भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 131

131.1

निर्मिते त्रिपुरे दुर्गे मयेनासुरशिल्पिना
तद्दुर्गं दुर्गतां प्राप बद्धवैरैः सुरासुरैः ॥

131.2

सकलत्राः सपुत्राश्च शस्त्रवन्तो ऽन्तकोपमाः
मयादिष्टानि विविशुर् गृहाणि हृषिताश्च ते ॥

131.3

सिंहा वनमिवानेके मकरा इव सागरम्
रोषैश्चैवातिपारुष्यैः शरीरमिव संहतैः ॥

131.4

तद्वद्बलिभिरध्यस्तं तत्पुरं देवतारिभिः
त्रिपुरं संकुलं जातं दैत्यकोटिशताकुलम् ॥

131.5

सुतलादपि निष्पत्य पातालाद्दानवालयात्
उपतस्थुः पयोदाभा ये च गिर्युपजीविनः ॥

131.6

यो यं प्रार्थयते कामं सम्प्राप्तस्त्रिपुराश्रयात्
तस्य तस्य मयस्तत्र मायया विदधाति सः ॥

131.7

सचन्द्रेषु प्रदोषेषु साम्बुजेषु सरःसु च
आरामेषु सचूतेषु तपोधनवनेषु च ॥

131.8

स्वङ्गाश्चन्दनदिग्धाङ्गां मातंगाः समदा इव
मृष्टाभरणवस्त्राश्च मृष्टस्रगनुलेपनाः ॥

131.9

प्रियाभिः प्रियक्रामाभिर् हावभावप्रसूतिभिः
नारीभिः सततं रेमुर् मुदिताश्चैव दानवाः ॥

131.10

मयेन निर्मिते स्थाने मोदमाना महासुराः
अर्थे धर्मे च कामे च निदधुस्ते मतीः स्वयम् ॥

131.11

तेषां त्रिपुरयुक्तानां त्रिपुरे त्रिदशारिणाम्
व्रजति स्म सुखं कालः स्वर्गस्थानां यथा तथा ॥

131.12

शुश्रूषन्ते पितॄन्पुत्राः पत्न्यश्चापि पतींस्तथा
विमुक्तकलहाश्चापि प्रीतयः प्रचुराभवन् ॥

131.13

नाधर्मस्त्रिपुरस्थानां बाधते वीर्यवानपि
अर्चयन्तो दितेः पुत्रास् त्रिपुरायतने हरम् ॥

131.14

पुण्याहशब्दानुच्चेरुर् आशीर्वादांश्च वेदगान्
स्वनूपुररवोन्मिश्रान् वेणुवीणारवानपि ॥

131.15

हासश्च वरनारीणां चित्तव्याकुलकारकः
त्रिपुरे दानवेन्द्राणां रमतां श्रूयते सदा ॥

131.16

तेषामर्चयतां देवान् ब्राह्मणांश्च नमस्यताम्
धर्मार्थकाममन्त्राणां महान्कालो ऽभ्यवर्तत ॥

131.17

अथालक्ष्मीरसूया च तृड्बुभुक्षे तथैव च
कलिश्च कलहश्चैव त्रिपुरं विविशुः सह ॥

131.18

संध्याकालं प्रविष्टास्ते त्रिपुरं च भयावहाः
समध्यासुः समं घोराः शरीराणि यथामयाः ॥

131.19

सर्व एते विशन्तस्तु मयेन त्रिपुरान्तरम्
स्वप्ने भयावहा दृष्टा आविशन्तस्तु दानवान् ॥

131.20

उदिते च सहस्रांशौ शुभभासाकरे रवौ
मयः सभामाविवेश भास्कराभ्यामिवाम्बुदः ॥

131.21

मेरुकूटनिभे रम्य आसने स्वर्णमण्डिते
आसीनाः काञ्चनगिरेः शृङ्गे तोयमुचो यथा ॥

131.22

पार्श्वयोस्तारकाख्यश्च विद्युन्माली च दानवः
उपविष्टौ मयस्यान्ते हस्तिनः कलभाविव ॥

131.23

ततः सुरारयः सर्वे ऽशेषकोपा रणाजिरे
उपविष्टा दृढं विद्धा दानवा देवशत्रवः ॥

131.24

तेष्वासीनेषु सर्वेषु सुखासनगतेषु च
मयो मायाविजनक इत्युवाच स दानवान् ॥

131.25

खेचराः खेचरारावा भो भो दाक्षायणीसुताः
निशामयध्वं स्वप्नो ऽयं मया दृष्टो भयावहः ॥

131.26

चतस्रः प्रमदास्तत्र त्रयो मर्त्या भयावहाः
कोपानलादीप्तमुखाः प्रविष्टास् त्रिपुरार्दिनः ॥

131.27

प्रविश्य रुषितास्ते च पुराण्यतुलविक्रमाः
प्रविष्टाः स्म शरीराणि भूत्वा बहुशरीरिणः ॥

131.28

नगरं त्रिपुरं चेदं तमसा समवस्थितम्
सगृहं सह युष्माभिः सागराम्भसि मज्जितम् ॥

131.29

उलूकं रुचिरा नारी नग्नारूढा खरं तथा
सह स्त्रीभिर्हसन्ती च चुम्बने प्रमदा यथा
पुरुषः सिन्दुतिलकश् चतुरङ्घ्रिस् त्रिलोचनः ॥

131.30

येन सा प्रमदा नुन्ना अहं चैव विबोधितः
ईदृशी प्रमदा दृष्टा मया चातिभयावहा ॥

131.31

एष ईदृशकः स्वप्नो दृष्टो वै दितिनन्दनाः
दृष्टः कथं हि कष्टाय असुराणां भविष्यति ॥

131.32

यदि वो ऽहं क्षमो राजा यदिदं वेत्थ चेद्धितम्
निबोधध्वं सुमनसो न चासूयितुम् अर्हथ ॥

131.33

कामं चेर्ष्यां च कोपं च असूयां संविहाय च
सत्ये दमे च धर्मे च मुनिवादे च तिष्ठत ॥

131.34

शान्तयश्च प्रयुज्यन्तां पूज्यतां च महेश्वरः
यदि नामास्य स्वप्नस्य ह्य् एवं चोपरमो भवेत् ॥

131.35

कुप्यते नो ध्रुवं रुद्रो देवदेवस्त्रिलोचनः
भविष्याणि च दृश्यन्ते यतो नस्त्रिपुरे ऽसुराः ॥

131.36

कलहं वर्जयन्तश्च अर्जयन्तस् तथार्जवम्
स्वप्नोदयं प्रतीक्षध्वं कालोदयमथापि च ॥

131.37

श्रुत्वा दाक्षायणीपुत्रा इत्येवं मयभाषितम्
क्रोधेर्ष्यावस्थया युक्ता दृश्यन्ते च विनाशगाः ॥

131.38

विनाशम् उपपश्यन्तो ह्य् अलक्ष्म्या व्यापितासुराः
तत्रैव दृष्ट्वा ते ऽन्योन्यं सक्रोधापूरितेक्षणाः ॥

131.39

अथ दैवपरिध्वस्ता दानवास्त्रिपुरालयाः
हित्वा सत्यं च धर्मं च अकार्याण्युपचक्रमुः ॥

131.40

द्विषन्ति ब्राह्मणान्पुण्यान् न चार्चन्ति हि देवताः
गुरुं चैव न मन्यन्ते ह्य् अन्योन्यं चापि चुक्रुधुः ॥

131.41

कलहेषु च सज्जन्ते स्वधर्मेषु हसन्ति च
परस्परं च निन्दन्ति अहमित्येव वादिनः ॥

131.42

उच्चैर्गुरून्प्रभाषन्ते नाभिभाषन्ति पूजिताः
अकस्मात्साश्रुनयना जायन्ते च समुत्सुकाः ॥

131.43

दधिसक्तून्पयश्चैव कपित्थानि च रात्रिषु
भक्षयन्ति च शेरन्त उच्छिष्टाः संवृतास्तथा ॥

131.44

मूत्रं कृत्वोपस्पृशन्ति चाकृत्वा पादधावनम्
संविशन्ति च शय्यासु शौचाचारविवर्जिताः ॥

131.45

संकुचन्ति भयाच्चैव मार्जाराणां यथाखुकः
भार्यां गत्वा न शुध्यन्ति रहोवृत्तिषु निस्त्रपाः ॥

131.46

पुरा सुशीला भूत्वा च दुःशीलत्वमुपागताः
देवांस्तपोधनांश्चैव बाधन्ते त्रिपुरालयाः ॥

131.47

मयेन वार्यमाणा अपि ते विनाशमुपस्थिताः
विप्रियाण्येव विप्राणां कुर्वाणाः कलहैषिणः ॥

131.48

वैभ्राजं नन्दनं चैव तथा चैत्ररथं वनम्
अशोकं च वराशोकं सर्वर्तुकमथापि च ॥

131.49

स्वर्गं च देवतावासं पूर्वदेववशानुगाः
विध्वंसयन्ति संक्रुद्धास् तपोधनवनानि च ॥

131.50

विध्वस्तदेवायतनाश्रमं च संभग्नदेवद्विजपूजकं तु
जगद्बभूवामरराजदुष्टैर् अभिद्रुतं सस्यमिवालिवृन्दैः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc