भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 121

121.1

तस्याश्रमस्योत्तरतस् त्रिपुरारिनिषेवितः
नानारत्नमयैः शृङ्गैः कल्पद्रुमसमन्वितैः ॥

121.2

मध्ये हिमवतः पृष्ठे कैलासो नाम पर्वतः
तस्मिन्निवसति श्रीमान् कुबेरः सह गुह्यकैः ॥

121.3

अप्सरो ऽनुगुप्तो राजा मोदते ह्यलकाधिपः
कैलासपादसम्भूतं पुण्यं शीतजलं शुभम् ॥

121.4

मन्दोदकं नाम सरः पयस्तु दधिसंनिभम्
तस्मात् प्रवहते दिव्या नदी मन्दाकिनी शुभा ॥

121.5

दिव्यं च नन्दनं तत्र तस्यास्तीरे महद्वनम्
प्रागुत्तरेण कैलासाद् दिव्यं सौगन्धिकं गिरिम् ॥

121.6

सर्वधातुमयं दिव्यं सुवेलं पर्वतं प्रति
चन्द्रप्रभो नाम गिरिः यः शुभ्रो रत्नसंनिभः ॥

121.7

तत्समीपे सरो दिव्यम् अच्छोदं नाम विश्रुतम्
तस्मात्प्रभवते दिव्या नदी ह्यच्छोदका शुभा ॥

121.8

तस्यास्तीरे वनं दिव्यं महच्चैत्ररथं शुभम्
तस्मिन्गिरौ निवसति मणिभद्रः सहानुगः ॥

121.9

यक्षसेनापतिः क्रूरो गुह्यकैः परिवारितः
पुण्या मन्दाकिनी नाम नदी ह्यच्छोदका शुभा ॥

121.10

महीमण्डलमध्ये तु प्रविष्टे तु महोदधिम्
कैलासदक्षिणे प्राच्यां शिवं सर्वौषधिं गिरिम् ॥

121.11

मनःशिलामयं दिव्यं सुवेलं पर्वतं प्रति
लोहितो हेमशृङ्गस्तु गिरिः सूर्यप्रभो महान् ॥

121.12

तस्य पादे महद्दिव्यं लोहितं सुमहत्सरः
तस्मात्प्रभवते पुण्यो लौहित्यश्च नदो महान् ॥

121.13

दिव्यारण्यं विशोकं च तस्य तीरे महद्वनम्
तस्मिन्गिरौ निवसति यक्षो मणिधरो वशी ॥

121.14

सौम्यैः सुधार्मिकैश्चैव गुह्यकैः परिवारितः
कैलासात्पश्चिमोदीच्यां ककुद्मानौषधीगिरिः ॥

121.15

ककुद्मति च रुद्रस्य उत्पत्तिश्च ककुद्मिनः
तदञ्जनं त्रैककुदं शैलं त्रिककुदं प्रति ॥

121.16

सर्वधातुमयस्तत्र सुमहान्वैद्युतो गिरिः
तस्य पादे महद्दिव्यं मानसं सिद्धसेवितम् ॥

121.17

तस्मात्प्रभवते पुण्या सरयूर्लोकपावनी
यस्यास्तीरे वनं दिव्यं वैभ्राजं नाम विश्रुतम् ॥

121.18

कुबेरानुचरस्तस्मिन् प्रहेतितनयो वशी
ब्रह्मधाता निवसति राक्षसो ऽनन्तविक्रमः ॥

121.19

कैलासात्पश्चिमामाशां दिव्यः सर्वौषधिगिरिः
वरुणः पर्वतश्रेष्ठो रुक्मधातुविभूषितः ॥

121.20

भवस्य दयितः श्रीमान् पर्वतो हैमसंनिभः
शातकौम्भमयैर्दिव्यैः शिलाजालैः समाचितः ॥

121.21

शतसङ्ख्यैस् तापनीयैः शृङ्गैर्दिवमिवोल्लिखन्
शृङ्गवान्सुमहादिव्यो दुर्गः शैलो महाचितः ॥

