भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 130

130.1

इति चिन्तायुतो दैत्यो दिव्योपायप्रभावजम्
चकार त्रिपुरं दुर्गं मनःसंचारचारितम् ॥

130.2

प्राकारो ऽनेन मार्गेण इह वामुत्र गोपुरम्
इह चाट्टालकद्वारम् इह चाट्टालगोपुरम् ॥

130.3

राजमार्ग इतश्चापि विपुलो भवतामिति
रथ्योपरथ्याः सत्त्रिका इह चत्वर एव च ॥

130.4

इदमन्तःपुरस्थानं रुद्रायतनमत्र च
सवटानि तडागानि ह्य् अत्र वाप्यः सरांसि च ॥

130.5

आरामाश्च सभाश्चात्र उद्यानान्यत्र वा तथा
उपनिर्गमो दानवानां भवत्यत्र मनोहरः ॥

130.6

इत्येवं मानसं तत्रा कल्पयत्पुरकल्पवित्
मयेन तत्पुरं सृष्टं त्रिपुरं त्विति नः श्रुतम् ॥

130.7

कार्ष्णायसमयं यत्तु मयेन विहितं पुरम्
तारकाख्यो ऽधिपस्तत्र कृतस्थानाधिपो ऽवसत् ॥

130.8

यत्तु पूर्णेन्दुसंकाशं राजतं निर्मितं पुरम्
विद्युन्माली प्रभुस्तत्र विद्युन्माली त्विवाम्बुदः ॥

130.9

सुवर्णाधिकृतं यच्च मयेन विहितं पुरम्
स्वयमेव मयस्तत्र गतस्तदधिपः प्रभुः ॥

130.10

तारकस्य पुरं तत्र शतयोजनमन्तरम्
विद्युन्मालिपुरं चापि शतयोजनके ऽन्तरे ॥

130.11

मेरुपर्वतसंकाशं मयस्यापि पुरं महत्
पुष्यसंयोगमात्रेण कालेन स मयः पुरा ॥

130.12

कृतवांस्त्रिपुरं दैत्यस् त्रिनेत्रः पुष्पकं यथा
येन येन मयो याति प्रकुर्वाणः पुरं पुरात् ॥

130.13

प्रशस्तास्तत्र तत्रैव वारुण्यामालयाः स्वयम्
रुक्मरूप्यायसानां च शतशो ऽथ सहस्रशः ॥

130.14

रत्नाचितानि शोभन्ते पुराण्यमरविद्विषाम्
प्रासादशतजुष्टानि कूटागारोत्कटानि च ॥

130.15

सर्वेषां कामगानि स्युः सर्वलोकातिगानि च
सोद्यानवापीकूपानि सपद्मसरवन्ति च ॥

130.16

अशोकवनभूतानि कोकिलारुतवन्ति च
चित्रशालाविशालानि चतुःशालोत्तमानि च ॥

130.17

सप्ताष्टदशभौमानि सत्कृतानि मयेन च
बहुध्वजपताकानि स्रग्दामालंकृतानि च ॥

130.18

किङ्किणीजालशब्दानि गन्धवन्ति महान्ति च
सुसंयुक्तोपलिप्तानि पुष्पनैवेद्यवन्ति च ॥

130.19

यज्ञधूमान्धकाराणि संपूर्णकलशानि च
गगनावरणाभानि हंसपङ्क्तिनिभानि च ॥

130.20

पङ्क्तीकृतानि राजन्ते गृहाणि त्रिपुरे पुरे
मुक्ताकलापैर्लम्बद्भिर् हसन्तीव शशिश्रियम् ॥

130.21

मल्लिकाजातिपुष्पाद्यैर् गन्धधूपाधिवासितैः
पञ्चेन्द्रियसुखैर्नित्यं समैः सत्पुरुषैरिव ॥

130.22

हेमराजतलोहाद्य मणिरत्नाञ्जनाङ्किताः
प्राकारास्त्रिपुरे तस्मिन् गिरिप्राकारसंनिभाः ॥

130.23

एकैकस्मिन्पुरे तस्मिन् गोपुराणां शतं शतम्
सपताकाध्वजवतां दृश्यन्ते गिरिशृङ्गवत् ॥

130.24

नूपुरारावरम्याणि त्रिपुरे तत्पुराण्यपि
स्वर्गातिरिक्तश्रीकाणि तत्र कन्यापुराणि च ॥

130.25

आरामैश्च विहारैश्च तडागवटचत्वरैः
सरोभिश्च सरिद्भिश्च वनैश्चोपवनैरपि ॥

130.26

दिव्यभोगोपभोगानि नानारत्नयुतानि च
पुष्पोत्करैश्च सुभगास् त्रिपुरस्योपनिर्गमाः
परिखाशतगम्भीराः कृता मायानिवारणैः ॥

130.27

निशम्य तद्दुर्गविधानमुत्तमं कृतं मयेनाद्भुतवीर्यकर्मणा
दितेः सुता दैवतराजवैरिणः सहस्रशः प्रापुरनन्तविक्रमाः ॥

130.28

तदासुरैर्दर्पितवैरिमर्दनैर् जनार्दनैः शैलकरीन्द्रसंनिभैः
बभूव पूर्णं त्रिपुरं तथा पुरा यथाम्बरं भूरिजलैर् जलप्रदैः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc