भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 13

13.1

भगवञ्श्रोतुमिच्छामि पितॄणां वंशमुत्तमम्
रवेश्च श्राद्धदेवत्वं सोमस्य च विशेषतः ॥

13.2

हन्त ते कथयिष्यामि पितॄणां वंशमुत्तमम्
स्वर्गे पितृगणाः सप्त त्रयस्तेषाममूर्तयः ॥

13.3

मूर्तिमन्तो ऽथ चत्वारः सर्वेषाममितौजसः
अमूर्तयः पितृगणा वैराजस्य प्रजापतेः ॥

13.4

जयन्ति यान्देवगणा वैराजा इति विश्रुताः
ये चैते योगविभ्रष्टाः प्राप्य लोकान्सनातनान् ॥

13.5

पुनर्ब्रह्मदिनान्ते तु जायन्ते ब्रह्मवादिनः
सम्प्राप्य तां स्मृतिं भूयो योगं सांख्यमनुत्तमम् ॥

13.6

सिद्धिं प्रयान्ति योगेन पुनरावृत्तिदुर्लभाम्
योगिनामेव देयानि तस्माच्छ्राद्धानि दातृभिः ॥

13.7

एतेषां मानसी कन्या पत्नी हिमवतो मता
मैनाकस्तस्य दायादः क्रौञ्चस्तस्याग्रजो ऽभवत्
क्रौञ्चद्वीपः स्मृतो येन चतुर्थो घृतसंवृतः ॥

13.8

मेना च सुषुवे तिस्रः कन्या योगवतीस्ततः
उमैकपर्णापर्णा च तीव्रव्रतपरायणाः ॥

13.9

रुद्रस्यैका सितस्यैका जैगीषव्यस्य चापरा
दत्ता हिमवता बालाः सर्वा लोके तपो ऽधिकाः ॥

13.10

कस्माद्दाक्षायणी पूर्वं ददाहात्मानमात्मना
हिमवद्दुहिता तद्वत् कथं जाता महीतले ॥

13.11

संहरन्ती किमुक्तासौ सुता वा ब्रह्मसूनुना
दक्षेण लोकजननी सूत विस्तरतो वद ॥

13.12

दक्षस्य यज्ञे वितते प्रभूतवरदक्षिणे
समाहूतेषु देवेषु प्रोवाच पितरं सती ॥

13.13

किमर्थं तात भर्ता मे यज्ञे ऽस्मिन्नाभिमन्त्रितः
अयोग्य इति तामाह दक्षो यज्ञेषु शूलभृत् ॥

13.14

उपसंहारकृद्रुद्रस् तेनामङ्गलभागयम्
चुकोपाथ सती देहं त्यक्ष्यामीति त्वदुद्भवम् ॥

13.15

दशानां त्वं च भविता पितॄणामेकपुत्रकः
क्षत्रियत्वे ऽश्वमेधे च रुद्रात्त्वं नाशमेष्यसि ॥

13.16

इत्युक्त्वा योगमास्थाय स्वदेहोद्भवतेजसा
निर्दहन्ती तदात्मानं सदेवासुरकिंनरैः ॥

13.17

किं किमेतदिति प्रोक्ता गन्धर्वगणगुह्यकैः
उपगम्याब्रवीद्दक्षः प्रणिपत्याथ दुःखितः ॥

13.18

त्वमस्य जगतो माता जगत्सौभाग्यदेवता
दुहितृत्वं गता देवि ममानुग्रहकाम्यया ॥

13.19

न त्वया रहितं किंचिद् ब्रह्माण्डे सचराचरम्
प्रसादं कुरु धर्मज्ञे न मां त्यक्तुमिहार्हसि ॥

13.20

प्राह देवी यदारब्धं तत्कार्यं मे न संशयः
किंत्ववश्यं त्वया मर्त्ये हतयज्ञेन शूलिना ॥

13.21

प्रसादे लोकसृष्ट्यर्थं तपः कार्यं ममान्तिके
प्रजापतिस्त्वं भविता दशानामङ्गजो ऽप्यलम् ॥

13.22

मदंशेनाङ्गना षष्टिर् भविष्यन्त्यङ्गजास्तव
मत्संनिधौ तपः कुर्वन् प्राप्स्यसे योगमुत्तमम् ॥

13.23

एवमुक्तो ऽब्रवीद्दक्षः केषु केषु मयानघे
तीर्थेषु च त्वं द्रष्टव्या स्तोतव्या कैश्च नामभिः ॥

13.24

सर्वदा सर्वभूतेषु द्रष्टव्या सर्वतो भुवि
सर्वलोकेषु यत्किंचिद् रहितं न मया विना ॥

13.25

तथापि येषु स्थानेषु द्रष्टव्या सिद्धिमीप्सुभिः
स्मर्तव्या भूतिकामैर् वा तानि वक्ष्यामि तत्त्वतः ॥

13.26

वाराणस्यां विशालाक्षी नैमिषे लिङ्गधारिणी
प्रयागे ललिता देवी कामाक्षी गन्धमादने
मानसे कुमुदा नाम विश्वकाया तथाम्बरे ॥

13.27

गोमन्ते गोमती नाम मन्दरे कामचारिणी
मदोत्कटा चैत्ररथे जयन्ती हस्तिनापुरे ॥

13.28

कान्यकुब्जे तथा गौरी रम्भा मलयपर्वते
एकाम्भके कीर्तिमती विश्वां विश्वेश्वरे विदुः ॥

13.29

पुष्करे पुरुहूतेति केदारे मार्गदायिनी
नन्दा हिमवतः पृष्ठे गोकर्णे भद्रकर्णिका ॥

13.30

स्थानेश्वरे भवानी तु बिल्वले बिल्वपत्त्रिका
श्रीशैले माधवी नाम भद्रा भद्रेश्वरे तथा ॥

13.31

जया वराहशैले तु कामला कमलालये
रुद्रकोट्यां च रुद्राणी काली कालञ्जरे गिरौ ॥

13.32

महालिङ्गे तु कपिला मर्कोटे मुकुटेश्वरी
शालग्रामे महादेवी शिवलिङ्गे जलप्रिया ॥

13.33

मायापुर्यां कुमारी तु संताने ललिता तथा
उत्पलाक्षी सहस्राक्षे कमलाक्षे महोत्पला ॥

13.34

गङ्गायां मङ्गला नाम विमिला पुरुषोत्तमे
विपाशायाम् अमोघाक्षी पाटला पुण्ड्रवर्धने ॥

13.35

नारायणी सुपार्श्वे तु विकूटे भद्रसुन्दरी
विपुले विपुला नाम कल्याणी मलयाचले ॥

13.36

कोटवी कोटितीर्थे तु सुगन्धा माधवे वने
गोदाश्रमे त्रिसंध्या तु गङ्गाद्वारे रतिप्रिया ॥

13.37

शिवकुण्डे शिवानन्दा नन्दिनी देविकातटे
रुक्मिणी द्वारवत्यां तु राधा वृन्दावने वने ॥

13.38

देवकी मथुरायां तु पाताले परमेश्वरी
चित्रकूटे तथा सीता विन्ध्ये विन्ध्याधिवासिनी ॥

13.39

सह्याद्राव् एकवीरा तु हरिश्चन्द्रे तु चन्द्रिका
रमणा रामतीर्थे तु यमुनायां मृगावती ॥

13.40

करवीरे महालक्ष्मीर् उमा देवी विनायके
अरोगा वैद्यनाथे तु महाकाले महेश्वरी ॥

13.41

अभयेत्युष्णतीर्थेषु चामृता विन्ध्यकन्दरे
माण्डव्ये माण्डवी नाम स्वाहा माहेश्वरे पुरे ॥

13.42

छागलाण्डे प्रचण्डा तु चण्डिका मकरन्दके
सोमेश्वरे वरारोहा प्रभासे पुष्करावती ॥

13.43

देवमाता सरस्वत्यां पारावारतटे मता
महालये महाभागा पयोष्ण्यां पिङ्गलेश्वरी ॥

13.44

सिंहिका कृतशौचे तु कार्त्तिकेये यशस्करी
उत्पलावर्तके लोला सुभद्रा शोणसंगमे ॥

13.45

माता सिद्धपुरे लक्ष्मीर् अङ्गना भरताश्रमे
जालंधरे विश्वमुखी तारा किष्किन्धपर्वते ॥

13.46

देवदारुवने पुष्टिर् मेधा काश्मीरमण्डले
भीमा देवी हिमाद्रौ तु पुष्टिर्विश्वेश्वरे तथा ॥

13.47

कपालमोचने शुद्धिर् माता कायावरोहणे
शङ्खोद्धारे ध्वनिर्नाम धृतिः पिण्डारके तथा ॥

13.48

काला तु चन्द्रभागायाम् अच्छोदे शिवकारिणी
वेणायाममृता नाम बदर्यामुर्वशी तथा ॥

13.49

ओषधी चोत्तरकुरौ कुशद्वीपे कुशोदका
मन्मथा हेमकूटे तु मुकुटे सत्यवादिनी ॥

13.50

अश्वत्थे वन्दनीया तु निधिर्वैश्रवणालये
गायत्री वेदवदने पार्वती शिवसंनिधौ ॥

13.51

देवलोके तथेन्द्राणी ब्रह्मास्येषु सरस्वती
सूर्यबिम्बे प्रभा नाम मातॄणां वैष्णवी मता ॥

13.52

अरुन्धती सतीनां तु रामासु च तिलोत्तमा
चित्ते ब्रह्मकला नाम शक्तिः सर्वशरीरिणाम् ॥

13.53

एतदुद्देशतः प्रोक्तं नामाष्टशतमुत्तमम्
अष्टोत्तरं च तीर्थानां शतमेतदुदाहृतम् ॥

13.54

यः स्मरेच्छृणुयाद् वापि सर्वपापैः प्रमुच्यते
एषु तीर्थेषु यः कृत्वा स्नानं पश्यति मां नरः ॥

13.55

सर्वपापविनिर्मुक्तः कल्पं शिवपुरे वसेत्
यस्तु मत्परमं कालं करोत्येतेषु मानवः ॥

13.56

स भित्त्वा ब्रह्मसदनं पदमभ्येति शांकरम्
नाम्नामष्टशतं यस्तु श्रावयेच्छिवसंनिधौ ॥

13.57

तृतीयायामथाष्टम्यां बहुपुत्रो भवेन्नरः
गोदाने श्राद्धदाने वा अहन्य् अहनि वा बुधः ॥

13.58

देवार्चनविधौ विद्वान् पठन् ब्रह्माधिगच्छति
एवं वदन्ती सा तत्र ददाहात्मानम् आत्मना ॥

13.59

स्वायम्भुवो ऽपि कालेन दक्षः प्राचेतसो ऽभवत्
पार्वती साभवद्देवी शिवदेहार्धधारिणी ॥

13.60

मेनागर्भसमुत्पन्ना भुक्तमुक्तिफलप्रदा
अरुन्धती जपन्त्येतत् प्राप योगमनुत्तमम् ॥

13.61

पुरूरवाश्च राजर्षि लोके व्यजेयताम् अगात्
ययातिः पुत्रलाभं च धनलाभं च भार्गवः ॥

13.62

तथान्ये देवदैत्याश्च ब्राह्मणाः क्षत्रियास्तथा
वैश्याः शूद्राश्च बहवः सिद्धिमीयुर्यथेप्सिताम् ॥

13.63

यत्रैतल्लिखितं तिष्ठेत् पूज्यते देवसंनिधौ
न तत्र शोको दौर्गत्यं कदाचिदपि जायते ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc