मत्स्य पुराण · अध्याय 127
ताराग्रहाणां वक्ष्यामि स्वर्भानोस्तु रथं पुनः
अथ तेजोमयः शुभ्रः सोमपुत्रस्य वै रथः ॥
युक्तो हयैः पिशङ्गस्तु दशभिर् वातरंहसैः
श्वेतः पिशङ्गः सारङ्गो नीलः श्यामो विलोहितः ॥
श्वेतश्च हरितश्चैव पृषतो वृष्णिरेव च
दशभिस्तु महाभागैर् उत्तमैर्वातसम्भवैः ॥
ततो भौमरथश्चापि अष्टाङ्गः काञ्चनः स्मृतः
अष्टभिर् लोहितैरश्वैः सध्वजैर् अग्निसम्भवैः
सर्पते ऽसौ कुमारो वै ऋजुवक्रानुवक्रगः ॥
अतश्चाङ्गिरसो विद्वान् देवाचार्यो बृहस्पतिः
गौराश्वेन तु रौक्मेण स्यन्दनेन विसर्पति ॥
युक्तेनाष्टाभिरश्वैश्च ध्वजैरग्निसमुद्भवैः
अब्दं वसति यो राशौ स्वदिशं तेन गच्छति ॥
युक्तेनाष्टाभिर् अश्वैश्च सध्वजैरग्निसंनिभैः
रथेन क्षिप्रवेगेण भार्गवस्तेन गच्छति ॥
ततः शनैश्चरो ऽप्यश्वैः सबलैर् वातरंहसैः
कार्ष्णायसं समारुह्य स्यन्दनं यात्यसौ शनिः ॥
स्वर्भानोस्तु यथाष्टाश्वाः कृष्णा वै वातरंहसः
रथं तमोमयं तस्य वहन्ति स्म सुदंशिताः ॥
आदित्यनिलयो राहुः सोमं गच्छति पर्वसु
आदित्यमेति सोमाच्च तमसो ऽन्तेषु पर्वसु ॥
ततः केतुमतस्त्वश्वा अष्टौ ते वातरंहसः
पलालधूमवर्णाभाः क्षामदेहाः सुदारुणाः ॥
एते वाहा ग्रहाणां वै मया प्रोक्ता रथैः सह
सर्वे ध्रुवे निबद्धास्ते निबद्धा वातरश्मिभिः ॥
एते वै भ्राम्यमाणास्ते यथायोगं वहन्ति वै
वाय याभिरदृश्याभिः प्रबद्धा वातरश्मिभिः ॥
परिभ्रमन्ति तद्बद्धाश् चन्द्रसूर्यग्रहा दिवि
यावत्तमनुपर्येति ध्रुवं च ज्योतिषां गणः ॥
यथा नद्युदके नोस्तु उदकेन सहोह्यते
तथा देवगृहाणि स्युर् उह्यन्ते वातरंहसा
तस्माद्यानि प्रगृह्यन्ते व्योम्नि देवगृहा इति ॥
यावत्यश्चैव ताराः स्युस् तावन्तो ऽस्य मरीचयः
सर्वा ध्रुवनिबद्धास्ता भ्रमन्त्यो भ्रामयन्ति च ॥
तैलपीडं यथा चक्रं भ्रमते भ्रामयन्ति वै
तथा भ्रमन्ति ज्योतींषि वातबद्धानि सर्वशः ॥
अलातचक्रवद्यान्ति वातचक्रेरितानि तु
यस्मात्प्रवहते तानि प्रवहस्तेन स स्मृतः ॥
एवं ध्रुवे नियुक्तो ऽसौ भ्रमते ज्योतिषां गणः
एष तारामयः प्रोक्तः शिशुमारे ध्रुवो दिवि ॥
यदह्ना कुरुते पापं तं दृष्ट्वा निशि मुञ्चति
शिशुमारशरीरस्था यावत्यस्तारकास्तु ताः ॥
वर्षाणि दृष्ट्वा जीवेत तावदेवाधिकानि तु
शिशुमाराकृतिं ज्ञात्वा प्रविभागेन सर्वशः ॥
उत्तानपादस्तस्याथ विज्ञेयः सोत्तरो हनुः
यज्ञो ऽधरस्तु विज्ञेयो धर्मो मूर्धानमाश्रितः ॥
हृदि नारायणः साध्या अश्विनौ पूर्वपादयोः
वरुणश्चार्यमा चैव पश्चिमे तस्य सक्थिनी ॥
शिश्ने संवत्सरो ज्ञेयो मित्रश्चापानमाश्रितः
पुच्छे ऽग्निश्च महेन्द्रश्च मरीचिः कश्यपो ध्रुवः ॥
एष तारामयः स्तम्भो नास्तमेति न वोदयम्
नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह ॥
तन्मुखाभिमुखाः सर्वे चक्रभूता दिवि स्थिताः
ध्रुवेणाधिष्ठिताश्चैव ध्रुवमेव प्रदक्षिणम् ॥
परियान्ति सुरश्रेष्ठं मेढीभूतं ध्रुवं दिवि
आग्नीध्रकाश्यपानां तु तेषां स परमो ध्रुवः ॥
एक एव भ्रमत्येष मेरोरन्तरमूर्धनि
ज्योतिषां चक्रमादाय आकर्षंस्तमधोमुखः
मेरुमालोकयन्नेव प्रतियाति प्रदक्षिणम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0