भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 133

133.1

ब्रह्माद्यैः स्तूयमानस्तु देवैर्देवो महेश्वरः
प्रजापतिमुवाचेदं देवानां क्व भयं महत् ॥

133.2

भो देवाः स्वागतं वो ऽस्तु ब्रूत यद्वो मनोगतम्
तावदेव प्रयच्छामि नास्त्यदेयं मया हि वः ॥

133.3

युष्माकं नितरां शं वै कर्ताहं विबुधर्षभाः
चरामि महदत्युग्रं यच्चापि परमं तपः ॥

133.4

विद्विष्टा वो मम द्विष्टाः कष्टाः कष्टपराक्रमाः
तेषामभावः संपाद्यो युष्माकं भव एव च ॥

133.5

एवमुक्तास्तु देवेन प्रेम्णा सब्रह्मकाः सुराः
रुद्रमाहुर्महाभागं भागार्हाः सर्व एव ते ॥

133.6

भगवंस्तैस्तपस्तप्तं रौद्रं रौद्रपराक्रमैः
असुरैर्वध्यमानाः स्म वयं त्वां शरणं गताः ॥

133.7

मयो नाम दितेः पुत्रस् त्रिनेत्र कलहप्रियः
त्रिपुरं येन तद्दुर्गं कृतं पाण्डुरगोपुरम् ॥

133.8

तदाश्रित्य पुरं दुर्गं दानवा वरनिर्भयाः
बाधन्ते ऽस्मान्महादेव प्रेष्यमस्वामिनं यथा ॥

133.9

उद्यानानि च भग्नानि नन्दनादीनि यानि च
वराश्चाप्सरसः सर्वा रम्भाद्या दनुजैर्हृताः ॥

133.10

इन्द्रस्य वाह्याश्च गजाः कुमुदाञ्जनवामनाः
ऐरावताद्या अपहृता देवतानां महेश्वर ॥

133.11

ये चेन्द्ररथमुख्याश् च हरयो ऽपहृतासुरैः
जाताश्च दानवानां ते रथयोग्यास्तुरंगमाः ॥

133.12

ये रथा ये गजाश्चैव याः स्त्रियो वसु यच्च नः
तन्नो व्यपहृतं दैत्यैः संशयो जीविते पुनः ॥

133.13

त्रिनेत्र एवमुक्तस्तु देवैः शक्रपुरोगमैः
उवाच देवान्देवेशो वरदो वृषवाहनः ॥

133.14

व्यपगच्छतु वो देवा महद्दानवजं भयम्
तदहं त्रिपुरं धक्ष्ये क्रियतां यद्ब्रवीमि तत् ॥

133.15

यदीच्छत मया दग्धुं तत्पुरं सहमानवम्
रथमौपयिकं मह्यं सज्जयध्वं किमास्यते ॥

133.16

दिग्वाससा तथोक्तास्ते सपितामहकाः सुराः
तथेत्युक्त्वा महादेवं चक्रुस्ते रथमुत्तमम् ॥

133.17

धरां कूबरकौ द्वौ तु रुद्रपार्श्वचरावुभौ
अधिष्ठानं शिरो मेरोर् अक्षो मन्दर एव च ॥

133.18

चक्रुश्चन्द्रं च सूर्यं च चक्रे काञ्चनराजते
कृष्णपक्षं शुक्लपक्षं पक्षद्वयमपीश्वराः ॥

133.19

रथनेमिद्वयं चक्रुर् देवा ब्रह्मपुरःसराः
आदिद्वयं पक्षयन्त्रं यन्त्रमेताश्च देवताः ॥

133.20

कम्बलाश्वतराभ्यां च नागाभ्यां समवेष्टितम्
भार्गवश्चाङ्गिराश्चैव बुधो ऽङ्गारक एव च ॥

133.21

शनैश्चरस्तथा चात्र सर्वे ते देवसत्तमाः
वरूथं गगनं चक्रुश् चारुरूपं रथस्य ते ॥

133.22

कृतं द्विजिह्वनयनं त्रिवेणुं शातकौम्भिकम्
मणिमुक्तेन्द्रनीलैश्च वृतं ह्यष्टमुखैः सुरैः ॥

133.23

गङ्गा सिन्धुः शतद्रुश्च चन्द्रभागा इरावती
वितस्ता च विपाशा च यमुना गण्डकी तथा ॥

133.24

सरस्वती देविका च तथा च सरयूरपि
एताः सरिद्वराः सर्वा वेणुसंज्ञा कृता रथे ॥

133.25

धृतराष्ट्राश्च ये नागास् ते च वेश्यात्मकाः कृताः
वासुकेः कुलजा ये च ये च रैवतवंशजाः ॥

133.26

ते सर्पा दर्पसम्पूर्णाश् चापतूणेष्व् अनूनगाः
अवतस्थुः शरा भूत्वा नानाजातिशुभाननाः ॥

133.27

सुरसा सरमा कद्रूर् विनता शुचिरेव च
तृषा बुभुक्षा सर्वोग्रा मृत्युः सर्वशमस्तथा ॥

133.28

ब्रह्मवध्या च गोवध्या बालवध्या प्रजाभयाः
गदा भूत्वा शक्तयश्च तदा देवरथे ऽभ्ययुः ॥

133.29

युगं कृतयुगं चात्र चातुर्होत्रप्रयोजकाः
चतुर्वर्णाः सलीलाश्च बभूवुः स्वर्णकुण्डलाः ॥

133.30

तद्युगं युगसंकाशं रथशीर्षे प्रतिष्ठितम्
धृतराष्ट्रेण नागेन बद्धं बलवता महत् ॥

133.31

ऋग्वेदः सामवेदश्च यजुर्वेदस्तथा परः
वेदाश् चत्वार एवैते चत्वारस्तुरगाभवन् ॥

133.32

अन्नदानपुरोगाणि यानि दानानि कानिचित्
तान्यासन्वाजिनां तेषां भूषणानि सहस्रशः ॥

133.33

पद्मद्वयं तक्षकश्च कर्कोटकधनंजयौ
नागा बभूवुरेवैते हयानां वालबन्धनाः ॥

133.34

ओंकारप्रभवास्ता वा मन्त्रयज्ञक्रतुक्रियाः
उपद्रवाः प्रतीकाराः पशुबन्धेष्टयस्तथा ॥

133.35

यज्ञोपवाहान्येतानि तस्मिंल्लोकरथे शुभे
मणिमुक्ताप्रवालैस्तु भूषितानि सहस्रशः ॥

133.36

प्रतोद ओंकार एवासीत् तदग्रं च वषट्कृतम्
सिनीवाली कुहू राका तथा चानुमतिः शुभा
योक्त्राण्यासंस्तुरंगाणाम् अपसर्पणविग्रहाः ॥

133.37

कृष्णान्यथ च पीतानि श्वेतमाञ्जिष्ठकानि च
अवदाताः पताकास्तु बभूवुः पवनेरिताः ॥

133.38

ऋतुभिश्च कृतः षड्भिर् धनुः संवत्सरो ऽभवत्
अजरा ज्याभवच्चापि साम्बिका धनुषो दृढा ॥

133.39

कालो हि भगवान्रुद्रस् तं च संवत्सरं विदुः
तस्मादुमा कालरात्रिर् धनुषो ज्याजराभवत् ॥

133.40

सगर्भं त्रिपुरं येन दग्धवान्स त्रिलोचनः
स इषुर्विष्णुसोमाग्नि त्रिदैवतमयो ऽभवत् ॥

133.41

आननं ह्यग्निरभवच् छल्यं सोमस्तमोनुदः
तेजसः समवायो ऽथ चेषोस्तेजो रथाङ्गधृक् ॥

133.42

तस्मिंश्च वीर्यवृद्ध्यर्थं वासुकिर्नागपार्थिवः
तेजःसंवसनार्थं वै मुमोचातिविषो विषम् ॥

133.43

कृत्वा देवा रथं चापि दिव्यं दिव्यप्रभावतः
लोकाधिपतिमभ्येत्य इदं वचनमब्रुवन् ॥

133.44

संस्कृतो ऽयं रथो ऽस्माभिस् तव दानवशत्रुजित्
इदमापत्परित्राणं देवान्सेन्द्रपुरोगमान् ॥

133.45

तं मेरुशिखराकारं त्रैलोक्यरथमुत्तमम्
प्रशस्य देवान्साध्विति रथं पश्यति शंकरः ॥

133.46

मुहुर्दृष्ट्वा रथं साधु साध्वित्युक्त्वा मुहुर्मुहुः
उवाच सेन्द्रानमरान् अमराधिपतिः स्वयम् ॥

133.47

यादृशो ऽयं रथः कॢप्तो युष्माभिर्मम सत्तमाः
ईदृशो रथसम्पत्त्या यन्ता शीघ्रं विधीयताम् ॥

133.48

इत्युक्त्वा देवदेवेन देवा विद्धा इवेषुभिः
अवापुर्महतीं चिन्तां कथं कार्यमिति ब्रुवन् ॥

133.49

महादेवस्य देवो ऽन्यः को नाम सदृशो भवेत्
मुक्त्वा चक्रायुधं देवं सो ऽप्यस्येषुं समाश्रितः ॥

133.50

धुरि युक्ता इवोक्षाणो घटन्त इव पर्वतैः
निश्वसन्तः सुराः सर्वे कथमेतदिति ब्रुवन् ॥

133.51

देवेष्वाह देवदेवो लोकनाथस्य धूर्गतान्
अहं सारथिरित्युक्त्वा जग्राहाश्वांस्ततो ऽग्रजः ॥

133.52

ततो देवैः सगन्धर्वैः सिंहनादो महान्कृतः
प्रतोदहस्तं सम्प्रेक्ष्य ब्रह्माणं सूततां गतम् ॥

133.53

भगवानपि विश्वेशो रथस्थे वै पितामहे
सदृशः सूत इत्युक्त्वा चारुरोह रथं हरः ॥

133.54

आरोहति रथं देवे ह्य् अश्वा हरभरातुराः
जानुभिः पतिता भूमौ रजोग्रासश्च ग्रासितः ॥

133.55

देवो दृष्ट्वाथ वेदांस्तान् अभीरुग्रहयान् भयात्
उज्जहार पितॄनार्तान् सुपुत्र इव दुःखितान् ॥

133.56

ततः सिंहरवो भूयो बभूव रथभैरवः
जयशब्दश्च देवानां संबभूवार्णवोपमः ॥

133.57

तदोंकारमयं गृह्य प्रतोदं वरदः प्रभुः
स्वयम्भूः प्रययौ वाहान् अनुमन्त्र्य यथाजवम् ॥

133.58

ग्रसमाना इवाकाशं मुष्णन्त इव मेदिनीम्
मुखेभ्यः ससृजुः श्वासान् उच्छ्वसन्त इवोरगाः ॥

133.59

स्वयम्भुवा चोद्यमानाश् चोदितेन कपर्दिना
व्रजन्ति ते ऽश्वा जवनाः क्षयकाल इवानिलाः ॥

133.60

ध्वजोच्छ्रयविनिर्माणे ध्वजयष्टिमनुत्तमाम्
आक्रम्य नन्दी वृषभस् तस्थौ तस्मिञ्छिवेच्छया ॥

133.61

भार्गवाङ्गिरसौ देवौ दण्डहस्तौ रविप्रभौ
रथचक्रे तु रक्षेते रुद्रस्य प्रियकाङ्क्षिणौ ॥

133.62

शेषश्च भगवान्नागो ऽनन्तो ऽनन्तकरो ऽरिणाम्
शरहस्तो रथं पाति शयनं ब्रह्मणस्तदा ॥

133.63

यमस्तूर्णं समास्थाय महिषं चातिदारुणम्
द्रविणाधिपतिर्व्यालं सुराणामधिपो द्विपम् ॥

133.64

मयूरं शतचन्द्रं च कूजन्तं किंनरं यथा
गुह आस्थाय वरदो युगोपमरथं पितुः ॥

133.65

नन्दीश्वरश्च भगवाञ् छूलमादाय दीप्तिमान्
पृष्ठतश्चापि पार्श्वाभ्यां लोकस्य क्षयकृद्यथा ॥

133.66

प्रमथाश्चाग्निवर्णाभाः साग्निज्वाला इवाचलाः
अनुजग्मू रथं शार्वं नक्रा इव महार्णवम् ॥

133.67

भृगुर्भरद्वाजवसिष्ठगौतमाः क्रतुः पुलस्त्यः पुलहस्तपोधनाः
मरीचिरत्रिर्भगवानथाङ्गिराः पराशरागस्त्यमुखा महर्षयः ॥

133.68

हरमजितमजं प्रतुष्टुवुर् वचनविशेषैर् विचित्रभूषणैः
रथस्त्रिपुरे सकाञ्चनाचलो व्रजति सपक्ष इवाद्रिरम्बरे ॥

133.69*

करिगिरिरविमेघसंनिभाः सजलपयोदनिनादनादिनः ।
प्रमथगणाः परिवार्य देवगुप्तं रथमभितः प्रययुः स्वदर्पयुक्ताः ॥

133.70

मकरतिमितिमिङ्गिलावृतः प्रलय इवातिसमुद्धतो ऽर्णवः
व्रजति रथवरो ऽतिभास्वरो ह्य् अशनिनिपातपयोदनिःस्वनः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc