद ॥

134.24

इत्येवमावेद्य भयं दानवोपस्थितं महत्
दानवानां पुनर्देवो देवेशपदमागतः ॥

134.25

नारदे तु मुनौ याते मयो दानवनायकः
शूरसंमतमित्येवं दानवानाह दानवः ॥

134.26

शूराः स्थ जातपुत्राः स्थ कृतकृत्याः स्थ दानवाः
युध्यध्वं दैवतैः सार्धं कर्तव्यं चापि नो भयम् ॥

134.27

जित्वा वयं भविष्यामः सर्वे ऽमरसभासदः
देवांश्च सेन्द्रकान्हत्वा लोकान्भोक्ष्यामहे ऽसुराः ॥

134.28

अट्टालकेषु च तथा तिष्ठध्वं शस्त्रपाणयः
दंशिता युद्धसज्जाश्च तिष्ठध्वं प्रोद्यतायुधाः ॥

134.29

पुराणि त्रीणि चैतानि यथास्थानेषु दानवाः
तिष्ठध्वं लङ्घनीयानि भविष्यन्ति पुराणि च ॥

134.30

नमोगतास्तथा शूरा देवता विदिता हि वः
ताः प्रयत्नेन वार्याश्च विदार्याश्चैव सायकैः ॥

134.31

इति दनुतनयान्मयस्तथोक्त्वा सुरगणवारणवारणे वचांसि
युवतिजनविषण्णमानसं तत् त्रिपुरपुरं सहसा विवेश राजा ॥

134.32

अथ रजतविशुद्धभावभावो भवमभिपूज्य दिगम्बरं सुगीर्भिः
शरणमुपजगाम देवदेवं मदनार्यन्धकयज्ञदेहघातम् ॥

134.33

मयमभयपदैषिणं प्रपन्नं न किल बुबोध तृतीयदीप्तनेत्रः
तदभिमतमदात्ततः शशाङ्की स च किल निर्भय एव दानवो ऽभूत् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc