भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 120

120.1

स त्वाश्रमपदे रम्ये त्यक्ताहारपरिच्छदः
क्रीडाविहारं गन्धर्वैः पश्यन्नप्सरसां सह ॥

120.2

कृत्वा पुष्पोच्चयं भूरि ग्रन्थयित्वा तथा स्रजः
अग्रं निवेद्य देवाय गन्धर्वेभ्यस्तदा ददौ ॥

120.3

पुष्पोच्चयप्रसक्तानां क्रीडन्तीनां यथासुखम्
चेष्टा नानाविधाकाराः पश्यन्नपि न पश्यति ॥

120.4

काचित्पुष्पोच्चये सक्ता लताजालेन वेष्टिता
सखीजनेन संत्यक्ता कान्तेनाभिसमुज्झिता ॥

120.5

काचित्कमलगन्धाभा निःश्वासपवनाहृतैः
मधुपैराकुलमुखी कान्तेन परिमोचिता ॥

120.6

मकरन्दसभाक्रान्त नयना काचिदङ्गना
कान्तनिःश्वासवातेन नीरजस्ककृतेक्षणा ॥

120.7

काचिद् उच्चीय पुष्पाणि ददौ कान्तस्य भामिनी
कान्तसंग्रथितैः पुष्पै रराज कृतशेखरा ॥

120.8

उच्चीय स्वयम् उद्ग्रथ्य कान्तेन कृतशेखरा
कृतकृत्यमिवात्मानं मेने मन्मथवर्धिनी ॥

120.9

अस्त्वस्मिन्गहने कुञ्जे विशिष्टकुसुमा लता
काचिदेवं रहो नीता रमणेन रिरंसुना ॥

120.10

कान्तसंनामितलता कुसुमानि विचिन्वती
सर्वाभ्यः काचिदात्मानं मेने सर्वगुणाधिकम् ॥

120.11

काश्चित्पश्यति भूपालं नलिनीषु पृथक्पृथक्
क्रीडमानास्तु गन्धर्वैर् देवरामा मनोरमाः ॥

120.12

काचिद् आताडयत् कान्तम् उदकेन शुचिस्मिता
ताड्यमानाथ कान्तेन प्रीतिं काचिदुपाययौ ॥

120.13

कान्तं च ताडयामास जातखेदा वराङ्गना
अदृश्यत वरारोहा श्वासनृत्यत्पयोधरा ॥

120.14

कान्ताम्बुताडनाकृष्ट केशपाशनिबन्धना
केशाकुलमुखी भाति मधुपैरिव पद्मिनी ॥

120.15

स्वचक्षुःसदृशैः पुष्पैः संछन्ने नलिनीवने
छन्ना काचिच् चिरात्प्राप्ता कान्तेनान्विष्य यत्नतः ॥

120.16

स्नाता शीतापदेशेन काचित्प्राहाङ्गना भृशम्
रमणालिङ्गनं चक्रे मनो ऽभिलषितं चिरम् ॥

120.17

जलार्द्रवसनं सूक्ष्मम् अङ्गलीनं शुचिस्मिता
धारयन्ती जनं चक्रे काचित् तत्र समन्मथम् ॥

120.18

कण्ठमाल्यगुणैः काचित् कान्तेन कृष्यताम्भसि
त्रुट्यत्स्रग्दामपतितं रमणं प्राहसच्चिरम् ॥

120.19

काचिद्भुग्ना सखीदत्त जानुदेशे नखक्षता
संभ्रान्ता कान्तशरणं मग्ना काचिद्गता चिरम् ॥

120.20

काचित्पृष्ठकृतादित्या केशनिस्तोयकारिणी
शिलातलगता भर्त्रा दृष्टा कामार्तचक्षुषा ॥

120.21

कृत्तमाल्यं विलुलितं संक्रान्तकुचकुङ्कुमम्
रतिक्रीडितकान्तेव रराज तत्सरोदकम् ॥

120.22

सुस्नातदेवगन्धर्व देवरामागणेन च
पूज्यमानं च ददृशे देवदेवं जनार्दनम् ॥

120.23

क्वचिच् च ददृशे राजा लतागृहगताः स्त्रियः
मण्डयन्तीः स्वगात्राणि कान्तसंन्यस्तमानसाः ॥

120.24

काचिद् आदर्शनकरा व्यग्रा दूतीमुखोद्गतम्
शृण्वती कान्तवचनम् अधिका तु तथा बभौ ॥

120.25

काचित् सत्वरिता दूत्या भूषणानां विपर्ययम्
कुर्वाणा नैव बुबुधे मन्मथाविष्टचेतना ॥

120.26

वायुनुन्नातिसुरभि कुसुमोत्करमण्डिते
काचित्पिबन्ती ददृशे मैरेयं नीलशाद्वले ॥

120.27

पाययामास रमणं स्वयं काचिद्वराङ्गना
काचित्पपौ वरारोहा कान्तपाणिसमर्पितम् ॥

120.28

काचित्स्वनेत्रचपल नीलोत्पलयुतं पयः
पीत्वा पप्रच्छ रमणं क्व गते ते ममोत्पले ॥

120.29

त्वयैव पीतौ तौ नूनम् इत्युक्ता रमणेन सा
तथा विदित्वा मुग्धत्वाद् बभूव व्रीडिता भृशम् ॥

120.30

काचित्कान्तार्पितं सुभ्रूः कान्तपीतावशेषितम्
सविशेषरसं पानं पपौ मन्मथवर्धनम् ॥

120.31

आपानगोष्ठीषु तथा तासां स नरपुंगवः
शुश्राव विविधं गीतं तन्त्रीस्वरविमिश्रितम् ॥

120.32

प्रदोषसमये ताश्च देवदेवं जनार्दनम्
राजन्सदोपनृत्यन्ति नानावाद्यपुरःसराः ॥

120.33

याममात्रे गते रात्रौ विनिर्गत्य गुहामुखात्
आवसन्संयुताः कान्तैः परर्द्धिरचितां गुहाम् ॥

120.34

नानागन्धान्वितलतां नानागन्धसुगन्धिनीम्
नानाविचित्रशयनां कुसुमोत्करमण्डिताम् ॥

120.35

एवम् अप्सरसां पश्यन् क्रीडितानि स पर्वते
तपस्तेपे महाराजन् केशवार्पितमानसः ॥

120.36

तमूचुर्नृपतिं गत्वा गन्धर्वाप्सरसां गणाः
राजन्स्वर्गोपमं देशम् इमं प्राप्तो ऽस्यरिंदम ॥

120.37

वयं हि ते प्रदास्यामो मनसः काङ्क्षितान्वरान्
तानादाय गृहं गच्छ तिष्ठेह यदि वा पुनः ॥

120.38

अमोघदर्शनाः सर्वे भवन्तस्त्वमितौजसः
वरं वितरताद्यैव प्रसादं मधुसूदनात् ॥

120.39

एवमस्त्वित्यथोक्तस्तैः स तु राजा पुरूरवाः
तत्रोवास सुखी मासं पूजयानो जनार्दनम् ॥

120.40

प्रिय एव सदैवासीद् गन्धर्वाप्सरसां नृपः
तुतोष स जनो राज्ञस् तस्यालौल्येन कर्मणा ॥

120.41*

मासस्य मध्ये स नृपः प्रविष्टस्तदाश्रमं रत्नसहस्रचित्रम् ।
तोयाशनस्तत्र ह्युवास मासं यावत्सितान्तो नृप फाल्गुनस्य ॥

120.42

फाल्गुनामलपक्षान्ते राजा स्वप्ने पुरूरवाः
तस्यैव देवदेवस्य श्रुतवान्गदितं शुभम् ॥

120.43

रात्र्यामस्यां व्यतीतायाम् अत्रिणा त्वं समेष्यसि
तेन राजन्समागम्य कृतकृत्यो भविष्यसि ॥

120.44

स्वप्नमेवं स राजर्षिर् दृष्ट्वा देवेन्द्रविक्रमः
प्रत्यूषकाले विधिवत् स्नातः स प्रयतेन्द्रियः ॥

120.45

कृतकृत्यो यथाकामं पूजयित्वा जनार्दनम्
ददर्शात्रिं मुनिं राजा प्रत्यक्षं तपसां निधिम् ॥

120.46

स्वप्नं तु देवदेवस्य न्यवेदयत धार्मिकः
ततः शुश्राव वचनं देवतानां समीरितम् ॥

120.47

एवमेतन्महीपाल नात्र कार्या विचारणा
एवं प्रसादं सम्प्राप्य देवदेवाज्जनार्दनात् ॥

120.48

कृतदेवार्चनो राजा तथा हुतहुताशनः
सर्वान्कामानवाप्तो ऽसौ वरदानेन केशवात् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc