मत्स्य पुराण · अध्याय 122
शाकद्वीपस्य वक्ष्यामि यथावदिह निश्चयम्
कथ्यमानं निबोध त्वं शाकं द्वीपं द्विजोत्तमाः ॥
जम्बूद्वीपस्य विस्ताराद् द्विगुणस्तस्य विस्तरः
विस्तारात्त्रिगुणश्चापि परिणाहः समन्ततः ॥
तेनावृतः समुद्रो ऽयं द्वीपेन लवणोदधिः
तत्र पुण्या जनपदाश् चिराच्च म्रियते जनः ॥
कुत एव च दुर्भिक्षं क्षमातेजोयुतेष्विह
तत्रापि पर्वताः शुभ्राः सप्तैव मणिभूषिताः ॥
शाकद्वीपादिषु त्वेषु सप्त सप्त नगास् त्रिषु
ऋज्वायताः प्रतिदिशं निविष्टा वर्षपर्वताः ॥
रत्नाकरादिनामानः सानुमन्तो महाचिताः
समोदिताः प्रतिदिशं द्वीपविस्तारमानतः ॥
उभयत्रावगाढौ च लवणक्षीरसागरौ
शाकद्वीपे तु वक्ष्यामि सप्त दिव्यान्महाचलान् ॥
देवर्षिगन्धर्वयुतः प्रथमो मेरुरुच्यते
प्रागायतः स सौवर्ण उदयो नाम पर्वतः ॥
तत्र मेघास्तु वृष्ट्यर्थं प्रभवन्त्यपयान्ति च
तस्यापरेण सुमहाञ् जलधारो महागिरिः ॥
स वै चन्द्रः समाख्यातः सर्वौषधिसमन्वितः
तस्मान्नित्यमुपादत्ते वासवः परमं जलम् ॥
नारदो नाम चैवोक्तो दुर्गशैलो महाचितः
तत्राचलौ समुत्पन्नौ पूर्वं नारदपर्वतौ ॥
तस्यापरेण सुमहाञ् श्यामो नाम महागिरिः
यत्र श्यामत्वमापन्नाः प्रजाः पूर्वमिमाः किल ॥
स एव दुन्दुभिर्नाम श्यामपर्वतसंनिभः
शब्दमृत्युः पुरा तस्मिन् दुन्दुभिस्ताडितः सुरैः ॥
रत्नमालान्तरमयः शाल्मलश्चान्तरालकृत्
तस्यापरेण रजतो महानस्तो गिरिः स्मृतः ॥
स वै सोमक इत्युक्तो देवैर्यत्रामृतं पुरा
संभृतं च हृतं चैव मातुरर्थे गरुत्मता ॥
तस्यापरे चाम्बिकेयः सुमनाश्चैव स स्मृतः
हिरण्याक्षो वराहेण तस्मिञ्छैले निषूदितः ॥
आम्बिकेयात्परो रम्यः सर्वौषधिनिषेवितः
विभ्राजस्तु समाख्यातः स्फाटिकस्तु महान्गिरिः ॥
यस्माद्विभ्राजते वह्निर् विभ्राजस्तेन स स्मृतः
सैवेह केशवेत्युक्तो यतो वायुः प्रवाति च ॥
तेषां वर्षाणि वक्ष्यामि पर्वतानां द्विजोत्तमाः
शृणुध्वं नामतस्तानि यथावदनुपूर्वशः ॥
द्विनामान्येव वर्षाणि यथैव गिरयस्तथा
उदयस्योदयं वर्षं जलधारेति विश्रुतम् ॥
नाम्ना गतभयं नाम वर्षं तत्प्रथमं स्मृतम्
द्वितीयं जलधारस्य सुकुमारमिति स्मृतम् ॥
तदेव शैशिरं नाम वर्षं तत्परिकीर्तितम्
नारदस्य च कौमारं तदेव च सुखोदयम् ॥
श्यामपर्वतवर्षं तद् अनीचकम् इति स्मृतम्
आनन्दकमिति प्रोक्तं तदेव मुनिभिः शुभम् ॥
सोमकस्य शुभं वर्षं विज्ञेयं कुसुमोत्करम्
तदेवासितम् इत्युक्तं वर्षं सोमकसंज्ञितम् ॥
आम्बिकेयस्य मैनाकं क्षेमकं चैव तत्कृतम्
केसरः पर्वतस्यापि महाद्रुममिति स्मृतम्
तदेव धवमित्युक्तं वर्षं विभ्राजसंज्ञितम् ॥
द्वीपस्य परिणाहं च ह्रस्वदीर्घत्वमेव च
जम्बूद्वीपेन संख्यातं तस्य मध्ये वनस्पतिः ॥
शाको नाम महावृक्षः प्रजास्तस्य महानुगाः
एतेषु देवगन्धर्वाः सिद्धाश्च सह चारणैः ॥
विहरन्ति रमन्ते च दृश्यमानाश्च तैः सह
तत्र पुण्या जनपदाश् चातुर्वर्ण्यसमन्विताः ॥
तेषु नद्यश्च सप्तैव प्रतिवर्षं समुद्रगाः
द्विनाम्ना चैव ताः सर्वा गङ्गाः सप्तविधाः स्मृताः ॥
प्रथमा सुकुमारीति गङ्गा शिवजला शुभा
मुनितप्ता च नाम्नैषा नदी सम्परिकीर्तिता ॥
सुकुमारी तपःसिद्धा द्वितीया नामतः सती
नन्दा च पावनी चैव तृतीया परिकीर्तिता ॥
शिबिका च चतुर्थी स्याद् द्विविधा च पुनः स्मृता
इक्षुश्च पञ्चमी ज्ञेया तथैव च पुनः कुहूः ॥
वेणुका चामृता चैव षष्ठी सम्परिकीर्तिता
सुकृता च गभस्ती च सप्तमी परिकीर्तिता ॥
एताः सप्त महाभागाः प्रतिवर्षं शिवोदकाः
भावयन्ति जनं सर्वं शाकद्वीपनिवासिनम् ॥
अभिगच्छन्ति ताश्चान्या नदा नद्यः सरांसि च
बहूदकपरिस्रावा यतो वर्षति वासवः ॥
तासां तु नामधेयानि परिमाणं तथैव च
न शक्यं परिसंख्यातुं पुण्यास्ताः सरिदुत्तमाः ॥
ताः पिबन्ति सदा हृष्टा नदीर्जनपदास्तु ते
एते शान्तभयाः प्रोक्ताः प्रमोदा ये च वै शिवाः ॥
आनन्दाश्च सुखाश्चैव क्षेमकाश्च नवैः सह
वर्णाश्रमाचारयुता देशास्ते सप्त विश्रुताः ॥
आरोग्या बलिनश्चैव सर्वे मरणवर्जिताः
अवसर्पिणी न तेष्वस्ति तथैवोत्सर्पिणी पुनः ॥
न तत्रास्ति युगावस्था चतुर्युगकृता क्वचित्
त्रेतायुगसमः कालस् तथा तत्र प्रवर्तते ॥
शाकद्वीपादिषु ज्ञेयं पञ्चस्वेतेषु सर्वशः
देशस्य तु विचारेण कालः स्वाभाविकः स्मृतः ॥
न तेषु संकरः कश्चिद् वर्णाश्रमकृतः क्वचित्
धर्मस्य चाव्यभीचाराद् एकान्तसुखिनः प्रजाः ॥
न तेषु माया लोभो वा ईर्ष्यासूया भयं कुतः
विपर्ययो न तेष्वस्ति तद्वै स्वाभाविकं स्मृतम् ॥
कालो नैव च तेष्वस्ति न दण्डो न च दाण्डिकः
स्वधर्मेण च धर्मज्ञास् ते रक्षन्ति परस्परम् ॥
परिमण्डलस्तु सुमहान् द्वीपो वै कुशसंज्ञकः
नदीजलैः परिवृतः पर्वतश्चाभ्रसंनिभैः ॥
सर्वधातुविचित्रैश्च मणिविद्रुमभूषितैः
अन्यैश्च विविधाकारै रम्यैर्जनपदैस्तथा ॥
वृक्षैः पुष्पफलोपेतैः सर्वतो धनधान्यवान्
नित्यं पुष्पफलोपेतः सर्वरत्नसमावृतः ॥
आवृतः पशुभिः सर्वैर् ग्राम्यारण्यैश्च सर्वशः
आनुपूर्व्यात्समासेन कुशद्वीपं निबोधत ॥
अथ तृतीयं वक्ष्यामि कुशद्वीपं च कृत्स्नशः
कुशद्वीपेन क्षीरोदः सर्वतः परिवारितः ॥
शाकद्वीपस्य विस्ताराद् द्विगुणेन समन्वितः
तत्रापि पर्वताः सप्त विज्ञेया रत्नयोनयः ॥
रत्नाकरास्तथा नद्यस् तेषां नामानि मे शृणु
द्विनामानश्च ते सर्वे शाकद्वीपे यथा तथा ॥
प्रथमः सूर्यसंकाशः कुमुदो नाम पर्वतः
विद्रुमोच्चय इत्युक्तः स एव च महीधरः ॥
सर्वधातुमयैः शृङ्गैः शिलाजालसमन्वितैः
द्वितीयः पर्वतस्तत्र उन्नतो नाम विश्रुतः ॥
हेमपर्वत इत्युक्तः स एव च महीधरः
हरितालमयैः शृङ्गैर् द्वीपमावृत्य सर्वशः ॥
बलाहकस्तृतीयस्तु जात्यञ्जनमयो गिरिः
द्युतिमान्नामतः प्रोक्तः स एव च महीधरः ॥
चतुर्थः पर्वतो द्रोणो यत्रौषध्यो महागिरौ
विशल्यकरणी चैव मृतसंजीवनी तथा ॥
पुष्पवान्नाम सैवोक्तः पर्वतः सुमहाचितः
कङ्कस्तु पञ्चमस्तेषां पर्वतो नाम सारवान् ॥
कुशेशय इति प्रोक्तः पुनः स पृथिवीधरः
दिव्यपुष्पफलोपेतो दिव्यविरुत्समन्वितः ॥
षष्ठस्तु पर्वतस्तत्र महिषो मेघसंनिभः
स एव तु पुनः प्रोक्तो हरिरित्यभिविश्रुतः ॥
तस्मिन्सो ऽग्निर्निवसति महिषो नाम यो ऽप्सुजः
सप्तमः पर्वतस्तत्र ककुद्मान्स हि भाषते ॥
मन्दरः सैव विज्ञेयः सर्वधातुमयः शुभः
मन्द इत्येष यो धातुर् अपामर्थे प्रकाशकः ॥
अपां विदारणाच्चैव मन्दरः स निगद्यते
तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः ॥
प्रजापतिमुपादाय प्रजाभ्यो विदधत्स्वयम्
तेषामन्तरविष्कम्भो द्विगुणः समुदाहृतः ॥
इत्येते पर्वताः सप्त कुशद्वीपे प्रभाषिताः
तेषां वर्षाणि वक्ष्यामि सप्तैव तु विभागशः ॥
कुमुदस्य स्मृतः श्वेत उन्नतश्चेव स स्मृतः
उन्नतस्य तु विज्ञेयं वर्षं लोहितसंज्ञकम् ॥
वेणुमण्डलकं चैव तथैव परिकीर्तितम्
बलाहकस्य जीमूतः स्वैरथाकारमित्यपि ॥
द्रोणस्य हरिकं नाम लवणं च पुनः स्मृतम्
कङ्कस्यापि ककुन् नाम धृतिमच्चैव तत्स्मृतम् ॥
महिषं महिषस्यापि पुनश्चापि प्रभाकरम्
ककुद्मिनस्तु तद्वर्षं कपिलं नाम विश्रुतम् ॥
एतान्यपि विशिष्टानि सप्त सप्त पृथक्पृथक्
वर्षाणि पर्वताश्चैव नदीस्तेषु निबोधत ॥
तत्रापि नद्यः सप्तैव प्रतिवर्षं हि ताः स्मृताः
द्विनामवत्यस्ताः सर्वाः सर्वाः पुण्यजलाः स्मृताः ॥
धूतपापा नदी नाम योनिश्चैव पुनः स्मृता
सीता द्वितीया विज्ञेया सा चैव हि निशा स्मृता ॥
पवित्रा तृतीया विज्ञेया वितृष्णापि च या पुनः
चतुर्थी ह्लादिनीत्युक्ता चन्द्रभा इति च स्मृता ॥
विद्युच्च पञ्चमी प्रोक्ता शुक्ला चैव विभाव्यते
पुण्ड्रा षष्ठी तु विज्ञेया पुनश्चैव विभावरी ॥
महती सप्तमी प्रोक्ता पुनश्चैषा धृतिः स्मृता
अन्यास्ताभ्यो ऽपि संजाताः शतशो ऽथ सहस्रशः ॥
अभिगच्छन्ति ता नद्यो यतो वर्षति वासवः
इत्येष संनिवेशो वः कुशद्वीपस्य वर्णितः ॥
शाकद्वीपेन विस्तारः प्रोक्तस्तस्य सनातनः
कुशद्वीपः समुद्रेण घृतमण्डोदकेन च ॥
सर्वतः सुमहान्द्वीपश् चन्द्रवत्परिवेष्टितः
विस्तारान्मण्डलाच्चैव क्षीरोदाद्द्विगुणो मतः ॥
ततः परं प्रवक्ष्यामि क्रौञ्चद्वीपं यथा तथा
कुशद्वीपस्य विस्ताराद् द्विगुणस्तस्य विस्तरः ॥
घृतोदकः समुद्रो वै क्रौञ्चद्वीपेन संवृतः
चक्रनेमिप्रमाणेन वृतो वृत्तेन सर्वशः ॥
तस्मिन्द्वीपे नगाः श्रेष्ठा देवनो गिरिरुच्यते
देवनात्परतश्चापि गोविन्दो नाम पर्वतः ॥
गोविन्दात्परतश्चापि क्रौञ्चस्तु प्रथमो गिरिः
क्रौञ्चात्परे पावनकः पावनादन्धकारकः ॥
अन्धकारात्परे चापि देवावृन् नाम पर्वतः
देवावृतः परेणापि पुण्डरीको महान्गिरिः ॥
एते रत्नमयाः सप्त क्रौञ्चद्वीपस्य पर्वताः
परस्परस्य द्विगुणो विष्कम्भो वर्षपर्वतः ॥
वर्षाणि तस्य वक्ष्यामि नामतस्तु निबोधत
क्रौञ्चस्य कुशलो देशो वामनस्य मनोनुगः ॥
मनोनुगात्परे चोष्णास् तृतीयो ऽपि स उच्यते
उष्णात्परे पावनकः पावनादन्धकारकः ॥
अन्धकारकदेशात्तु मुनिदेशस्तथा परः
मुनिदेशात्परे चापि प्रोच्यते दुन्दुभिस्वनः ॥
सिद्धचारणसंकीर्णो गौरप्रायः शुचिर्जनः
श्रुतास्तत्रैव नद्यस्तु प्रतिवर्षं गताः शुभाः ॥
गौरी कुमुद्वती चैव संध्या रात्रिर्मनोजवा
ख्याती च पुण्डरीका च गङ्गा सप्तविधा स्मृता ॥
तासां सहस्रशश्चान्या नद्यः पार्श्वसमीपगाः
अभिगच्छन्ति ता नद्यो बहुलाश्च बहूदकाः ॥
तेषां निसर्गो देशानाम् आनुपूर्व्येण सर्वशः
न शक्यो विस्तराद्वक्तुम् अपि वर्षशतैरपि ॥
सर्गो यश्च प्रजानां तु संहारो यश्च तेषु वै
अत ऊर्ध्वं प्रवक्ष्यामि शाल्मलस्य निबोधत ॥
शाल्मलो द्विगुणो द्वीपः क्रौञ्चद्वीपस्य विस्तरात्
परिवार्य समुद्रं तु दधिमण्डोदकं स्थितः ॥
तत्र पुण्या जनपदाश् चिराच्च म्रियते जनः
कुत एव तु दुर्भिक्षं क्षमातेजोयुता हि ते ॥
प्रथमः सूर्यसंकाशः सुमना नाम पर्वतः
पीतस्तु मध्यमश्चासीत् ततः कुम्भमयो गिरिः ॥
नाम्ना सर्वसुखो नाम दिव्यौषधिसमन्वितः
तृतीयश्चैव सौवर्णो भृङ्गपत्त्रनिभो गिरिः ॥
सुमहान्रोहितो नाम दिव्यो गिरिवरो हि सः
सुमनाः कुशलो देशः सुखोदर्कः सुखोदयः ॥
रोहितो यस्तृतीयस्तु रोहिणो नाम विश्रुतः
तत्र रत्नान्यनेकानि स्वयं रक्षति वासवः ॥
प्रजापतिमुपादाय प्रसन्नो विदधत्स्वयम्
न तत्र मेघा वर्षन्ति शीतोष्णं च न तद्विधम् ॥
वर्णाश्रमाणां वार्त्ता वा त्रिषु द्वीपेषु विद्यते
न ग्रहो न च चन्द्रो ऽस्ति ईर्ष्यासूया भयं तथा ॥
उद्भिदान्युदकान्यत्र गिरिप्रस्रवणानि च
भोजनं षड्रसं तत्र तेषां स्वयमुपस्थितम् ॥
अधमोत्तमं न तेष्वस्ति न लोभो न परिग्रहः
आरोग्यबलवन्तश्च एकान्तसुखिनो नराः ॥
त्रिंशद्वर्षसहस्राणि मानसीं सिद्धिमास्थिताः
सुखमायुश्च रूपं च धर्मैश्वर्यं तथैव च ॥
शाल्मलान्तेषु विज्ञेयं द्वीपेषु त्रिषु सर्वतः
व्याख्यातः शाल्मलान्तानां द्वीपानां तु विधिः शुभः ॥
परिमण्डलस्तु द्वीपस्य चक्रवत्परिवेष्टितः
सुरोदेन समुद्रेण द्विगुणेन समन्वितः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0