मत्स्य पुराण · अध्याय 14
लोकाः सोमपथा नाम यत्र मारीचनन्दनाः
वर्तन्ते देव पितरो देवा यान्भावयन्त्यलम् ॥
अग्निष्वात्ता इति ख्याता यज्वानो यत्र संस्थिताः
अच्छोदा नाम तेषां तु मानसी कन्यका नदी ॥
अच्छोदं नाम च सरः पितृभिर्निर्मितं पुरा
अच्छोदा तु तपश्चक्रे दिव्यं वर्षसहस्रकम् ॥
आजग्मुः पितरस्तुष्टाः किल दातुं च तां वरम्
दिव्यरूपधराः सर्वे दिव्यमाल्यानुलेपनाः ॥
सर्वे युवानो बलिनः कुसुमायुधसंनिभाः
तन्मध्ये ऽमावसुं नाम पितरं वीक्ष्य साङ्गना ॥
वव्रे वरार्थिनी सङ्गं कुसुमायुधपीडिता
योगाद्भ्रष्टा तु सा तेन व्यभिचारेण भामिनी ॥
धरां तु नास्पृशत्पूर्वं पपाताथ भुवस्तले
तिथाव् अमावसुर् यस्याम् इच्छां चक्रे न तां प्रति ॥
धैर्येण तस्य सा लोकैर् अमावास्येति विश्रुता
पितॄणां वल्लभा तस्मात् तस्यामक्षयकारकम् ॥
अच्छोदाधोमुखी दीना लज्जिता तपसः क्षयात्
सा पितॄन् प्रार्थयामास पुरे चात्मप्रसिद्धये ॥
विलप्यमाना पितृभिर् इदमुक्ता तपस्विनी
भविष्यमर्थमालोक्य देवकार्यं च ते तदा ॥
इदम् ऊचुर् महाभागाः प्रसादशुभया गिरा
दिवि दिव्यशरीरेण यत् किंचित् क्रियते बुधैः ॥
तेनैव तत्कर्मफलं भुज्यते वरवर्णिनी
सद्यः फलन्ति कर्माणि देवत्वे प्रेत्य मानुषे ॥
तस्मात्त्वं पुत्रि तपसः प्राप्स्यसे प्रेत्य तत्फलम्
अष्टाविंशे भवित्री त्वं द्वापरे मत्स्ययोनिजा ॥
व्यतिक्रमात्पितॄणां त्वं कष्टं कुलमवाप्स्यसि
तस्माद्राज्ञो वसोः कन्या त्वम् अवश्यं भविष्यसि ॥
कन्या भूत्वा च लोकान्स्वान् पुनराप्स्यसि दुर्लभान्
पराशरस्य वीर्येण पुत्रमेकमवाप्स्यसि ॥
द्वीपे तु बदरीप्राये बादरायणमच्युतम्
स वेदमेकं बहुधा विभजिष्यति ते सुतः ॥
पौरवस्यात्मजौ द्वौ तु समुद्रांशस्य शंतनोः
विचित्रवीर्यस्तनयस् तथा चित्राङ्गदो नृपः ॥
इमाव् उत्पाद्य तनयौ क्षेत्रजावस्य धीमतः
प्रौष्ठपद्यष्टकारूपा पितृलोके भविष्यसि ॥
नाम्ना सत्यवती लोके पितृलोके तथाष्टका
आयुरारोग्यदा नित्यं सर्वकामफलप्रदा ॥
भविष्यसि परे काले नदीत्वं च गमिष्यसि
पुण्यतोषा सरिच्छ्रेष्ठा लोके ह्य् अच्छोदनामिका ॥
इत्युक्त्वा स गणस्तेषां तत्रैवान्तरधीयत
साप्यवाप च तत्सर्वं फलं यदुदितं पुरा ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0