121.22

तस्मिन्गिरौ निवसति गिरिशो धूम्रलोहितः
तस्य पादात्प्रभवति शैलोदं नाम तत्सरः ॥

121.23

तस्मात्प्रभवते पुण्या नदी शैलोदका शुभा
सा चक्षुसी तयोर्मध्ये प्रविष्टा पश्चिमोदधिम् ॥

121.24

अस्त्युत्तरेण कैलासाच् छिवः सर्वौषधो गिरिः
गौरं तु पर्वतश्रेष्ठं हरितालमयं प्रति ॥

121.25

हिरण्यशृङ्गः सुमहाद् इव्यौषधिमयो गिरिः
तस्य पादे महद्दिव्यं सरः काञ्चनवालुकम् ॥

121.26

रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः
गङ्गार्थे स तु राजर्षिर् उवास बहुलाः समाः ॥

121.27

दिवं यास्यन्तु मे पूर्वे गङ्गातोयाप्लुतास्थिकाः
तत्र त्रिपथगा देवी प्रथमं तु प्रतिष्ठिता ॥

121.28

सोमपादात्प्रसूता सा सप्तधा प्रविभज्यते
यूपा मणिमयास्तत्र विमानाश्च हिरण्मयाः ॥

121.29

तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रः सुरगणैः सह
दिव्यश्छायापथस् तत्र नक्षत्राणां तु मण्डलम् ॥

121.30

दृश्यते भासुरा रात्रौ देवी त्रिपथगा तु सा
अन्तरिक्षं दिवं चैव भावयित्वा भुवं गता ॥

121.31

भवोत्तमाङ्गे पतिता संरुद्धा योगमायया
तस्या ये बिन्दवः केचित् क्रुद्धायाः पतिता भुवि ॥

121.32

कृतं तु तैर्बहुसरस् ततो बिन्दुसरः स्मृतम्
ततस्तस्या निरुद्धाया भवेन सहसा रुषा ॥

121.33

ज्ञात्वा तस्या ह्यभिप्रायं क्रूरं देव्याश्चिकीर्षितम्
भित्त्वा विशामि पातालं स्रोतसा गृह्य शंकरम् ॥

121.34

अथावलेपं तं ज्ञात्वा तस्याः क्रुद्धस्तु शंकरः
तिरोभावयितुं बुद्धिर् आसीदङ्गेषु तां नदीम् ॥

121.35

एतस्मिन्नेव काले तु दृष्ट्वा राजानमग्रतः
धमनीसंततं क्षीणं क्षुधाव्याकुलितेन्द्रियम् ॥

121.36

अनेन तोषितश्चाहं नद्यर्थे पूर्वमेव तु
बुद्ध्वाऽस्य वरदानं तु ततः कोपं न्ययच्छत ॥

121.37

ब्रह्मणो वचनं श्रुत्वा यदुक्तं धारयन्नदीम्
ततो विसर्जयामास संरुद्धां स्वेन तेजसा ॥

121.38

नदीं भगीरथस्यार्थे तपसोग्रेण तोषितः
ततो विसर्जयामास सप्त स्रोतांसि गङ्गया ॥

121.39

त्रीणि प्राचीमभिमुखं प्रतीचीं त्रीण्यथैव तु
स्रोतांसि त्रिपथायास्तु प्रत्यपद्यन्त सप्तधा ॥

121.40

नलिनी ह्लादिनी चैव पावनी चैव प्राच्यगा
सीता चक्षुश्च सिन्धुश्च तिस्रस्ता वै प्रतीच्यगाः ॥

121.41

सप्तमी त्वनुगा तासां दक्षिणेन भगीरथम्
तस्माद्भागीरथी सा वै प्रविष्टा दक्षिणोदधिम् ॥

121.42

सप्त चैताः प्लावयन्ति वर्षं तु हिमसाह्वयम्
प्रसूताः सप्त नद्यस्तु शुभा बिन्दुसरोद्भवाः ॥

121.43

तान्देशान्प्लावयन्ति स्म म्लेच्छप्रायांश्च सर्वशः
सशैलान्कुकुरान्रौध्रान् बर्बरान्यवनान्खसान् ॥

121.44

पुलिकांश्च कुलत्थांश्च अङ्गलोक्यान्वरांश्च यान्
कृत्वा द्विधा हिमवन्तं प्रविष्टा दक्षिणोदधिम् ॥

121.45

अथ वीरमरूंश्चैव कालिकांश्चैव शूलिकान्
तुकरान्बर्बराकारान् पह्लवान्पारदाञ्छकान् ॥

121.46

एताञ्जनपदांश्चक्षुः प्लावयित्वोदधिं गता
दरदोर्जगुडांश्चैव गान्धारानौरसान्कुहून् ॥

121.47

शिवपौरानिन्द्रमरून् वसतीन्समतेजसम्
सैन्धवानुर्वसान्बर्बान् कुपथान्भीमरोमकान् ॥

121.48

शुनामुखांश्चोर्दमरून् सिन्धुरेतान्निषेवते
गन्धर्वान्किन्नरान्यक्षान् रक्षोविद्याधरोरगान् ॥

121.49

कलापग्रामकांश्चैव तथा किम्पुरुषान्नरान्
किरातांश्च पुलिन्दांश्च कुरून्वै भारतानपि ॥

121.50

पाञ्चालान्कौशिकान्मत्स्यान् मागधाङ्गांस्तथैव च
ब्रह्मोत्तरांश्च वङ्गांश्च ताम्रलिप्तांस्तथैव च ॥

121.51

एताञ्जनपदानार्यान् गङ्गा भावयते शुभा
ततः प्रतिहता विन्ध्ये प्रविष्टा दक्षिणोदधिम् ॥

121.52

ततस्तु ह्लादिनी पुण्या प्राचीनाभिमुखी ययौ
प्लावयन्त्युपकांश्चैव निषादानपि सर्वशः ॥

121.53

धीवरानृषिकांश्चैव तथा नलिमुखानपि
केकरानेककर्णांश्च किरातानपि चैव हि ॥

121.54

कालञ्जरान्विकर्णांश्च कुशिकान्स्वर्गभौमकान्
सा मण्डले समुद्रस्य तीरे भूत्वा तु सर्वशः ॥

121.55

ततस्तु नलिनी चापि प्राचीमेव दिशं ययौ
कुपथान्प्लावयन्ती सा इन्द्रद्युम्नसरांस्यपि ॥

121.56

तथा खरपथान्देशान् वेत्रशङ्कुपथानपि
मध्येनोज्जानकमरून् कुथप्रावरणान्ययौ ॥

121.57

इन्द्रद्वीपसमीपे तु प्रविष्टा लवणोदधिम्
ततस्तु पावनी प्रायात् प्राचीमाशां जवेन तु ॥

121.58

तोमरान्प्लावयती च हंसमार्गान्समूहकान्
पूर्वान्देशांश्च सेवन्ती भित्त्वा सा बहुधा गिरिम्
कर्णप्रावरणान्प्राप्य गता साश्वमुखानपि ॥

121.59

सिक्त्वा पर्वतमेरुं सा गत्वा विद्याधरानपि
शैमिमण्डलकोष्ठं तु सा प्रविष्टा महत्सरः ॥

121.60

तासां नद्युपनद्यो ऽन्याः शतशो ऽथ सहस्रशः
उपगच्छन्ति ता नद्यो यतो वर्षति वासवः ॥

121.61

तीरे वंशौकसारायाः सुरभिर्नाम तद्वनम्
हिरण्यशृङ्गो वसति विद्वान्कौबेरको वशी ॥

121.62

यज्ञादपेतः सुमहान् अमितौजाः सुविक्रमः
तत्रागस्त्यैः परिवृता विद्वभिर्द्ब्रह्मराक्षसैः ॥

121.63

कुबेरानुचरा ह्येते चत्वारस्तत्समाश्रिताः
एवमेव तु विज्ञेया सिद्धिः पर्वतवासिनाम् ॥

121.64

परस्परेण द्विगुणा धर्मतः कामतो ऽर्थतः
हेमकूटस्य पृष्ठे तु सर्पाणां तत्सरः स्मृतम् ॥

121.65

सरस्वती प्रभवति तस्माज्ज्योतिष्मती तु या
अवगाढे ह्युभयतः समुद्रौ पूर्वपश्चिमौ ॥

121.66

सरो विष्णुपदं नाम निषधे पर्वतोत्तमे
यस्मादग्रे प्रभवति गन्धर्वानुकुले च ते ॥

121.67

मेरोः पार्श्वात्प्रभवति ह्रदश्चन्द्रप्रभो महान्
जम्बूश्चैव नदी पुण्या यस्यां जाम्बूनदं स्मृतम् ॥

121.68

पयोदस्तु ह्रदो नीलः स शुभ्रः पुण्डरीकवान्
पुण्डरीकात्पयोदाच्च तस्माद् द्वे सम्प्रसूयताम् ॥

121.69

सरसस्तु सरस्त्वेतत् स्मृतमुत्तरमानसम्
मृग्या च मृगकान्ता च तस्माद् द्वे सम्प्रसूयताम् ॥

121.70

ह्रदाः कुरुषु विख्याताः पद्ममीनकुलाकुलाः
नाम्ना ते वै जया नाम द्वादशोदधिसंनिभाः ॥

121.71

तेभ्यः शान्ती च मध्वी च द्वे नद्यौ सम्प्रसूयताम्
किम्पुरुषाद्यानि यान्यष्टौ तेषु देवो न वर्षति ॥

121.72

उद्भिदान्युदकान्यत्र प्रवहन्ति सरिद्वराः
बलाहकश्च ऋषभो चक्रो मैनाक एव च ॥

121.73

विनिविष्टाः प्रतिदिशं निमग्ना लवणाम्बुधिम्
चन्द्रकान्तस्तथा द्रोणः सुमहांश्च शिलोच्चयः ॥

121.74

उद्गायता उदीच्यां तु अवगाढा महोदधिम्
चक्रो बधिरकश्चैव तथा नारदपर्वतः ॥

121.75

प्रतीचीमायतास्ते वै प्रतिष्ठास्ते महोदधिम्
जीमूतो द्रावणश्चैव मैनाकश्चन्द्रपर्वतः ॥

121.76

आयतास्ते महाशैलाः समुद्रं दक्षिणं प्रति
चक्रमैनाकयोर्मध्ये दिवि सन् दक्षिणापथे ॥

121.77

तत्र संवर्तको नाम सो ऽग्निः पिबति तज्जलम्
अग्निः समुद्रवासस्तु और्वो ऽसौ वडवामुखः ॥

121.78

इत्येते पर्वताविष्टाश् चत्वारो लवणोदधिम्
छिद्यमानेषु पक्षेषु पुरा इन्द्रस्य वै भयात् ॥

121.79

तेषां तु दृश्यते चन्द्रे शुक्ले कृष्णे समाप्लुतिः
ते भारतस्य वर्षस्य भेदा येन प्रकीर्तिताः ॥

121.80

इहोदितस्य दृश्यन्ते अन्ये त्वन्यत्र चोदिताः
उत्तरोत्तरमेतेषां वर्षम् उद्रिच्यते गुणैः ॥

121.81

आरोग्यायुःप्रमाणाभ्यां धर्मतः कामतो ऽर्थतः
समन्वितानि भूतानि तेषु वर्षेषु भागशः ॥

121.82

वसन्ति नानाजातीनि तेषु सर्वेषु तानि वै
इत्येतद्धारयद्विश्वं पृथ्वी जगदिदं स्थिता ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc