मत्स्य पुराण · अध्याय 128
यदेतद्भवता प्रोक्तं श्रुतं सर्वमशेषतः
कथं देवगृहाणि स्युः पुनर्ज्योतींषि वर्णय ॥
एतत्सर्वं प्रवक्ष्यामि सूर्याचन्द्रमसोर्गतिम्
यथा देवगृहाणि स्युः सूर्याचन्द्रमसोस्तथा ॥
अग्नेर्व्युष्टौ रजन्यां वै ब्रह्मणाव्यक्तयोनिना
अव्याकृतमिदं त्वासीन् नैशेन तमसा वृतम् ॥
चतुर्भूतावशिष्टे ऽस्मिन् ब्रह्मणा समधिष्ठिते
स्वयम्भूर् भगवांस्तत्र लोकतत्त्वार्थसाधकः ॥
खद्योतरूपी विचरन्न् आविर्भावं व्यचिन्तयत्
ज्ञात्वाग्निं कल्पकालादाव् अपः पृथ्वीं च संश्रिता ॥
स संभृत्य प्रकाशार्थं त्रिधा तुल्यो ऽभवत्पुनः
पाचको यस्तु लोके ऽस्मिन् पार्थिवः सो ऽग्निरुच्यते ॥
यश्चासौ तपते सूर्ये शुचिरग्निश्च स स्मृतः
वैद्युतो जाठरः सौम्यो वैद्युतश्चाप्यबिन्धनः ॥
तेजोभिश्चाप्यते कश्चित् कश्चिदेवाप्यनिन्धनः
काष्ठेन्धनस्तु निर्मथ्यः सो ऽद्भिः शाम्यति पावकः ॥
अर्चिष्मान्पचनो ऽग्निस्तु निष्प्रभः सौम्यलक्षणः
यश्चासौ मण्डले शुक्ले निरूष्मा न प्रकाशते ॥
प्रभा सौरी तु पादेन अस्तं याति दिवाकरे
अग्निमाविशते रात्रौ तस्मादग्निः प्रकाशते ॥
उदिते तु पुनः सूर्ये ऊष्माग्नेस्तु समाविशत्
पादेन तेजसश्चाग्नेस् तस्मात् संतपते दिवा ॥
प्राकाश्यं च तथौष्ण्यं च सौर्याग्नेये तु तेजसी
परस्परानुप्रवेशाद् आप्यायेते दिवानिशम् ॥
उत्तरे चैव भूम्यर्धे तथा ह्यस्मिंस्तु दक्षिणे
उत्तिष्ठति पुनः सूर्ये रात्रिराविशते ह्य् अपः ॥
तस्मात्ताम्रा भवन्त्यापो दिवारात्रिप्रवेशनात्
अस्तं गते पुनः सूर्ये अहर्वै प्रविशत्य् अपः ॥
तस्मान्नक्तं पुनः शुक्ला ह्य् आपो दृश्यन्ति भासुराः
एतेन क्रमयोगेण भूम्यर्धे दक्षिणोत्तरे ॥
उदयास्तमये ह्यत्र अहोरात्रं विशत्य् अपः
यश्चासौ तपते सूर्यः सो ऽपः पिबति रश्मिभिः ॥
सहस्रपादस्त्वेषो ऽग्नी रक्तकुम्भनिभस्तु सः
आदत्ते स तु नाडीनां सहस्रेण समन्ततः ॥
अपो नदीसमुद्रेभ्यो ह्रदकूपेभ्य एव च
तस्य रश्मिसहस्रेण शीतवर्षोष्णनिःस्रवः ॥
तासां चतुःशतं नाड्यो वर्षन्ते चित्रमूर्तयः
चन्दनाश्चैव मेध्याश्च केतनाश् चेतनास्तथा ॥
अमृता जीवनाः सर्वा रश्मयो वृष्टिसर्जनाः
हिमोद्भवाश्च ते ऽन्योन्यं रश्मयस्त्रिंशतः स्मृताः
चन्द्रताराग्रहैः सर्वैः पीता भानोर्गभस्तयः ॥
एता मध्यास्तथान्याश्च ह्लादिन्यो हिमसर्जनाः
शुक्लाश्च ककुभश्चैव गावो विश्वसृतश्च याः ॥
शुक्लास्ता नामतः सर्वास् त्रिंशतो घर्मसर्जनाः
संबिभ्रति हि ताः सर्वा मनुष्यान्देवताः पितॄन् ॥
मनुष्यानोषधीभिश्च स्वधया च पितॄनपि
अमृतेन सुरान्सर्वान् संततं परितर्पयन् ॥
वसन्ते चैव ग्रीष्मे च शनैः संतपते त्रिभिः
वर्षासु च शरद्येवं चतुर्भिः संप्रवर्षति ॥
हेमन्ते शिशिरे चैव हिमोत्सर्गस् त्रिभिः पुनः
ओषधीषु बलं धत्ते सुधां च स्वधया पुनः ॥
सूर्यो ऽमरत्वममृते त्रयस् त्रिषु नियच्छति
एवं रश्मिसहस्रं तु सौरं लोकार्थसाधकम् ॥
भिद्यते ऋतुमासाद्य सहस्रं बहुधा पुनः
इत्येवं मण्डलं शुक्लं भास्वरं लोकसंज्ञितम् ॥
नक्षत्रग्रहसोमानां प्रतिष्ठा योनिरेव च
चन्द्र ऋक्षग्रहाः सर्वे विज्ञेयाः सूर्यसम्भवाः ॥
सुषुम्ना सूर्यरश्मिर्या क्षीणं शशिनमेधते
हरिकेशः पुरस्तात्तु यो वै नक्षत्रयोनिकृत् ॥
दक्षिणे विश्वकर्मा तु रश्मिराप्याययद्बुधम्
विश्वावसुश्च यः पश्चाच् छुक्रयोनिश्च स स्मृतः ॥
संवर्धनस्तु यो रश्मिः स योनिर्लोहितस्य च
षष्ठस्तु ह्यश्वभू रश्मिर् योनिः स हि बृहस्पतेः ॥
शनैश्चरं पुनश्चापि रश्मिराप्यायते सुराट्
न क्षीयते यतस्तानि तस्मान्नक्षत्रता स्मृता ॥
क्षेत्राण्येतानि वै सूर्यम् आपतन्ति गभस्तिभिः
क्षेत्राणि तेषामादत्ते सूर्यो नक्षत्रता ततः ॥
अस्माल्लोकादमुं लोकं तीर्णानां सुकृतात्मनाम्
तारणात्तारका ह्येताः शुक्लत्वाच्चैव शुक्लिकाः ॥
दिव्यानां पार्थिवानां च वंशानां चैव सर्वशः
तपनस्तेजसो योगाद् आदित्य इति गद्यते ॥
स्रवतिः स्यन्दनार्थे च धातुरेष निगद्यते
स्रवणात्तेजसश्चैव तेनासौ सविता स्मृतः ॥
बह्वर्थश्चन्द इत्येष प्रधानो धातुरुच्यते
शुक्लत्वे ह्यमृतत्वे च शीतत्वे ह्लादने ऽपि च ॥
सूर्याचन्द्रमसोर्दिव्ये मण्डले भास्वरे खगे
जलतेजोमये शुक्ले वृत्तकुम्भनिभे शुभे ॥
वसन्ति कर्मदेवास्तु स्थानान्येतानि सर्वशः
मन्वन्तरेषु सर्वेषु ऋषिसूर्यग्रहादयः ॥
तानि देवगृहाणि स्युः स्थानाख्यानि भवन्ति हि
सौरं सूर्यो ऽविशत्स्थानं सौम्यं सोमस्तथैव च ॥
शौक्रं शुक्रो ऽविशत्स्थानं षोडशारं प्रभास्वरम्
बृहस्पतिर्बृहत्त्वं च लोहितं चापि लोहितः ॥
शनैश्चरो ऽविशत्स्थानम् एवं शानैश्चरं तथा
बुधो ऽपि वै बुधस्थानं भानुं स्वर्भानुरेव च ॥
नक्षत्राणि च सर्वाणि नाक्षत्राण्याविशन्ति च
ज्योतींषि सुकृताम् एते ज्ञेया देवगृहास्तु वै ॥
स्थानान्येतानि तिष्ठन्ति यावदाभूतसंप्लवम्
मन्वन्तरेषु सर्वेषु देवस्थानानि तानि वै ॥
अभिमानेन तिष्ठन्ति तानि देवाः पुनः पुनः
अतीतास्तु सहातीतैर् भाव्या भाव्यैः सुरैः सह ॥
वर्तन्ते वर्तमानैश्च सुरैः सार्धं तु स्थानिनः
सूर्यो देवो विवस्वांश्च अष्टमस्त्वदितेः सुतः ॥
द्युतिमान्धर्मयुक्तश्च सोमो देवो वसुः स्मृतः
शुक्रो दैत्यस्तु विज्ञेयो भार्गवो ऽसुरयाजकः ॥
बृहस्पतिर् बृहत्तेजा देवाचार्यो ऽङ्गिरःसुतः
बुधो मनोहरश्चैव शशिपुत्रस्तु स स्मृतः ॥
शनैश्चरो विरूपश्च संज्ञापुत्रो विवस्वतः
अग्निर्विकेश्यां जज्ञे तु युवासौ लोहिताधिपः ॥
नक्षत्रनाम्न्यः क्षेत्रेषु दाक्षायण्यः सुताः स्मृताः
स्वर्भानुः सिंहिकापुत्रो भूतसंसाधनो ऽसुरः ॥
चन्द्रार्कग्रहनक्षत्रेष्व् अभिमानी प्रकीर्तितः
स्थानान्येतानि चोक्तानि स्थानिन्यश्चैव देवताः ॥
शुक्लमग्निसमं दिव्यं सहस्रांशोर्विवस्वतः
सहस्रांशुत्विषः स्थानम् अम्मयं तैजसं तथा ॥
आशास्थानं मनोज्ञस्य रविरश्मिगृहे स्थितम्
शुक्रः षोडशरश्मिस्तु यस्तु देवो ह्यपोमयः ॥
लोहितो नवरश्मिस्तु स्थानमाप्यं तु तस्य वै
बृहद्द्वादशरश्मीकं हरिद्राभं तु वेधसः ॥
अष्टरश्मिशनेस्तत्तु कृष्णं वृद्धमयस्मयम्
स्वर्भानोस्त्वायसं स्थानं भूतसंतापनालयम् ॥
सुकृताम् आश्रयास्तारा रश्मयस्तु हिरण्मयाः
तारणात्तारका ह्येताः शुक्लत्वाच्चैव तारकाः ॥
नवयोजनसाहस्रो विष्कम्भः सवितुः स्मृतः
मण्डलं त्रिगुणं चास्य विस्तारो भास्करस्य तु ॥
द्विगुणः सूर्यविस्ताराद् विस्तारः शशिनः स्मृतः
त्रिगुणं मण्डलं चास्य वैपुल्याच्छशिनः स्मृतम् ॥
सर्वोपरि निसृष्टानि मण्डलानि तु तारकाः
योजनार्धप्रमाणानि ताभ्यो ऽन्यानि गणानि तु ॥
तुल्यो भूत्वा तु स्वर्भानुस् तदधस्तात्प्रसर्पति
उद्धूत्य पार्थिवीं छायां निर्मितां मण्डलाकृतिम् ॥
ब्रह्मणा निर्मितं स्थानं तृतीयं तु तमोमयम्
आदित्यात्स तु निष्क्रम्य सोमं गच्छति पर्वसु ॥
आदित्यमेति सोमाच्च पुनः सौरेषु पर्वसु
स्वभासा तुदते यस्मात् स्वर्भानुरिति स स्मृतः ॥
चन्द्रतः षोडशो भागो भार्गवस्य विधीयते
विष्कम्भान्मण्डलाच्चैव योजनानां तु स स्मृतः ॥
भार्गवात्पादहीनश्च विज्ञेयो वै बृहस्पतिः
बृहस्पतेः पादहीनौ केतुवक्रावुभौ स्मृतौ ॥
विस्तारमण्डलाभ्यां तु पादहीनस्तयोर्बुधः
तारानक्षत्ररूपाणि वपुष्मन्तीह यानि वै ॥
बुधेन समरूपाणि विस्तारान्मण्डलात्तु वै
तारानक्षत्ररूपाणि हीनानि तु परस्परम् ॥
शतानि पञ्च चत्वारि त्रीणि द्वे चैकमेव च
सर्वोपरि निसृष्टानि मण्डलानि तु तारकाः ॥
योजनार्धप्रमाणानि तेभ्यो ह्रस्वं न विद्यते
उपरिष्टात्तु ये तेषां ग्रहा ये क्रूरसात्त्विकाः ॥
सौरश्चाङ्गिरसो वक्रो विज्ञेया मन्दचारिणः
तेभ्यो ऽधस्तात्तु चत्वारः पुनश्चान्ये महाग्रहाः ॥
सोमः सूर्यो बुधश्चैव भार्गवश्चेति शीघ्रगाः
यावन्ति चैव ऋक्षाणि कोट्यस्तावन्ति तारकाः ॥
सर्वेषां तु ग्रहाणां वै सूर्यो ऽधस्तात्प्रसर्पति
विस्तीर्णं मण्डलं कृत्वा तस्योर्ध्वं चरते शशी ॥
नक्षत्रमण्डलं चापि सोमादूर्ध्वं प्रसर्पति
नक्षत्रेभ्यो बुधश्चोर्ध्वं बुधाच्चोर्ध्वं तु भार्गवः ॥
वक्रस्तु भार्गवादूर्ध्वं वक्रादूर्ध्वं बृहस्पतिः
तस्माच्छनैश्चरश्चोर्ध्वं देवाचार्योपरि स्थितः ॥
शनैश्चरात्तथा चोर्ध्वं ज्ञेयं सप्तर्षिमण्डलम्
सप्तर्षिभ्यो ध्रुवश्चोर्ध्वं समस्तं त्रिदिवं ध्रुवे ॥
द्विगुणेषु सहस्रेषु योजनानां शतेषु च
ग्रहान्तरम् अथैकैकम् ऊर्ध्वं नक्षत्रमण्डलात् ॥
ताराग्रहान्तराणि स्युर् उपर्युपर्यधिष्ठितम्
ग्रहाश्च चन्द्रसूर्यौ च दिवि दिव्येन तेजसा ॥
नक्षत्रेषु च युज्यन्ते गच्छन्तो नियतक्रमात्
चन्द्रार्कग्रहनक्षत्रा नीचोच्चगृहमाश्रिताः ॥
समागमे च भेदे च पश्यन्ति युगपत्प्रजाः
परस्परं स्थिता ह्येवं युज्यन्ते च परस्परम् ॥
असंकरेण विज्ञेयस् तेषां योगस्तु वै बुधैः
इत्येवं संनिवेशो वै पृथिव्या ज्योतिषां च यः ॥
द्वीपानामुदधीनां च पर्वतानां तथैव च
वर्षाणां च नदीनां च ये च तेषु वसन्ति वै ॥
इत्येषो ऽर्कवशेनैव संनिवेशस्तु ज्योतिषाम्
आवर्तः सान्तरो मध्ये संक्षिप्तश्च ध्रुवात्तु स ॥
सर्वतस्तेषु विस्तीर्णो वृत्ताकार इवोच्छ्रितः
लोकसंव्यवहारार्थम् ईश्वरेण विनिर्मितः ॥
कल्पादौ बुद्धिपूर्वं तु स्थापितो ऽसौ स्वयम्भुवा
इत्येष संनिवेशो वै सर्वस्य ज्योतिरात्मकः ॥
वैश्वरूपं प्रधानस्य परिणाहो ऽस्य यः स्मृतः
तेषां शक्यं न संख्यातुं याथातथ्येन केनचित्
गतागतं मनुष्येण ज्योतिषां मांसचक्षुषा ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0