मत्स्य पुराण · अध्याय 12
अथान्विषन्तो राजानं भ्रातरस् तस्य मानवाः
इक्ष्वाकुप्रमुखा जग्मुस् तदा शरवणान्तिकम् ॥
ततस्ते ददृशुः सर्वे वडबाम् अग्रतः स्थिताम्
रत्नपर्याणकिरण दीप्तकायाम् अनुत्तमाम् ॥
पर्याणप्रत्यभिज्ञानात् सर्वे विस्मयम् आगताः
अयं चन्द्रप्रभो नाम वाजी तस्य महात्मनः ॥
अगमद् वडबारूपम् उत्तमं केन हेतुना
ततस् तु मैत्रावरुणिं पप्रच्छुस्ते पुरोधसम् ॥
किमित्येतदभूच्चित्रं वद योगविदां वर
वसिष्ठश्चाब्रवीत् सर्वं दृष्ट्वा तद्ध्यानचक्षुषा ॥
समयः शम्भुदयिता कृतः शरवणे पुरा
यः पुमान्प्रविशेद् अत्र स नारीत्वमवाप्स्यति ॥
अयमश्वो ऽपि नारीत्वम् अगाद्राज्ञा सहैव तु
पुनः पुरुषतामेति यथासौ धनदोपमः ॥
तथैव यत्नः कर्तव्यश् चाराध्यैव पिनाकिनम्
ततस्ते मानवा जग्मुर् यत्र देवो महेश्वरः ॥
तुष्टुवुर् विविधैः स्तोत्रैः पार्वतीपरमेश्वरौ
ताव् ऊचतुर् अलङ्घ्यो ऽयं समयः किंतु साम्प्रतम् ॥
इक्ष्वाकोरश्वमेधेन यत्फलं स्यात्तदावयोः
दत्त्वा किम्पुरुषो वीरः स भविष्यत्यसंशयम् ॥
तथेत्युक्तास्ततस्ते तु जग्मुर् वैवस्वतात्मजाः
इक्ष्वाकोश्चाश्वमेधेन चेलः किम्पुरुषो ऽभवत् ॥
मासमेकं पुमान्वीरः स्त्री च मासमभूत्पुनः
बुधस्य भवने तिष्ठन् निलो गर्भधरो ऽभवत् ॥
अजीजनत्पुत्रमेकम् अनेकगुणसंयुतम्
बुधश्चोत्पाद्य तं पुत्रं स्वर्लोकम् अगमत्ततः ॥
इलस्य नाम्ना तद्वर्षम् इलावृतम् अभूत्तदा
सोमार्कवंशयोर् आदाव् इलो ऽभून्मनुनन्दनः ॥
एवं पुरूरवाः पुंसोर् अभवद् वंशवर्धनः
इक्ष्वाकुर् अर्कवंशस्य तथैवोक्तस्तपोधनाः ॥
इलः किम्पुरुषत्वे च सुद्युम्न इति चोच्यते
पुनः पुत्रत्रयमभूत् सुद्युम्नस्यापराजितम् ॥
उत्कलो वै गहस् तद्वद् धरिताश्वश् च वीर्यवान्
उत्कलस्योत्कला नाम गयस्य तु गया मता ॥
हरिताश्वस्य दिक्पूर्वा विश्रुता कुरुभिः सह
प्रतिष्ठाने ऽभिषिच्याथ स पुरूरवसं सुतम् ॥
जगामेलावृतं भोक्तुं वर्षं दिव्यफलाशनम्
इक्ष्वाकुर्ज्येष्ठदायादो मध्यदेशमवाप्तवान् ॥
नरिष्यन्तस्य पुत्रो ऽभूच् छुचो नाम महाबलः
नाभागस्याम्बरीषस्तु धृष्टस्य च सुतत्रयम् ॥
धृतकेतुश्चित्रनाथो रणधृष्टश्च वीर्यवान्
आनर्तो नाम शर्यातेः सुकन्या चैव दारिका ॥
आनर्तस्याभवत्पुत्रो रोचमानः प्रतापवान्
आनर्तो नाभ देशो ऽभून् नगरी च कुशस्थली ॥
रोचमानस्य पुत्रो ऽभूद् रेवो रैवत एव च
ककुद्मी चापरं नाम ज्येष्ठः पुत्रशतस्य च ॥
रेवती तस्य सा कन्या भार्या रामस्य विश्रुता
करूषस्य तु कारूषा बहवः प्रथिता भुवि ॥
पृषध्रो गोवधाच्छूद्रो गुरुशापादजायत
इक्ष्वाकुवंशं वक्ष्यामि शृणुध्वमृषिसत्तमाः ॥
इक्ष्वाकोः पुत्रताम् आप विकुक्षिर् नाम देवराट्
ज्येष्ठः पुत्रशतस्यासीद् दश पञ्च च तत्सुताः ॥
मेरोरुत्तरतस्ते तु जाताः पार्थिवसत्तमाः
चतुर्दशोत्तरं चान्यच् छतमस्य तथाभवत् ॥
मेरोर्दक्षिणतो ये ये राजानः संप्रकीर्तिताः
ज्येष्ठः ककुत्स्थो नाम्नाभूत् तत्सुतस्तु सुयोधनः ॥
तस्य पुत्रः पृथुर्नाम विश्वगश्चपृथोः सुतः
इन्दुस्तस्य च पुत्रो ऽभूद् युवनाश्वस्ततो ऽभवत् ॥
श्रावस्तश्च महातेजा वत्सकस्तत्सुतो ऽभवत्
निर्मिता येन श्रावस्ती गौडदेशे द्विजोत्तमाः ॥
श्रावस्ताद्बृहदश्वो ऽभूत् कुवलाश्वस् ततो ऽभवत्
धुन्धुमारत्वमगमद् धुन्धुनाम्ना हतः पुरा ॥
तस्य पुत्रास् त्रयो जाता दृढाश्वो दण्ड एव च
कपिलाश्वश्च विख्यातो धौन्धुमारिः प्रतापवान् ॥
दृढाश्वस्य प्रमोदश्च हर्यश्वस्तस्य चात्मजः
हर्यश्वस्य निकुम्भो ऽभूत् संहताश्वस् ततो ऽभवत् ॥
अकृताश्वो रणाश्वश्च संहताश्वसुताव् उभौ
युवनाश्वो रणाश्वस्य मान्धाता च ततो ऽभवत् ॥
मान्धातुः पुरुकुत्सो ऽभूद् धर्मसेनश्च पार्थिवः
मुचुकुन्दश्च विख्यातः शत्रुजिच्च प्रतापवान् ॥
पुरुकुत्सस्य पुत्रो ऽभूद् वसुदो नर्मदापतिः
सम्भूतिस्तस्य पुत्रो ऽभूत् त्रिधन्वा च ततो ऽभवत् ॥
त्रिधन्वनः सुतो जातस् त्रय्यारुण इति स्मृतः
तस्मात्सत्यव्रतो नाम तस्मात्सत्यरथः स्मृतः ॥
तस्य पुत्रो हरिश्चन्द्रो हरिश्चन्द्राच्च रोहितः
रोहिताच्च वृको जातो वृकाद्बाहुरजायत ॥
सगरस्तस्य पुत्रो ऽभूद् राजा परमधार्मिकः
द्वे भार्ये सगरस्यापि प्रभा भानुमती तथा ॥
ताभ्यामाराधितः पूर्वम् और्वो ऽग्निः पुत्रकाम्यया
और्वस्तुष्टस्तयोः प्रादाद् यथेष्टं वरमुत्तमम् ॥
एका षष्टिसहस्राणि सुतमेकं तथापरा
गृह्णातु वंशकर्तारं प्रभागृह्णाद् बहूंस्तदा ॥
एकं भानुमती पुत्रम् अगृह्णादसमञ्जसम्
ततः षष्टिसहस्राणि सुषुवे यादवी प्रभा ॥
खनन्तः पृथिवीं दग्धा विष्णुना ये ऽश्वमार्गणे
असमञ्जसस्तु तनयो यो ऽंशुमान्नाम विश्रुतः ॥
तस्य पुत्रो दिलीपस् तु दिलीपात्तु भगीरथः
येन भागीरथी गङ्गा तपः कृत्वावतारिता ॥
भगीरथस्य तनयो नाभाग इति विश्रुतः
नाभागस्याम्बरीषो ऽभूत् सिन्धुद्वीपस् ततो ऽभवत् ॥
तस्यायुतायुः पुत्रो ऽभूद् ऋतुपर्णस्ततो ऽभवत्
तस्य कल्माषपादस्तु सर्वकर्मा ततः स्मृतः ॥
तस्यानरण्यः पुत्रो ऽभून् निघ्नस्तस्य सुतो ऽभवत्
निघ्नपुत्राव् उभौ जाताव् अनमित्ररघू नृपौ ॥
अनामित्रो वनमगाद् भविता स कृते नृपः
रघोर् अभूद्दिलीपस्तु दिलीपादजकस्तथा ॥
दीर्घबाहुरजाज्जातश् चाजपालस्ततो नृपः
तस्माद्दशरथो जातस् तस्य पुत्रचतुष्टयम् ॥
नारायणात्मकाः सर्वे रामस्तेष्वग्रजो ऽभवत्
रावणान्तकरस्तद्वद् रघूणां वंशवर्धनः ॥
वाल्मीकिस्तस्य चरितं चक्रे भार्गवसत्तमः
तस्य पुत्रौ कुशलवाव् इक्ष्वाकुकुलवर्धनौ ॥
अतिथिस्तु कुशाज्जज्ञे निषधस्तस्य चात्मजः
नलस्तु नैषधस्तस्मान् नभास्तस्मादजायत ॥
नभसः पुण्डरीको ऽभूत् क्षेमधन्वा ततः स्मृतः
तस्य पुत्रो ऽभवद्वीरो देवानीकः प्रतापवान् ॥
अहीनगुस्तस्य सुतः सहस्राश्वस्ततः परः
ततश्चन्द्रावलोकस्तु तारापीडस्ततो ऽभवत् ॥
तस्यात्मजश् चन्द्रगिरिर् भानुश् चन्द्रस्ततो ऽभवत्
श्रुतायुर् अभवत्तस्माद् भारते यो निपातितः ॥
नलौ द्वाव् एव विख्यातौ वंशे कश्यपसम्भवे
वीरसेनसुतस्तद्वन् नैषधश्च नराधिपः ॥
एते वैवस्वते वंशे राजानो भूरिदक्षिणाः
इक्ष्वाकुवंशप्रभवाः प्राधान्येन प्रकीर्तिताः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0