मत्स्य पुराण · अध्याय 126
स रथो ऽधिष्ठितो देवैर् मासि मासि यथाक्रमम्
ततो वहत्यथादित्यं बहुभिर् ऋषिभिः सह ॥
गन्धर्वैरप्सरोभिश्च सर्पग्रामणिराक्षसैः
एते वसन्ति वै सूर्ये मासौ द्वौ द्वौ क्रमेण च ॥
धातार्यमा पुलस्त्यश्च पुलहश्च प्रजापती
उरगौ वासुकिश्चैव संकीर्णश्चैव तावुभौ ॥
तुम्बुरुर् नारदश्चैव गन्धर्वौ गायतां वरौ
कृतस्थलाप्सराश्चैव या च सा पुञ्जिकस्थला ॥
ग्रामण्यौ रथकृत्तस्य रथौजाश्चैव तावुभौ
रक्षो हेतिः प्रहेतिश्च यातुधानावुभौ ऋतौ ॥
मधुमाधवयोर्ह्येष गणो वसति भास्करे
वसन्ग्रीष्मे तु द्वौ मासौ मित्रश्च वरुणश्च वै ॥
ऋषी अत्रिर्वसिष्ठश्च नागौ तक्षकरम्भकौ
मेनका सहजन्या च हाहा हूहूश्च गायकौ ॥
रथंतरश्च ग्रामण्यौ रथकृच्चैव तावुभौ
पुरुषादो वधश्चैव यातुधानौ तु तौ स्मृतौ ॥
एते वसन्ति वै सूर्ये मासयोः शुचिशुक्रयोः
ततः सूर्ये पुनश्चान्या निवसन्ति स्म देवताः ॥
इन्द्रश्चैव विवस्वांश्च अङ्गिरा भृगुरेव च
एलापत्त्रस्तथा सर्पः शङ्खपालश्च पन्नगः ॥
विश्वावसुसुषेणौ च प्रातश्चैव रथश्च हि
प्रम्लोचेत्यप्सराश्चैव निम्रोचन्ती च ते उभे ॥
यातुधानस्तथा हेतिर् व्याघ्रश्चैव तु तावुभौ
नभस्यनभसोरेतैर् वसन्तश्च दिवाकरे ॥
मासौ द्वौ देवताः सूर्ये वसन्ति च शरदृतौ
पर्जन्यश्चैव पूषा च भरद्वाजः सगौतमः ॥
चित्रसेनश्च गन्धर्वस् तथा वा सुरुचिश्च यः
विश्वाची च घृताची च उभे ते पुण्यलक्षणे ॥
नागश्चैरावतश्चैव विश्रुतश्च धनंजयः
सेनजिच्च सुषेणश्च सेनानीर् ग्रामणीस् तथा ॥
चारो वातश्च द्वावेतौ यातुधानावुभौ स्मृतौ
वसन्त्येते च वै सूर्ये मासयोश्च त्विषोर्जयोः ॥
हैमन्तिकौ च द्वौ मासौ निवसन्ति दिवाकरे
अंशो भगश्च द्वावेतौ कश्यपश्च क्रतुश्च तौ ॥
भुजंगश्च महापद्मः सर्पः कर्कोटकस्तथा
चित्रसेनश्च गन्धर्वः पूर्णायुश्चैव गायनौ ॥
अप्सराः पूर्वचित्तिश्च गन्धर्वा ह्युर्वशी च या
तार्क्ष्यश्चारिष्टनेमिश्च सेनानीर् ग्रामणीश् च तौ ॥
विद्युत्सूर्यश्च तावुग्रौ यातुधानौ तु तौ स्मृतौ
सहे चैव सहस्ये च वसन्त्येते दिवाकरे ॥
ततस्तु शिशिरे चापि मासयोर्निवसन्ति ते
त्वष्टा विष्णुर्जमदग्निर् विश्वामित्रस्तथैव च ॥
काद्रवेयौ तथा नागौ कम्बलाश्वतरावुभौ
गन्धर्वौ धृतराष्ट्रश्च सूर्यवर्चाश्च तावुभौ ॥
तिलोत्तमाप्सराश्चैव देवी रम्भा मनोरमा
ग्रामणीर् ऋतजिच्चैव सत्यजिच्च महाबलः ॥
ब्रह्मोपेतश्च वै रक्षो यज्ञोपेतस्तथैव च
इत्येते निवसन्ति स्म द्वौ द्वौ मासौ दिवाकरे ॥
स्थानाभिमानिनो ह्येते गणा द्वादश सप्तकाः
सूर्यमापादयन्त्येते तेजसा तेज उत्तमम् ॥
ग्रथितैस्तु वचोभिश्च स्तुवन्ति ऋषयो रविम्
गन्धर्वाप्सरसश्चैव गीतनृत्यैरुपासते ॥
विद्याग्रामणिनो यक्षाः कुर्वन्त्याभीषुसंग्रहम्
सर्पाः सर्पन्ति वै सूर्ये यातुधानानुयान्ति च ॥
वालखिल्या नयन्त्यस्तं परिवार्योदयाद्रविम्
एतेषामेव देवानां यथावीर्यं यथातपः ॥
यथायोगं यथाधर्मं यथातत्त्वं यथाबलम्
तथा तपत्यसौ सूर्यस् तेषामिद्धस्तु तेजसा ॥
भूतानामशुभं सर्वं व्यपोहति स्वतेजसा
मानवानां शुभैर्ह्येतैर् ह्रियते दुरितं तु वै ॥
दुरितं शुभचाराणां व्यपोहन्ति क्वचित्क्वचित्
एते सहैव सूर्येण भ्रमन्ति सानुगा दिवि ॥
तपन्तश्च जपन्तश्च ह्लादयन्तश्च वै प्रजाः
गोपायन्ति स्म भूतानि ईहन्ते ह्यनुकम्पया ॥
स्थानाभिमानिनां ह्येतत् स्थानं मन्वन्तरेषु वै
अतीतानागतानां च वर्तन्ते साम्प्रतं च ये ॥
एवं वसन्ति वै सूर्ये सप्तकास्ते चतुर्दश
चतुर्दशेषु वर्तन्ते गणा मन्वन्तरेषु वै ॥
ग्रीष्मे हिमे च वर्षासु मुञ्चमाना यथाक्रमम्
धर्मं हिमं च वर्षं च यथाक्रममहर्निशम् ॥
गच्छत्यसावनुदिनं परिवृत्य रश्मीन् देवान्पितॄंश्च मनुजांश्च सुतर्पयन्वै
शुक्ले च कृष्णे तदहःक्रमेण कालक्षये चैव सुराः पिबन्ति ॥
मासेन तच्चामृतमस्य मृष्टं सुवृष्टये रश्मिषु रक्षितं तु
सर्वे ऽमृतं तत्पितरः पिबन्ति देवाश्च सौम्याश्च तथैव काव्याः ॥
सूर्येण गोभिर्हि विवर्धिताभिर् अद्भिः पुनश्चैव समुच्छ्रिताभिः
वृष्ट्याभिवृष्टाभिर् अथौषधीभिर् मर्त्या अथान्नेन क्षुधं जयन्ति ॥
तृप्तिश्च तेनार्धमासं सुराणां मासं सुधाभिः स्वधया पितॄणाम्
अन्नेन जीवन्त्यनिशं मनुष्याः सूर्यः श्रितं तद्धि बिभर्ति गोभिः ॥
इत्येष एकचक्रेण सूर्यस्तूर्णं प्रसर्पति
तत्र तैरक्रमैरश्वैः सर्पते ऽसौ दिनक्षये ॥
हरिर् हरिद्भिर् ह्रियते तुरंगमैः पिबत्यथापो हरिभिः सहस्रधा
पुनः प्रमुञ्चत्यथ ताश्च यो हरिः स मुह्यमानो हरिभिस्तुरंगमैः ॥
अहोरात्रं रथेनासाव् एकचक्रेण वै भ्रमन्
सप्तद्वीपसमुद्रांश्च सप्तभिः सप्तभिर्द्रुतम् ॥
छन्दोरूपैश्च तैरश्वैर् युतश्चक्रं ततः स्थितिः
कामरूपैः सकृद्युक्तैः कामगैस्तैर्मनोजवैः ॥
हरितैरव्यथैः पिङ्गैर् ईश्वरैर् ब्रह्मवादिभिः
बाह्यतो ऽनन्तरं चैव मण्डलं दिवसक्रमात् ॥
कल्पादौ सम्प्रयुक्ताश्च वहन्त्याभूतसंप्लवम्
आवृतो वालखिल्यैश्च भ्रमते रात्र्यहानि तु ॥
ग्रथितैः स्ववचोभिश्च स्तूयमानो महर्षिभिः
सेव्यते गीतनृत्यैश्च गन्धर्वाप्सरसां गणैः ॥
पतंगैः पतगैरश्वैर् भ्राम्यमाणो दिवस्पतिः
वीथ्याश्रयाणि चरति नक्षत्राणि तथा शशी ॥
ह्रासवृद्धी तथैवास्य रश्मयः सूर्यवत्स्मृताः
त्रिचक्रोभयतो ऽश्वश्च विज्ञेयः शशिनो रथः ॥
अपां गर्भसमुत्पन्नो रथः साश्वः ससारथिः
सहारैस्तैस्त्रिभिश्चक्रैर् युक्तः शुक्लैर्हयोत्तमैः ॥
दशभिस्तुरगैर्दिव्यैर् असङ्गैस् तन्मनोजवैः
सकृद्युक्ते रथे तस्मिन् वहन्तस्त्वायुगक्षयम् ॥
संगृहीता रथे तस्मिञ् छ्वेतश्चक्षुःश्रवाश्च वै
अश्वास्तमेकवर्णास्ते वहन्ते शङ्खवर्चसः ॥
अजश्च त्रिपथश्चैव वृषो वाजी नरो हयः
अंशुमान् सप्तधातुश्च हंसो व्योममृगस्तथा ॥
इत्येते नामभिश्चैव दश चन्द्रमसो हयाः
एवं चन्द्रमसं देवं वहन्ति स्मायुगक्षयम् ॥
देवैः परिवृतः सोमः पितृभिः सह गच्छति
सोमस्य शुक्लपक्षादौ भास्करे परतः स्थिते ॥
आपूर्यते परो भागः सोमस्य तु अहःक्रमात्
ततः पीतक्षयं सोमं युपगद्व्यापयन् रविः ॥
पीतं पञ्चदशाहं च रश्मिनैकेन भास्करः
आपूरयन्ददौ तेन भागं भागमहःक्रमात् ॥
सुषुम्नाप्ययमानस्य शुक्ले वर्धन्ति वै कलाः
तस्माद्ध्रसन्ति वै कृष्णे शुक्ले ह्याप्याययन्ति च ॥
इत्येवं सूर्यवीर्येण चन्द्रस्याप्यायते तनुः
पौर्णमास्यां प्रदृश्येत शुक्लः सम्पूर्णमण्डलः ॥
एवमाप्यायते सोमः शुक्लपक्षेष्वहःक्रमात्
ततो द्वितीयाप्रभृति बहुलस्य चतुर्दशी ॥
अपां सारमयस्येन्दो रसमात्रात्मकस्य च
पिबन्त्यम्बुमयं देवा मधु सौम्यं तथामृतम् ॥
संभृतं त्वर्धमासेन अमृतं सूर्यतेजसा
भक्षार्थमागतं सोमं पौर्णमास्यामुपासते ॥
एकरात्रं सुराः सार्धं पितृभिरृषिभिश्च वै
सोमस्य कृष्णपक्षादौ भास्कराभिमुखस्य वै ॥
प्रक्षीयते परे ह्यात्मा पीयमानकलाक्रमात्
त्रयश्च त्रिंशता सार्धं त्रयस्त्रिंशच्छतानि तु ॥
त्रयस्त्रिंशत्सहस्राणि देवाः सोमं पिबन्ति वै
इत्येवं पीयमानस्य कृष्णे वर्धन्ति ताः कलाः ॥
क्षीयन्ते च ताः शुक्लाः कृष्णा ह्याप्याययन्ति च
एवं दिनक्रमात्पीते देवैश्चापि निशाकरे ॥
पीत्वार्धमासं गच्छन्ति अमावास्यां सुराश्च ते
पितरश्चोपतिष्ठन्ति अमावास्यां निशाकरम् ॥
ततः पञ्चदशे भागे किंचिच्छेषे निशाकरे
ततो ऽपराह्णे पितरो जघन्यदिवसे पुनः ॥
पिबन्ति द्विकलं कालं शिष्टास्तास्तु कलास्तु याः
विनिःसृष्टं त्वमावास्यां गभस्तिभ्यस्तदामृतम् ॥
अर्धमाससमाप्तौ तु पीत्वा गच्छन्ति ते ऽमृतम्
सौम्या बर्हिषदश्चैव अग्निष्वात्ताश्च ये स्मृताः ॥
काव्याश्चैव तु ये प्रोक्ताः पितरः सर्व एव ते
संवत्सराश्च ये काव्याः पञ्चाब्दा वै द्विजाः स्मृताः ॥
सौम्याः सुतपसो ज्ञेयाः सौम्या बर्हिषदस्तथा
अग्निष्वात्तास् त्रयश्चैव पितृसर्गस्थिता द्विजाः ॥
पितृभिः पीयमानायां पञ्चदश्यां तु वै कलाम्
यावच्च क्षीयते तस्माद् भागः पञ्चदशस्तु सः ॥
अमावास्यां तथा तस्य अन्तरा पूर्यते परः
वृद्धिक्षयौ वै पक्षादौ षोडश्यां शशिनः मृतौ
एवं सूर्यनिमित्ते ते क्षयवृद्धी निशाकरे ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0