भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 129

129.1

कथं जगाम भगवान् पुरारित्वं महेश्वरः
ददाह च कथं देवस् तन्नो विस्तरतो वद ॥

129.2

पृच्छामस्त्वां वयं सर्वे बहुमानात्पुनः पुनः
त्रिपुरं तद्यथा दुर्गं मयमायाविनिर्मितम्
देवेनैकेषुणा दग्धं तथा नो वद मानद ॥

129.3

शृणुध्वं त्रिपुरं देवो यथा दारितवान् भवः
मयो नाम महामायो मायानां जनको ऽसुरः ॥

129.4

निर्जितः स तु संग्रामे तताप परमं तपः
तपस्यन्तं तु तं विप्रा दैत्यावन्यावनुग्रहात् ॥

129.5

तस्यैव कृत्यमुद्दिश्य तेपतुः परमं तपः
विद्युन्माली च बलवांस् तारकाख्यश्च वीर्यवान् ॥

129.6

मयतेजःसमाक्रान्तौ तेपतुर्मयपार्श्वगौ
लोका इव यथा मूर्तास् त्रयस् त्रय इवाग्नयः ॥

129.7

लोकत्रयं तापयन्तस् ते तेपुर्दानवास्तपः
हेमन्ते जलशय्यासु ग्रीष्मे पञ्चतपे तथा ॥

129.8

वर्षासु च तथाकाशे क्षपयन्तस्तनूः प्रियाः
सेवानाः फलमूलानि पुष्पाणि च जलानि च ॥

129.9

अन्यदाचरिताहाराः पङ्केनाचितवल्कलाः
मग्नाः शैवालपङ्केषु विमलाविमलेषु च ॥

129.10

निर्मांसाश्च ततो जाताः कृशा धमनिसंतताः
तेषां तपःप्रभावेन प्रभावविधुतं यथा ॥

129.11

निष्प्रभं तु जगत्सर्वं मन्दमेवाभिभाषितम्
दह्यमानेषु लोकेषु तैस्त्रिभिर्दानवाग्निभिः ॥

129.12

तेषामग्रे जगद्बन्धुः प्रादुर्भूतः पितामहः
ततः साहसकर्तारः प्राहुस्ते सहसागतम् ॥

129.13

स्वकं पितामहं दैत्यास् तं वै तुष्टुवुरेव च
अथ तान्दानवान्ब्रह्मा तपसा तपनप्रभान् ॥

129.14

उवाच हर्षपूर्णाक्षो हर्षपूर्णमुखस्तदा
वरदो ऽहं हि वो वत्सास् तपस्तोषित आगतः ॥

129.15

व्रियताम् ईप्सितं यच्च साभिलाषं तदुच्यताम्
इत्येवमुच्यमानास्तु प्रतिपन्नं पितामहम् ॥

129.16

विश्वकर्मा मयः प्राह प्रहर्षोत्फुल्ललोचनः
देव दैत्याः पुरा देवैः संग्रामे तारकामये ॥

129.17

निर्जितास्ताडिताश्चैव हताश्चाप्यायुधैरपि
देवैर्वैरानुबन्धाच्च धावन्तो भयवेपिताः ॥

129.18

शरणं नैव जानीमः शर्म वा शरणार्थिनः
सो ऽहं तपःप्रभावेन तव भक्त्या तथैव च ॥

129.19

इच्छामि कर्तुं तद्दुर्गं यद्देवैरपि दुस्तरम्
तस्मिंश्च त्रिपुरे दुर्गे मत्कृते कृतिनां वर ॥

129.20

भूम्यानां जलजानां च शापानां मुनितेजसाम्
देवप्रहरणानां च देवानां च प्रजापतेः ॥

129.21

अलङ्घनीयं भवतु त्रिपुरं यदि ते प्रियम्
विश्वकर्मा इतीवोक्तः स तदा विश्वकर्मणा ॥

129.22

उवाच प्रहसन्वाक्यं मयं दैत्यगणाधिपम्
सर्वामरत्वं नैवास्ति असद्वृत्तस्य दानव ॥

129.23

तस्माद्दुर्गविधानं हि क्षणादपि विधीयताम्
पितामहवचः श्रुत्वा तदैवं दानवो मयः ॥

129.24

प्राञ्जलिः पुनरप्याह ब्रह्माणं पद्मसम्भवम्
यस्तदेकेषुणा दुर्गं सकृन्मुक्तेन निर्दहेत् ॥

129.25

समं स संयुगे हन्याद् अवध्यं शेषतो भवेत्
एवमस्त्विति चाप्युक्त्वा मयं देवः पितामहः ॥

129.26

स्वप्ने लब्धो यथार्थो वै तत्रैवादर्शनं ययौ
गते पितामहे दैत्या गता मयरविप्रभाः ॥

129.27

वरदानाद्विरेजुस्ते तपसा च महाबलाः
स मयस्तु महाबुद्धिर् दानवो वृषसत्तमः ॥

129.28

दुर्गं व्यवसितः कर्तुम् इति चाचिन्तयत्तदा
कथं नाम भवेद्दुर्गं तन्मया त्रिपुरं कृतम् ॥

129.29

वत्स्यते तत्पुरं दिव्यं मत्तो नान्यैर्न संशयः
यथाचैकेषुणा तेन तत्पुरं न हि हन्यते ॥

129.30

देवैस्तथा विधातव्यं मया मतिविचारणम्
विस्तारो योजनशतम् एकैकस्य पुरस्य तु ॥

129.31

कार्यस्तेषां च विष्कम्भश् चैकैकशतयोजनम्
पुष्ययोगेण निर्माणं पुराणं च भविष्यति ॥

129.32

पुष्ययोगेण च दिवि समेष्यन्ति परस्परम्
पुष्ययोगेण युक्तानि यस्तान्यासादयिष्यति ॥

129.33

पुराण्येकप्रहारेण शतानि निहनिष्यति
आयसं तु क्षितितले राजतं तु नभस्तले ॥

129.34

राजतस्योपरिष्टात्तु सौवर्णं भविता पुरम्
एवं त्रिभिः पुरैर्युक्तं त्रिपुरं तद्भविष्यति
शतयोजनविष्कम्भैर् अन्तरैस्तद्दुरासदम् ॥

129.35

अट्टालकैर् यन्त्रशतघ्निभिश्च सचक्रशूलोपलकम्पनैश्च
द्वारैर्महामन्दरमेरुकल्पैः प्राकारशृङ्गैः सुविराजमानम् ॥

129.36

सतारकाख्येन मयेन गुप्तं स्वस्थं च गुप्तं तडिन्मालिनापि
को नाम हन्तुं त्रिपुरं समर्थो मुक्त्वा त्रिनेत्रं भगवन्तमेकम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc