मत्स्य पुराण · अध्याय 132
अशीलेषु प्रदुष्टेषु दानवेषु दुरात्मसु
लोकेषूत्साद्यमानेषु तपोधनवनेषु च ॥
सिंहनादे व्योमगानां तेषु भीतेषु जन्तुषु
त्रैलोक्ये भयसंमूढे तमोन्धन्वम् उपागते ॥
आदित्या वसवः साध्याः पितरो मरुतां गणाः
भीताः शरणमाजग्मुर् ब्रह्माणां प्रपितामहम् ॥
ते तं स्वर्णोत्पलासीनं ब्रह्माणं समुपागताः
नेमुरूचुश्च सहिताः पञ्चास्यं चतुराननम् ॥
वरगुप्तास्तवैवेह दानवास्त्रिपुरालयाः
बाधन्ते ऽस्मान्यथा प्रेष्यान् अनुशाधि ततो ऽनघ ॥
मेघागमे यथा हंसा मृगाः सिंहभयादिव
दानवानां भयात्तद्वद् भ्रमामो हि पितामह ॥
पुत्राणां नामधेयानि कलत्राणां तथैव च
दानवैर्भ्राम्यमाणानां विस्मृतानि ततो ऽनघ ॥
देववेश्मप्रभङ्गाश्च आश्रमभ्रंशनानि च
दानवैर्लोममोहान्धैः क्रियन्ते च भ्रमन्ति च ॥
यदि न त्रायसे लोकं दानवैर्विद्रुतं द्रुतम्
धर्षणानेन निर्देवं निर्मनुष्याश्रमं जगत् ॥
इत्येवं त्रिदशैरुक्तः पद्मयोनिः पितामहः
प्रत्याह त्रिदशान् सेन्द्रान् इन्दुतुल्याननः प्रभुः ॥
भयस्य यो वरो दत्तो मया मतिमतां वराः
तस्यान्त एष सम्प्राप्तो यः पुरोक्तो मया सुराः ॥
तच्च तेषामधिष्ठानं त्रिपुरं त्रिदशर्षभाः
एकेषुपातमोक्षेण हन्तव्यं नेषुवृष्टिभिः ॥
भवतां च न पश्यामि कमप्यत्र सुरर्षभाः
यस्तु चैकप्रहारेण पुरं हन्यात् सदानवम् ॥
त्रिपुरं नाल्पवीर्येण शक्यं हन्तुं शरेण तु
एकं मुक्त्वा महादेवं महेशानं प्रजापतिम् ॥
ते यूयं यदि अन्ये च क्रतुविध्वंसकं हरम्
याचामः सहिता देवं त्रिपुरं स हनिष्यति ॥
कृतः पुराणां विष्कम्भो योजमानां शतं शतम्
यथा चैकप्रहारेण हन्यते वै भवेन तु
पुष्ययोगेण युक्तानि तानि चैकक्षणेन तु ॥
ततो देवैश्च सम्प्रोक्तो यास्याम इति दुःखितैः
पितामहश्च तैः सार्धं भवसंसदमागतः ॥
तं भवं भूतभव्येशं गिरिशं शूलपाणिनम्
पश्यन्ति चोमया सार्धं नन्दिना च महात्मना ॥
अग्निवर्णमजं देवम् अग्निकुण्डनिभेक्षणम्
अग्न्यादित्यसहस्राभम् अग्निवर्णविभूषितम् ॥
चन्द्रावयवलक्ष्माणं चन्द्रसौम्यतराननम्
आगम्य तमजं देवम् अथ तं नीललोहितम्
अस्तुवन्गोपतिं शम्भुं वरदं पार्वतीपतिम् ॥
नमो भवाय शर्वाय रुद्राय वरदाय च
पशूनां पतये नित्यम् उग्राय च कपर्दिने ॥
महादेवाय भीमाय त्र्यम्बकाय च शान्तये
ईशानाय भयघ्नाय नमस्त्वन्धकघातिने ॥
नीलग्रीवाय भीमाय वेधसे वेधसा स्तुते
कुमारशत्रुनिघ्नाय कुमारजनकाय च ॥
विलोहिताय धूम्राय वराय क्रथनाय च
नित्यं नीलशिखण्डाय शूलिने दिव्यशायिने ॥
उरगाय त्रिनेत्राय हिरण्यवसुरेतसे
अचिन्त्यायाम्बिकाभर्त्रे सर्वदेवस्तुताय च ॥
वृषध्वजाय मुण्डाय जटिने ब्रह्मचारिणे
तप्यमानाय सलिले ब्रह्मण्यायाजिताय च ॥
विश्वात्मने विश्वसृजे विश्वमावृत्य तिष्ठते
नमो ऽस्तु दिव्यरूपाय प्रभवे दिव्यशम्भवे ॥
अभिगम्याय काम्याय स्तुत्यायार्च्याय सर्वदा
भक्तानुकम्पिने नित्यं दिशते यन्मनोगतम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0