भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 125

125.1

एवं श्रुत्वा कथां दिव्याम् अब्रुवंल्लौमहर्षणिम्
सूर्याचन्द्रमसोश् चारं ग्रहाणां चैव सर्वशः ॥

125.2

भ्रमन्ति कथमेतानि ज्योतींषि रविमण्डले
अव्यूहेनैव सर्वाणि तथा चासंकरेण वा ॥

125.3

कश्च भ्रामयते तानि भ्रमन्ति यदि वा स्वयम्
एतद्वेदितुम् इच्छामस् ततो निगद सत्तम ॥

125.4

भूतसंमोहनं ह्येतद् ब्रुवतो मे निबोधत
प्रत्यक्षमपि दृश्यं तत् संमोहयति वै प्रजाः ॥

125.5

यो ऽसौ चतुर्दशर्क्षेषु शिशुमारो व्यवस्थितः
उत्तानपादपुत्रो ऽसौ मेढीभूतो ध्रुवो दिवि ॥

125.6

सैष भ्रमन्भ्रामयते चन्द्रादित्यौ ग्रहैः सह
भ्रमन्तमनुसर्पन्ति नक्षत्राणि च चक्रवत् ॥

125.7

ध्रुवस्य मनसा यो वै भ्रमते ज्योतिषां गणः
वातानीकमयैर् बन्धैर् ध्रुवे बद्धः प्रसर्पति ॥

125.8

तेषां भेदश्च योगश्च तथा कालस्य निश्चयः
अस्तोदयास्तथोत्पाता अयने दक्षिणोत्तरे ॥

125.9

विषुवद्ग्रहवर्णश्च सर्वमेतद्ध्रुवेरितम्
जीमूता नाम ते मेघा यदेभ्यो जीवसम्भवः ॥

125.10

द्वितीय आवहन्वायुर् मेघास्ते त्वभिसंश्रिताः
इतो योजनमात्राच्च अध्यर्धविकृता अपि ॥

125.11

वृष्टिसर्गस्तथा तेषां धारासारः प्रकीर्तितः
पुष्करावर्तका नाम ये मेघाः पक्षसम्भवाः ॥

125.12

शक्रेण पक्षाश्छिन्ना वै पर्वतानां महौजसा
कामगानां समृद्धानां भूतानां नाशमिच्छताम् ॥

125.13

पुष्करा नाम ते पक्षा बृहन्तस्तोयधारिणः
पुष्करावर्तका नाम कारणेनेह शब्दिताः ॥

125.14

नानारूपधराश्चैव महाघोरस्वराश्च ते
कल्पान्तवृष्टिकर्तारः कल्पान्ताग्नेर् नियामकाः ॥

125.15

वाय्वाधारा वहन्ते वै सामृताः कल्पसाधकाः
यान्यस्याण्डस्य भिन्नस्य प्राकृतान्यभवंस्तदा ॥

125.16

यस्मिन् ब्रह्मा समुत्पन्नश् चतुर्वक्त्रः स्वयं प्रभुः
तान्येवाण्डकपालानि सर्वे मेघाः प्रकीर्तिताः ॥

125.17

तेषामाप्यायनं धूमः सर्वेषाम् अविशेषतः
तेषां श्रेष्ठश्च पर्जन्यश् चत्वारश्चैव दिग्गजाः ॥

125.18

गजानां पर्वतानां च मेघानां भोगिभिः सह
कुलमेकं द्विधा भूतं योनिरेका जलं स्मृतम् ॥

125.19

पर्जन्यो दिग्गजाश्चैव हेमन्ते शीतसम्भवम्
तुषारवर्षं वर्षन्ति वृद्धा ह्यन्नविवृद्धये ॥

125.20

षष्ठः परिवहो नाम वायुस्तेषां परायणः
यौ ऽसौ बिभर्ति भगवान् गङ्गामाकाशगोचराम् ॥

125.21

दिव्यामृतजलां पुण्यां त्रिपथामिति विश्रुताम्
तस्या विस्पन्दितं तोयं दिग्गजाः पृथुभिः करैः ॥

125.22

शीकरान् सम्प्रमुञ्चन्ति नीहार इति स स्मृतः
दक्षिणेन गिरिर्यो ऽसौ हेमकूट इति स्मृतः ॥

125.23

उदग्धिमवतः शैलस्य् -ओत्तरे चैव दक्षिणे
पुण्ड्रं नाम समाख्यातं सम्यग्वृष्टिविवृद्धये ॥

125.24

तस्मिन्प्रवर्तते वर्षं तत्तुषारसमुद्भवम्
ततो हिमवतो वायुर् हिमं तत्र समुद्भवम् ॥

125.25

आनयत्यात्मवेगेन सिञ्चयानो महागिरिम्
हिमवन्तमतिक्रम्य वृष्टिशेषं ततः परम् ॥

125.26

इभास्ये च ततः पश्चाद् इदं भूतविवृद्धये
वर्षद्वयं समाख्यातं सम्यग्वृष्टिविवृद्धये ॥

125.27

मेघाश्चाप्यायनं चैव सर्वमेतत्प्रकीर्तितम्
सूर्य एव तु वृष्टीनां स्रष्टा समुपदिश्यते ॥

125.28

वर्षं घर्मं हिमं रात्रिं संध्ये चैव दिनं तथा
शुभाशुभफलानीह ध्रुवात्सर्वं प्रवर्तते ॥

125.29

ध्रुवेणाधिष्ठिताश्चापः सूर्यो वै गृह्य तिष्ठति
सर्वभूतशरीरेषु त्व् आपो ह्यनुश्रिताश्च याः ॥

125.30

दह्यमानेषु तेष्वेव जङ्गमस्थावरेषु च
धूमभूतास्तु ता ह्यापो निष्क्रामन्तीह सर्वशः ॥

125.31

तेन चाभ्राणि जायन्ते स्थानमभ्रमयं स्मृतम्
तेजोभिः सर्वलोकेभ्य आदत्ते रश्मिभिर्जलम् ॥

125.32

समुद्राद्वायुसंयोगाद् वहन्त्यापो गभस्तयः
ततस्त्वृतुवशात्काले परिवर्तन्दिवाकरः ॥

125.33

नियच्छत्यापो मेघेभ्यः शुक्लाः शुक्लैस्तु रश्मिभिः
अभ्रस्थाः प्रपतन्त्यापो वायुना समुदीरिताः ॥

125.34

ततो वर्षति षण्मासान् सर्वभूतविवृद्धये
वायुभिः स्तनितं चैव विद्युतस्त्वग्निजाः स्मृताः ॥

125.35

मेहनाच्च मिहेर् धातोर् मेघत्वं व्यञ्जयन्ति च
न भ्रश्यन्ते ततो ह्यापस् तस्मादभ्रस्य वै स्थितिः
स्रष्टासौ वृष्टिसर्गस्य ध्रुवेणाधिष्ठितो रविः ॥

125.36

ध्रुवेणाधिष्ठितो वायुर् वृष्टिं संहरते पुनः
ग्रहन्निवृत्त्या सूर्यात्तु चरते ऋक्षमण्डलम् ॥

125.37

चारस्यान्ते विशत्यर्कं ध्रुवेण समधिष्ठितम्
अतः सूर्यरथस्यापि संनिवेशं प्रचक्षते ॥

125.38

स्थितेन त्वेकचक्रेण पञ्चारेण त्रिणाभिना
हिरण्मयेनाणुना वै अष्टचक्रैकनेमिना
चक्रेण भास्वता सूर्यः स्यन्दनेन प्रसर्पिणा ॥

125.39

शतयोजनसाहस्रो विस्तारायाम उच्यते
द्विगुणा च रथोपस्थाद् ईषादण्डः प्रमाणतः ॥

125.40

स तस्य ब्रह्मणा सृष्टो रथो ह्यर्थवशेन तु
असङ्गः काञ्चनो दिव्यो युक्तः पवनगैर्हयैः ॥

125.41

छन्दोभिर्वाजिरूपैस्तैर् यथाचक्रं समास्थितैः
वारुणस्य रथस्येह लक्षणैः सदृशश्च सः ॥

125.42

तेनासौ चरति व्योम्नि भास्वाननुदिनं दिवि
अथाङ्गानि तु सूर्यस्य प्रत्यङ्गानि रथस्य च
संवत्सरस्यावयवैः कल्पितानि यथाक्रमम् ॥

125.43

अहर्नाभिस्तु सूर्यस्य एकचक्रस्य वै स्मृतः
अराः संवत्सरास्तस्य नेम्यः षडृतवः स्मृताः ॥

125.44

रात्रिर्वरूथो धर्मश्च ध्वज ऊर्ध्वं व्यवस्थितः
अक्षकोट्योर्युगान्यस्य आर्तवाहाः कलाः स्मृताः ॥

125.45

तस्य काष्ठा स्मृता घोणा दन्तपङ्क्तिः क्षणास्तु वै
निमेषश्चानुकर्षो ऽस्य ईषा चास्य कला स्मृता ॥

125.46

युगाक्षकोटी ते तस्य अर्थकामावुभौ स्मृतौ
सप्ताश्वरूपाश्छन्दांसि वहन्ते वायुरंहसा ॥

125.47

गायत्री चैव त्रिष्टुप्च जगत्यनुष्टुप्तथैव च
पङ्क्तिश्च बृहती चैव उष्णिगेव तु सप्तमम् ॥

125.48

चक्रमक्षे निबद्धं तु ध्रुवे चाक्षः समर्पितः
सहचक्रो भ्रमत्यक्षः सहाक्षो भ्रमति ध्रुवः ॥

125.49

अक्षः सहैव चक्रेण भ्रमते ऽसौ ध्रुवेरितः
एवमर्थवशात्तस्य संनिवेशो रथस्य तु ॥

125.50

तथा संयोगभागेन सिद्धो वै भास्करो रथः
तेनासौ तरणिर्देवो नभसः सर्पते दिवम् ॥

125.51

युगाक्षकोटी ते तस्य दक्षिणे स्यन्दनस्य तु
भ्रमतो भ्रमतो रश्मी तौ चक्रयुगयोस्तु वै ॥

125.52

मण्डलानि भ्रमन्ते ऽस्य खेचरस्य रथस्य तु
कुलालचक्रभ्रमवन् मण्डलं सर्वतोदिशम् ॥

125.53

युगाक्षकोटी ते तस्य वातोर्मी स्यन्दनस्य तु
संक्रमेते ध्रुवमहो मण्डले सर्वतोदिशम् ॥

125.54

भ्रमतस्तस्य रश्मी ते मण्डले तूत्तरायणे
वर्धेते दक्षिणेष्वत्र भ्रमतो मण्डलानि तु ॥

125.55

युगाक्षकोटीसम्बद्धौ द्वौ रश्मी स्यन्दनस्य तु
ध्रुवेण प्रगृहीतौ तौ रथौ यौ वनतो रविम् ॥

125.56

आकृष्येते यदा ते तु ध्रुवेण समधिष्ठिते
तदा सो ऽभ्यन्तरे सूर्यो भ्रमते मण्डलानि तु ॥

125.57

अशीतिमण्डलशतं काष्ठयोरुभयोश्चरन्
ध्रुवेण मुच्यमानेन पुना रश्मियुगेन च ॥

125.58

तथैव बाह्यतः सूर्यो भ्रमते मण्डलानि तु
उद्वेष्टयन्वै वेगेन मण्डलानि तु गच्छति ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc