मत्स्य पुराण · अध्याय 124
अत ऊर्ध्वं प्रवक्ष्यामि सूर्यचन्द्रमसोर्गतिम्
सूर्याचन्द्रमसावेतौ भ्राजन्तौ यावदेव तु ॥
सप्तद्वीपसमुद्राणां द्वीपानां भाति विस्तरः
विस्तरार्धं पृथिव्यास्तु भवेदन्यत्र बाह्यतः ॥
पर्यासपरिमाणं च चन्द्रादित्यौ प्रकाशतः
पर्यासपारिमाण्यात्तु बुधैस्तुल्यं दिवः स्मृतम् ॥
त्रींल्लोकान्प्रति सामान्यात् सूर्यो यात्यविलम्बतः
अचिरात्तु प्रकाशेन अवनात्तु रविः स्मृतः ॥
भूयो भूयः प्रवक्ष्यामि प्रमाणं चन्द्रसूर्ययोः
महितत्वान्महच्छब्दो ह्य् अस्मिन्नर्थे निगद्यते ॥
अस्य भारतवर्षस्य विष्कम्भात्तुल्यविस्तृतम्
मण्डलं भास्करस्याथ योजनैस्तन्निबोधत ॥
नवयोजनसाहस्रो विस्तारो मण्डलस्य तु
विस्तारात्त्रिगुणश्चापि परिणाहो ऽत्र मण्डले ॥
विष्कम्भान्मण्डलाच्चैव भास्कराद्द्विगुणः शशी
अतः पृथिव्या वक्ष्यामि प्रमाणं योजनैः पुनः ॥
सप्तद्वीपसमुद्राया विस्तारो मण्डलस्य तु
इत्येतदिह संख्यातं पुराणे परिमाणतः ॥
तद्वक्ष्यामि प्रसंख्याय साम्प्रतं चाभिमानिभिः
अभिमानिनो ह्यतीता ये तुल्यास्ते साम्प्रतैस्त्विह ॥
देवादेवैर् अतीतास्तु रूपैर्नामभिरेव च
तस्माद्वै साम्प्रतैर्देवैर् वक्ष्यामि वसुधातलम् ॥
दिव्यस्य संनिवेशो वै साम्प्रतैरेव कृत्स्नशः
शतार्धकोटिविस्तारा पृथिवी कृत्स्नशः स्मृता ॥
तस्याश्चार्धप्रमाणं च मेरोश्चैवोत्तरोत्तरम्
मेरोर्मध्ये प्रतिदिशं कोटिरेका तु सा स्मृता ॥
तथा शतसहस्राणाम् एकोननवतिं पुनः
पञ्चाशच्च सहस्राणि पृथिव्यर्धस्य विस्तरः ॥
पृथिव्या विस्तरं कृत्यं योजनैस्तं निबोधत
तिस्रः कोट्यस्तु विस्तारात् संख्यातास्तु चतुर्दिशम् ॥
तथा शतसहस्राणाम् एकोनाशीतिर् उच्यते
सप्तद्वीपसमुद्रायाः पृथिव्याः स तु विस्तरः ॥
विस्तारं त्रिगुणं चैव पृथिव्यन्तरमण्डलम्
गणितं योजनानां तु कोट्यस्त्वेकादश स्मृताः ॥
तथा शतसहस्राणां सप्तत्रिंशाधिकास्तु ताः
इत्येतद्वै प्रसंख्यातं पृथिव्यन्तरमण्डलम् ॥
तारकासंनिवेशस्य दिवि यावत्तु मण्डलम्
पर्याप्तसंनिवेशस्य भूमेस्तावत्तु मण्डलम् ॥
पर्यासपरिमाणं च भूमेस्तुल्यं दिवः स्मृतम्
मेरोः प्राच्यां दिशायां तु मानसोत्तरमूर्धनि ॥
वस्त्वेकसारा माहेन्द्री पुण्या हेमपरिष्कृता
दक्षिणेन पुनर्मेरोर् मानसस्य तु पृष्ठतः ॥
वैवस्वतो निवसति यमः संयमने पुरे
प्रतीच्यां तु पुनर्मेरोर् मानसस्य तु मूर्धनि ॥
सुषा नाम पुरी रम्या वरुणस्यापि धीमतः
दिश्युत्तरस्यां मेरोस्तु मानसस्यैव मूर्धनि ॥
तुल्या महेन्द्रपुर्यापि सोमस्यापि विभावरी
मानसोत्तरपृष्ठे तु लोकपालाश्चतुर्दिशम् ॥
स्थिता धर्मव्यवस्थार्थं लोकसंरक्षणाय च
लोकपालोपरिष्टात्तु सर्वतो दक्षिणायने ॥
काष्ठागतस्य सूर्यस्य गतिस्तत्र निबोधत
दक्षिणोपक्रमे सूर्यः क्षिप्तेषुरिव सर्पति ॥
ज्योतिषां चक्रमादाय सततं परिगच्छति
मध्यगश्चामरावत्यां यदा भवति भास्करः ॥
वैवस्वते संयमने उद्यन्सूर्यः प्रदृश्यते
सुषायामर्धरात्रस्तु विभावर्यास्तम् एति च ॥
वैवस्वते संयमने मध्याह्ने तु रविर्यदा
सुषायामथ वारुण्याम् उत्तिष्ठन्स तु दृश्यते ॥
विभावर्यामर्धरात्रं माहेन्द्र्यामस्तमेव च
सुषायामथ वारुण्यां मध्याह्ने तु रविर्यदा ॥
विभावर्यां सोमपुर्याम् उत्तिष्ठति विभावसुः
महेन्द्रस्यामरावत्याम् उद्गच्छति दिवाकरः ॥
अर्धरात्रं संयमने वारुण्यामस्तमेति च
स शीघ्रमेव पर्येति भानुरालातचक्रवत् ॥
भ्रमन्वै भ्रममाणानि ऋक्षाणि चरते रविः
एवं चतुर्षु पार्श्वेषु दक्षिणान्तेषु सर्पति ॥
उदयास्तमये वासाव् उत्तिष्ठति पुनः पुनः
पूर्वाह्णे चापराह्णे च द्वौ द्वौ देवालयौ तु सः ॥
पतत्येकं तु मध्याह्ने भाभिरेव च रश्मिभिः
उदितो वर्धमानाभिर् मध्याह्ने तपते रविः ॥
अतः परं ह्रसन्तीभिर् गोभिरस्तं स गच्छति
उदयास्तमयाभ्यां च स्मृते पूर्वापरे तु वै ॥
यादृक्पुरस्तात्तपति यादृक्पृष्ठे तु पार्श्वयोः
यत्रोदयस्तु दृश्येत तेषां स उदयः स्मृतः ॥
प्रणाशं गच्छते यत्र तेषामस्तः स उच्यते
सर्वेषामुत्तरे मेरुर् लोकालोकस्य दक्षिणे ॥
विदूरभावादर्कस्य भूमेरेषा गतस्य च
श्रयन्ते रश्मयो यस्मात् तेन रात्रौ न दृश्यते ॥
ऊर्ध्वं शतसहस्रांशुः स्थितस्तत्र प्रदृश्यते
एवं पुष्करमध्ये तु यदा भवति भास्करः ॥
त्रिंशद्भागं च मेदिन्या मुहूर्तेन स गच्छति
योजनानां सहस्रस्य इमां संख्यां निबोधत ॥
पूर्णं शतसहस्राणाम् एकत्रिंशच्च सा स्मृता
पञ्चाशच्च सहस्राणि तथान्यान्यधिकानि च ॥
मौहूर्तिकी गतिर्ह्येषा सूर्यस्य तु विधीयते
एतेन क्रमयोगेण यदा काष्ठां तु दक्षिणाम् ॥
परिगच्छति सूर्यो ऽसौ मासं काष्ठामुदग्दिनात्
मध्येन पुष्करस्याथ भ्रमते दक्षिणायने ॥
मानसोत्तरमेरोस्तु अन्तरं त्रिगुणं स्मृतम्
सर्वतो दक्षिणस्यां तु काष्ठायां तन्निबोधत ॥
नव कोट्यः प्रसंख्याता योजनैः परिमण्डलम्
तथा शतसहस्राणि चत्वारिंशच्च पञ्च च ॥
अहोरात्रात्पतंगस्य गतिरेषा विधीयते
दक्षिणादिङ्निवृत्तो ऽसौ विषुवस्थो यदा रविः ॥
क्षीरोदस्य समुद्रस्योत् तरतो ऽपि दिशं चरन्
मण्डलं विषुवच्चापि योजनैस्तन्निबोधत ॥
तिस्रः कोट्यस्तु सम्पूर्णा विषुवस्यापि मण्डलम्
तथा शतसहस्राणि विंशत्येकाधिकानि तु ॥
श्रावणे चोत्तरां काष्ठां चित्रभानुर्यदा भवेत्
गोमेदस्य परद्वीपे उत्तरां च दिशं चरन् ॥
उत्तरायाः प्रमाणं तु काष्ठाया मण्डलस्य तु
दक्षिणोत्तरमध्यानि तानि विन्द्याद् यथाक्रमम् ॥
स्थानं जरद्गवं मध्ये तथैरावतमुत्तमम्
वैश्वानरं दक्षिणतो निर्दिष्टमिह तत्त्वतः ॥
नागवीथ्युत्तरा वीथी ह्य् अजवीथिस् तु दक्षिणा
उभे आषाढमूलं तु अजवीथ्यादयस् त्रयः ॥
अभिजित्पूर्वतः स्वातिं नागवीथ्युत्तरास् त्रयः
अश्विनी कृत्तिका याम्या नागवीथ्यस् त्रयः स्मृताः ॥
रोहिण्यार्द्रा मृगशिरो नागवीथिर् इति स्मृता
पुष्याश्लेषा पुनर्वस्वोर् वीथी चैरावती स्मृता ॥
तिस्रस्तु वीथयो ह्येता उत्तरो मार्ग उच्यते
पूर्वोत्तरा च फल्गुन्यौ मघा चैवार्षभी भवेत् ॥
पूर्वोत्तरप्रोष्ठपदौ गोवीथी रेवती स्मृता
श्रवणं च धनिष्ठा च वारुणं च जरद्गवम् ॥
एतास्तु वीथयस् तिस्रो मध्यमो मार्ग उच्यते
हस्तश्चित्रा तथा स्वाती ह्य् अजवीथिरिति स्मृता ॥
ज्येष्ठा विशाखा मैत्रं च मृगवीथी तथोच्यते
मूलं पूर्वोत्तराषाढे वीथी वैश्वानरी भवेत् ॥
स्मृतास्तिस्रस्तु वीथ्यस्ता मार्गे वै दक्षिणे पुनः
काष्ठयोरन्तरं चैतद् वक्ष्यते योजनैः पुनः ॥
एतच्छतसहस्राणाम् एकत्रिंशत्तु वै स्मृतम्
शतानि त्रीणि चान्यानि त्रयस्त्रिंशत्तथैव च ॥
काष्ठयोरन्तरं ह्येतद् योजनानां प्रकीर्तितम्
काष्ठयोर्लेखयोश्चैव अयने दक्षिणोत्तरे ॥
ते वक्ष्यामि प्रसंख्याय योजनैस्तु निबोधत
एकैकमन्तरं तद्वद् युक्तान्येतानि सप्तभिः ॥
सहस्रेणातिरिक्ता च ततो ऽन्या पञ्चविंशतिः
लेखयोः काष्ठयोश्चैव बाह्याभ्यन्तरयोश्चरन् ॥
अभ्यन्तरं स पर्येति मण्डलान्युत्तरायणे
बाह्यतो दक्षिणेनैव सततं सूर्यमण्डलम् ॥
चरन्नसावुदीच्यां च ह्य् अशीत्या मण्डलाञ्छतम्
अभ्यन्तरं स पर्येति क्रमते मण्डलानि तु ॥
प्रमाणं मण्डलस्यापि योजनानां निबोधत
योजनानां सहस्राणि दश चाष्टौ तथा स्मृतम् ॥
अधिकान्यष्टपञ्चाशद् योजनानि तु वै पुनः
विष्कम्भो मण्डलस्यैव तिर्यक्स तु विधीयते ॥
अहस्तु चरते नाभेः सूर्यो वै मण्डलं क्रमात्
कुलालचक्रपर्यन्तो यथा चन्द्रो रविस्तथा ॥
दक्षिणे चक्रवत्सूर्यस् तथा शीघ्रं निवर्तते
तस्मात्प्रकृष्टां भूमिं तु कालेनाल्पेन गच्छति ॥
सूर्यो द्वादशभिः शीघ्रं मुहूर्तैर्दक्षिणायने
त्रयोदशार्धमृक्षाणां मध्ये चरति मण्डलम् ॥
मुहूर्तैस्तानि ऋक्षाणि नक्तमष्टादशैश्चरन्
कुलालचक्रमध्यस्थो यथा मन्दं प्रसर्पति ॥
उदग्याने तथा सूर्यः सर्पते मन्दविक्रमः
तस्माद्दीर्घेण कालेन भूमिं सो ऽल्पां प्रसर्पति ॥
सूर्यो ऽष्टादशभिरह्नो मुहूर्तैरुदगायने
त्रयोदशानां मध्ये तु ऋक्षाणां चरते रविः
मुहूर्तैस्तानि ऋक्षाणि रात्रौ द्वादशभिश्चरन् ॥
ततो मन्दतरं ताभ्यां चक्रं तु भ्रमते पुनः
मृत्पिण्ड इव मध्यस्थो भ्रमते ऽसौ ध्रुवस्तथा ॥
मुहूर्तैस्त्रिंशता तावद् अहोरात्रं भुवो भ्रमन्
उभयोः काष्ठयोर्मध्ये भ्रमते मण्डलानि तु ॥
उत्तरक्रमणे ऽर्कस्य दिवा मन्दगतिः स्मृता
तस्यैव तु पुनर्नक्तं शीघ्रा सूर्यस्य वै गतिः ॥
दक्षिणप्रक्रमे वापि दिवा शीघ्रं विधीयते
गतिः सूर्यस्य वै नक्तं मन्दा चापि विधीयते ॥
एवं गतिविशेषेण विभजन्रात्र्यहानि तु
अजवीथ्यां दक्षिणायां लोकालोकस्य चोत्तरम् ॥
लोकसंतानतो ह्येष वैश्वानरपथाद्बहिः
व्युष्टिर्यावत्प्रभा सौरी पुष्करात्सम्प्रवर्तते ॥
पार्श्वेभ्यो बाह्यतस् तावल् लोकालोकश्च पर्वतः
योजनानां सहस्राणि दशोर्ध्वं चोच्छ्रितो गिरिः ॥
प्रकाशश्चाप्रकाशश्च पर्वतः परिमण्डलः
नक्षत्रचन्द्रसूर्याश्च ग्रहास्तारागणैः सह ॥
अभ्यन्तरे प्रकाशन्ते लोकालोकस्य वै गिरेः
एतावानेव लोकस्तु निरालोकस्ततः परम् ॥
लोक आलोकने धातुर् निरालोकस्त्वलोकता
लोकालोकौ तु संधत्ते यस्मात्सूर्यः परिभ्रमन् ॥
तस्मात्संध्येति तामाहुर् उषाव्युष्टैर्यथान्तरम्
उषा रात्रिः स्मृता विप्रैर् व्युष्टिश्चापि अहः स्मृतम् ॥
त्रिंशत्कलो मुहूर्तस्तु अहस्ते दश पञ्च च
ह्रासो वृद्धिरहर्भागैर् दिवसानां यथा तु वै ॥
संध्यामुहूर्तमात्रायां ह्रासवृद्धी तु ते ऋते
लेखाप्रभृत्यथादित्ये त्रिमुहूर्तागते तु वै ॥
प्रातः स्मृतस्ततः कालो भागांश्चाहुश्च पञ्च च
तस्मात्प्रातर्गतात्कालान् मुहूर्ताः संगवस् त्रयः ॥
मध्याह्नस्त्रिमुहूर्तस्तु तस्मात्कालादनन्तरम्
तस्मान्मध्यंदिनात्कालाद् अपराह्ण इति स्मृतः ॥
त्रय एव मुहूर्तास्तु काल एष स्मृतो बुधैः
अपराह्णव्यतीताच्च कालः सायं स उच्यते ॥
दश पञ्च मुहूर्ताह्नो मुहूर्तास् त्रय एव च
दशपञ्चमुहूर्तं वै अहस्तु विषुवे स्मृतम् ॥
वर्धत्यतो ह्रसत्येव अयने दक्षिणोत्तरे
अहस्तु ग्रसते रात्रिं रात्रिस्तु ग्रसते अहः ॥
शरद्वसन्तयोर्मध्यं विषुवं तु विधीयते
आलोकान्तः स्मृतो लोको लोकाच्चालोक उच्यते ॥
लोकपालाः स्थितास्तत्र लोकालोकस्य मध्यतः
चत्वारस्ते महात्मानस् तिष्ठन्त्याभूतसंप्लवम् ॥
सुधामा चैव वैराजः कर्दमश्च प्रजापतिः
हिरण्यरोमा पर्जन्यः केतुमान्राजसश्च सः ॥
निर्द्वंद्वा निरभीमाना निस्तन्द्रा निष्परिग्रहाः
लोकपालाः स्थितास्त्वेते लोकालोके चतुर्दिशम् ॥
उत्तरं यदगस्त्यस्य शृङ्गं देवर्षिसेवितम्
पितृयानः स्मृतः पन्था वैश्वानरपथाद्बहिः ॥
तत्रासते प्रजाकामा ऋषयो ये ऽग्निहोत्रिणः
लोकस्य संतानकराः पितृयाने पथि स्थिताः ॥
भूतारम्भकृतं कर्म आशिषश्च विशां पते
प्रारभन्ते लोककामास् तेषां पन्थाः स दक्षिणः ॥
चलितं ते पुनर्धर्मं स्थापयन्ति युगे युगे
संतप्ततपसा चैव मर्यादाभिः श्रुतेन च ॥
जायमानास्तु पूर्वे वै पश्चिमानां गृहेषु ते
पश्चिमाश्चैव पूर्वेषां जायन्ते निधनेष्विह ॥
एवमावर्तमानास्ते वर्तन्त्याभूतसंप्लवम्
अष्टाशीतिसहस्राणि ऋषीणां गृहमेधिनाम् ॥
सवितुर्दक्षिणं मार्गम् आश्रित्याभूतसंप्लवम्
क्रियावतां प्रसंख्यैषा ये श्मशानानि भेजिरे ॥
लोकसंव्यवहारार्थं भूतारम्भकृतेन च
इच्छाद्वेषरताच्चैव मैथुनोपगमाच्च वै ॥
तथा कामकृतेनेह सेवनाद्विषयस्य च
इत्येतैः कारणैः सिद्धाः श्मशानानीह भेजिरे ॥
प्रजौषणिः सप्तर्षयो द्वापरेष्विह जज्ञिरे
संततिं ते जुगुप्सन्ते तस्मान्मृत्युर्जितस्तु तैः ॥
अष्टाशीतिसहस्राणि तेषामप्यूर्ध्वरेतसाम्
उदक्पन्था न पर्यन्तम् आश्रित्याभूतसंप्लवम् ॥
ते संप्रयोगाल्लोकस्य मिथुनस्य च वर्जनात्
ईर्ष्याद्वेषनिवृत्त्या च भूतारम्भविवर्जनात् ॥
ततो ऽन्यकामसंयोग शब्दादेर् दोषदर्शनात्
इत्येतैः कारणैः शुद्धैस् ते ऽमृतत्वं हि भेजिरे ॥
आभूतसम्प्लवस्थानाम् अमृतत्वं विभाव्यते
त्रैलोक्यस्थितिकालो हि न पुनर्मारगामिणाम् ॥
भ्रूणहत्याश्वमेधादि पापपुण्यनिभैः परम्
आभूतसम्प्लवान्ते तु क्षीयन्ते चोर्ध्वरेतसः ॥
ऊर्ध्वोत्तरमृषिभ्यस्तु ध्रुवो यत्रानुसंस्थितः
एतद्विष्णुपदं दिव्यं तृतीयं व्योम्नि भास्वरम् ॥
यत्र गत्वा न शोचन्ति तद्विष्णोः परमं पदम्
धर्मे ध्रुवस्य तिष्ठन्ति ये तु लोकस्य काङ्क्षिणः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0