भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 123

123.1

गोमेदकं प्रवक्ष्यामि षष्ठं द्वीपं तपोधनाः
सुरोदकसमुद्रस्तु गोमेदेन समावृतः ॥

123.2

शाल्मलस्य तु विस्ताराद् द्विगुणस्तस्य विस्तरः
तस्मिन्द्वीपे तु विज्ञेयौ पर्वतौ द्वौ समाहितौ ॥

123.3

प्रथमः सुमना नाम जात्यञ्जनमयो गिरिः
द्वितीयः कुमुदो नाम सर्वौषधिसमन्वितः ॥

123.4

शातकौम्भमयः श्रीमान् विज्ञेयः सुमहाचितः
समुद्रेक्षुरसोदेन वृतो गोमेदकश्च सः ॥

123.5

षष्ठेन तु समुद्रेण सुरोदाद्द्विगुणेन च
धातकीकुमुदश्चैव हव्यपुत्रौ सुविस्तृतौ ॥

123.6

सौमनं प्रथमं वर्षं धातकीखण्डमुच्यते
धातकिनः स्मृतं तद्वै प्रथमं प्रथमस्य तु ॥

123.7

गोमेदं यत्स्मृतं वर्षं नाम्ना सर्वसुखं तु तत्
कुमुदस्य द्वितीयस्य द्वितीयं कुमुदं ततः ॥

123.8

एतौ द्वौ पर्वतौ वृत्तौ शेषौ सर्वसमुच्छ्रितौ
पूर्वेण तस्य द्वीपस्य सुमनाः पर्वतः स्थितः ॥

123.9

प्राक्पश्चिमायतैः पादैर् आसमुद्रादिति स्थितः
पश्चार्धे कुमुदस्तस्य एवमेव स्थितस्तु वै ॥

123.10

एतैः पर्वतपादैस्तु स देशो वै द्विधाकृतः
दक्षिणार्धं तु द्वीपस्य धातकीखण्डमुच्यते ॥

123.11

कुमुदं तूत्तरे तस्य द्वितीयं वर्षमुत्तमम्
एतौ जनपदौ द्वौ तु गोमेदस्य तु विस्तृतौ ॥

123.12

अतः परं प्रवक्ष्यामि सप्तमं द्वीपमुत्तमम्
समुद्रेक्षुरसं चैव गोमेदाद्द्विगुणं हि सः ॥

123.13

आवृत्य तिष्ठति द्वीपः पुष्करः पुष्करैर्वृतः
पुष्करेण वृतः श्रीमांश् चित्रसानुमहागिरिः ॥

123.14

कूटैश्चित्रैर्मणिमयैः शिलाजालसमुद्भवैः
द्वीपस्यैव तु पूर्वार्धे चित्रसानुः स्थितो महान् ॥

123.15

परिमण्डलसहस्राणि विस्तीर्णः सप्तविंशतिः
ऊर्ध्वं स वै चतुर्विंशद् योजनानां महाबलः ॥

123.16

द्वीपार्धस्य परिक्षिप्तः पश्चिमे मानसो गिरिः
स्थितो वेलासमीपे तु पूर्वचन्द्र इवोदितः ॥

123.17

योजनानां सहस्राणि सार्धं पञ्चाशदुच्छ्रितः
तस्य पुत्रो महावीतः पश्चिमार्धस्य रक्षिता ॥

123.18

पूर्वार्धे पर्वतस्यापि द्विधा देशस्तु स स्मृतः
स्वादूदकेनोदधिना पुष्करः परिवारितः ॥

123.19

विस्तारान्मण्डलाच्चैव गोमेदाद्द्विगुणेन तु
त्रिंशद्वर्षसहस्राणि तेषु जीवन्ति मानवाः ॥

123.20

विपर्ययो न तेष्वस्ति एतत्स्वाभाविकं स्मृतम्
आरोग्यं सुखबाहुल्यं मानसीं सिद्धिमास्थिताः ॥

123.21

सुखमायुश्च रूपं च त्रिषु द्वीपेषु सर्वशः
अधमोत्तमौ न तेष्वास्तां तुल्यास्ते वीर्यरूपतः ॥

123.22

न तत्र वध्यवधकौ नेर्ष्यासूया भयं तथा
न लोभो न च दम्भो वा न च द्वेषः परिग्रहः ॥

123.23

सत्यानृते न तेष्वास्तां धर्माधर्मौ तथैव च
वर्णाश्रमाणां वार्त्ता च पाशुपाल्यं वणिक्कृषिः ॥

123.24

त्रयीविद्या दण्डनीतिः शुश्रूषा दण्ड एव च
न तत्र वर्षं नद्यो वा शीतोष्णं च न विद्यते ॥

123.25

उद्भिदान्युदकानि स्युर् गिरिप्रस्रवणानि च
तुल्योत्तरकुरूणां तु कालस्तत्र तु सर्वदा ॥

123.26

सर्वतः सुखकालो ऽसौ जराक्लेशविवर्जितः
सर्गस्तु धातकीखण्डे महावीते तथैव च ॥

123.27

एवं द्वीपाः समुद्रैस्तु सप्त सप्तभिरावृताः
द्वीपस्यानन्तरो यस्तु समुद्रस्तत्समस्तु वै ॥

123.28

एवं द्वीपसमुद्राणां वृद्धिर्ज्ञेया परस्परम्
अपां चैव समुद्रेकात् समुद्र इति संज्ञितः ॥

123.29

ऋषद्वसन्त्यो वर्षेषु प्रजा यत्र चतुर्विधाः
ऋषिरत्येव रमणे वर्षन्त्वेतेन तेषु वै ॥

123.30

उदयतीन्दौ पूर्वे तु समुद्रः पूर्यते सदा
प्रक्षीयमाने बहुले क्षीयते ऽस्तमिते च वै ॥

123.31

आपूर्यमाणो ह्युदधिर् आत्मनैवाभिपूर्यते
ततो वै क्षीयमाणे तु स्वात्मन्येव ह्य् अपां क्षयः ॥

123.32

उदयात्पयसां योगात् पुष्पन्त्य् आपो यथा स्वयम्
तथा स तु समुद्रो ऽपि वर्धते शशिनोदये ॥

123.33

अन्यूनानतिरिक्तात्मा वर्धन्त्यापो ह्रसन्ति च
उदये ऽस्तमये चेन्दोः पक्षयोः शुक्लकृष्णयोः ॥

123.34

क्षयवृद्धी समुद्रस्य शशिवृद्धिक्षये तथा
दशोत्तराणि पञ्चाहुर् अङ्गुलानां शतानि च ॥

123.35

अपां वृद्धिः क्षयो दृष्टः समुद्राणां तु पर्वसु
द्विरापत्वात् स्मृतो द्वीपो दधनाच्चोदधिः स्मृतः ॥

123.36

निगीर्णत्वाच्च गिरयः पर्वबन्धाच्च पर्वताः
शाकद्वीपे तु वै शाकः पर्वतस्तेन चोच्यते ॥

123.37

कुशद्वीपे कुशस्तम्बो मध्ये जनपदस्य तु
क्रौञ्चद्वीपे गिरिः क्रौञ्चस् तस्य नाम्ना निगद्यते ॥

123.38

शाल्मलिः शाल्मलद्वीपे पूज्यते स महाद्रुमः
गोमेदके तु गोमेदः पर्वतस्तेन चोच्यते ॥

123.39

न्यग्रोधः पुष्करद्वीपे पद्मवत्तेन स स्मृतः
पूज्यते स महादेवैर् ब्रह्मांशो ऽव्यक्तसम्भवः ॥

123.40

तस्मिन्स वसति ब्रह्मा साध्यैः सार्धं प्रजापतिः
तत्र देवा उपासन्ते त्रयस्त्रिंशन्महर्षिभिः ॥

123.41

स तत्र पूज्यते देवो देवैर्महर्षिसत्तमैः
जम्बूद्वीपात्प्रवर्तन्ते रत्नानि विविधानि च ॥

123.42

द्वीपेषु तेषु सर्वेषु प्रजानां क्रमशस्तु वै
आर्जवाद्ब्रह्मचर्येण सत्येन च दमेन च ॥

123.43

आरोग्यायुःप्रमाणाभ्यां द्विगुणं द्विगुणं ततः
द्वीपेषु तेषु सर्वेषु यथोक्तं वर्षकेषु च ॥

123.44

गोपायन्ते प्रजास्तत्र सर्वैः सहजपण्डितैः
भोजनं चाप्रयत्नेन सदा स्वयमुपस्थितम् ॥

123.45

षड्रसं तन्महावीर्यं तत्र ते भुञ्जते जनाः
परेण पुष्करस्याथ आवृत्यावस्थितो महान् ॥

123.46

स्वादूदकसमुद्रस्तु स समन्ताद् अवेष्टयत्
स्वादूदकस्य परितः शैलस्तु परिमण्डलः ॥

123.47

प्रकाशश्चाप्रकाशश्च लोकालोकः स उच्यते
आलोकस्तत्र चार्वाक्च निरालोकस्ततः परम् ॥

123.48

लोकविस्तारमात्रं तु पृथिव्यर्धं तु बाह्यतः
प्रतिच्छिन्नं समन्तात्तु उदकेनावृतं महत् ॥

123.49

भूमेर्दशगुणाश्चापः समन्तात्पालयन्ति गाम्
अद्भ्यो दशगुणश्चाग्निः सर्वतो धारयत्य् अपः ॥

123.50

अग्नेर्दशगुणो वायुर् धारयञ्ज्योतिरास्थितः
तिर्यक्च मण्डलो वायुर् भूतान्यावेष्ट्य धारयन् ॥

123.51

दशाधिकं तथाकाशं वायोर्भूतान्यधारयत्
भूतादिर्धारयन्व्योम तस्माद्दशगुणस्तु वै ॥

123.52

भूतादितो दशगुणं महद्भूतान्यधारयत्
महत्तत्त्वं ह्यनन्तेन अव्यक्तेन तु धार्यते ॥

123.53

आधाराधेयभावेन विकारास्ते विकारिणाम्
पृथ्व्यादयो विकारास्ते परिच्छिन्नाः परस्परम् ॥

123.54

परस्पराधिकाश्चैव प्रविष्टाश्च परस्परम्
एवं परस्परोत्पन्ना धार्यन्ते च परस्परम् ॥

123.55

यस्मात्प्रविष्टास्ते ऽन्योन्यं तस्मात्ते स्थिरतां गताः
आसंस्ते ह्यविशेषाश्च विशेषा अन्यवेशनात् ॥

123.56

पृथ्व्यादयस्तु वाय्वन्ताः परिच्छिन्नास्तु तत्र ते
भूतेभ्यः परतस् तेभ्यो ह्य् अलोकः सर्वतः स्मृतः ॥

123.57

तथा ह्यालोक आकाशे परिच्छिन्नानि सर्वशः
पात्रे महति पात्राणि यथा ह्यन्तर्गतानि च ॥

123.58

भवन्त्यन्योन्यहीनानि परस्परसमाश्रयात्
तथा ह्यालोक आकाशे भेदास्त्वन्तर्गतागताः ॥

123.59

कृतान्येतानि तत्त्वानि अन्योन्यस्याधिकानि च
यावदेतानि तत्त्वानि तावदुत्पत्तिरुच्यते ॥

123.60

जन्तूनामिह संस्कारो भूतेष्वन्तर्गतेषु वै
प्रत्याख्यायेह भूतानि कार्योत्पत्तिर् न विद्यते ॥

123.61

तस्मात्परिमिता भेदाः स्मृताः कार्यात्मकास्तु वै
ते कारणात्मकाश्चैव स्युर्भेदा महदादयः ॥

123.62

इत्येवं संनिवेशो ऽयं पृथ्व्याक्रान्तस्तु भागशः
सप्तद्वीपसमुद्राणां याथातथ्येन वै मया ॥

123.63

विस्तारान्मण्डलाच्चैव प्रसंख्यानेन चैव हि
विश्वरूपं प्रधानस्य परिमाणैकदेशिनः ॥

123.64

एतावत्संनिवेशस्तु मया सम्यक्प्रकाशितः
एतावदेव श्रोतव्यं संनिवेशस्य पार्थिव ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc