भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 119

119.1

तत्र यौ तौ महाशृङ्गौ महावर्णौ महाहिमौ
तृतीयं तु तयोर्मध्ये शृङ्गमत्यन्तमुच्छ्रितम् ॥

119.2

नित्यातप्तशिलाजातं सदाभ्रपरिवर्जितम्
तस्याधस्ताद्वृक्षगणे दिशां भागे च पश्चिमे ॥

119.3

जातीलतापरिक्षिप्तं विवरं चारुदर्शनम्
दृष्ट्वैव कौतुकाविष्टस् तं विवेश महीपतिः ॥

119.4

तमसा चातिनिबिडं नल्वमात्रं सुसंकटम्
नल्वमात्रमतिक्रम्य स्वप्रभाभरणोज्ज्वलम् ॥

119.5

तम् उच्छ्रितम् अथात्यन्तं गम्भीरं परिवर्तुलम्
न तत्र सूर्यस्तपति न विराजति चन्द्रमाः ॥

119.6

तथापि दिवसाकारं प्रकाशं तदहर्निशम्
क्रोशाधिकपरीमाणं सरसा च विराजितम् ॥

119.7

समन्तात्सरसस्तस्य शैललग्ना तु वेदिका
सौवर्णै राजतैर्वृक्षैर् विद्रुमैरुपशोभितम् ॥

119.8

नानामाणिक्यकुसुमैः सुप्रभाभरणोज्ज्वलैः
तस्मिन्सरसि पद्मानि पद्मरागच्छदानि तु ॥

119.9

वज्रकेसरजालानि सुगन्धीनि तथा युतम्
पत्त्रैर् मरकतैर् नीलैर् वैडूर्यस्य महीपते ॥

119.10

कर्णिकाश्च तथा तेषां जातरूपस्य पार्थिव
तस्मिन्सरसि या भूमिर् न सा वज्रसमाकुला ॥

119.11

नानारत्नैरुपचिता जलजानां समाश्रयः
कपर्दिकानां शुक्तीनां शङ्खानां च महीपते ॥

119.12

मकराणां च मत्स्यानां चण्डानां कच्छपैः सह
तत्र मरकतखण्डानि वज्राणां च सहस्रशः ॥

119.13

पद्मरागेन्द्रनीलानि महानीलानि पार्थिव
पुष्परागाणि सर्वाणि तथा कर्कोटकानि च ॥

119.14

तुत्थकस्य तु खण्डानि तथा शेषस्य भागशः
राजावर्तस्य मुख्यस्य रुचिराक्षस्य चाप्यथ ॥

119.15

सूर्येन्दुकान्तयश्चैव नीलो वर्णान्तिमश्च यः
ज्योतीरसस्य रम्यस्य स्यमन्तस्य च भागशः ॥

119.16

सुरोरगवलक्षाणां स्फटिकस्य तथैव च
गोमेदपित्तकानां च धूलीमरकतस्य च ॥

119.17

वैडूर्यसौगन्धिकयोस् तथा राजमणेर्नृप
वज्रस्यैव च मुख्यस्य तथा ब्रह्ममणेरपि ॥

119.18

मुक्ताफलानि मुक्तानां ताराविग्रहधारिणाम् ॥

119.19

सुखोष्णं चैव तत्तोयं स्नानाच्छीतविनाशनम्
वैडूर्यस्य शिला मध्ये सरसस्तस्य शोभना ॥

119.20

प्रमाणेन तथा सा च द्वे च राजन्धनुःशते
चतुरस्रा तथा रम्या तपसा निर्मितात्रिणा ॥

119.21

बिलद्वारसमो देशो यत्र यत्र हिरण्मयः
प्रदेशः स तु राजेन्द्र द्वीपे तस्मिन्मनोहरे ॥

119.22

तथा पुष्करिणी रम्या तस्मिन्राजञ्शिलातले
सुशीतामलपानीया जलजैश्च विराजिता ॥

119.23

आकाशप्रतिमा राजंश् चतुरस्रा मनोहरा
तस्यास्तदुदकं स्वादु लघु शीतं सुगन्धिकम् ॥

119.24

न क्षिणोति यथा कण्ठं कुक्षिं नापूरयत्यपि
तृप्तिं विधत्ते परमां शरीरे च महत्सुखम् ॥

119.25

मध्ये तु तस्याः प्रासादं निर्मितं तपसात्रिणा
रुक्मसेतुप्रवेशान्तं सर्वरत्नमयं शुभम् ॥

119.26

शशाङ्करश्मेः संकाशं प्रासादं राजतं हितम्
रम्यवैडूर्यसोपानं विद्रुमामलसारकम् ॥

119.27

इन्द्रनीलमहास्तम्भं मरकतासक्तवेदिकम्
वज्रांशुजालैः स्फुरितं रम्यं दृष्टिमनोरमम् ॥

119.28

प्रासादे तत्र भगवान् देवदेवो जनार्दनः
भोगिभोगावलीसुप्तः सर्वालंकारभूषितः ॥

119.29

जानुनाकुञ्चितस्त्वेको देवदेवस्य चक्रिणः
फणीन्द्रसंनिविष्टो ऽङ्घ्रिर् द्वितीयश्च तथानघ ॥

119.30

लक्षयुत्सङ्गगतो ऽङ्घ्रिस्तु शेषभोगप्रशायिनः
फणीन्द्रभोगसंन्यस्त बाहुः केयूरभूषणः ॥

119.31

अङ्गुलीपृष्ठविन्यस्त देवशीर्षधरं भुजम्
एकं वै देवदेवस्य द्वितीयं तु प्रसारितम् ॥

119.32

समाकुञ्चितजानुस्थ मणिबन्धेन शोभितम्
किंचिदाकुञ्चितं चैव नाभिदेशकरस्थितम् ॥

119.33

तृतीयं तु भुजं तस्य चतुर्थं तु तथा शृणु
आत्तसंतानकुसुमं घ्राणदेशानुसर्पिणम् ॥

119.34

लक्ष्म्या संवाह्यमानाङ्घ्रिः पद्मपत्त्रनिभैः करैः
संतानमालामुकुटं हारकेयूरभूषितम् ॥

119.35

भूषितं च तथा देवम् अङ्गदैरङ्गुलीयकैः
फणीन्द्रफणविन्यस्त चारुरत्नशिरोज्ज्वलम् ॥

119.36

अज्ञातवस्तुचरितं प्रतिष्ठितम् अथात्रिणा
सिद्धानुपूज्यं सततं संतानकुसुमार्चितम् ॥

119.37

दिव्यगन्धानुलिप्ताङ्गं दिव्यधूपेन धूपितम्
सुरसैः सुफलैर्हृद्यैः सिद्धैरुपहृतैः सदा ॥

119.38

शोभितोत्तमपार्श्वं तं देवमुत्पलशीर्षकम्
ततः सम्मुखम् उद्वीक्ष्य ववन्दे स नराधिपः ॥

119.39

जानुभ्यां शिरसा चैव गत्वा भूमिं यथाविधि
नाम्नां सहस्रेण तदा तुष्टाव मधुसूदनम् ॥

119.40

प्रदक्षिणमथो चक्रे स तूत्थाय पुनः पुनः
रम्यमायतनं दृष्ट्वा तत्रोवासाश्रमे पुनः ॥

119.41

बिलाद्बहिर्गुहां कांचिद् आश्रित्य सुमनोहराम्
तपश्चकार तत्रैव पूजयन्मधुसूदनम् ॥

119.42

नानाविधैस्तथा पुष्पैः फलमूलैः सगोरसैः
नित्यं त्रिषवणस्नायी वह्निपूजापरायणः ॥

119.43

देववापीजलैः कुर्वन् सततं प्राणधारणम्
सर्वाहारपरित्यागं कृत्वा तु मनुजेश्वरः ॥

119.44

अनास्तृतगुहाशायी कालं नयति पार्थिवः
त्यक्ताहारक्रियश्चैव केवलं तोयतो नृपः
न तस्य ग्लानिमायाति शरीरं च तदद्भुतम् ॥

119.45

एवं स राजा तपसि प्रसक्तः सम्पूजयन्देववरं सदैव
तत्राश्रमे कालमुवास कंचित् स्वर्गोपमे दुःखम् अविन्दमानः ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc