मत्स्य पुराण · अध्याय 11
आदित्यवंशमखिलं वद सूत यथाक्रमम्
सोमवंशं च तत्त्वज्ञ यथावद्वक्तुमर्हसि ॥
विवस्वान्कश्यपात् पूर्वम् अदित्यामभवत् सुतः
तस्य पत्नीत्रयं तद्वत् संज्ञा राज्ञी प्रभा तथा ॥
रैवतस्य सुता राज्ञी रेवतं सुषुवे सुतम्
प्रभा प्रभातं सुषुवे त्वाष्ट्री संज्ञा तथा मनुम् ॥
यमश्च यमुना चैव यमलौ तु बभूवतुः
ततस्तेजोमयं रूपम् असहन्ती विवस्वतः ॥
नारीमुत्पादयामास स्वशरीरादनिन्दिताम्
त्वाष्ट्री स्वरूपरूपेण नाम्ना छायेति भामिनी ॥
पुरतः संस्थितां दृष्ट्वा संज्ञा तां प्रत्यभाषत
छाये तं भज भर्तारम् अस्मदीयं वरानने ॥
अपत्यानि मदीयानि मातृस्नेहेन पालय
तथेत्युक्त्वा तु सा देवम् अगमत् क्वापि सुव्रता ॥
कामयामास देवो ऽपि संज्ञेयमिति चादरात्
जनयामास तस्यां तु पुत्रं च मनुरूपिणम् ॥
सवर्णत्वाच्च सावर्णिर् मनोर्वैवस्वतस्य च
ततः शनिं च तपतीं विष्टिं चैव क्रमेण तु ॥
छायायां जनयामास संज्ञेयमिति भास्करः
छाया स्वपुत्रे ऽभ्यधिकं स्नेहं चक्रे मनौ तथा ॥
पूर्वो मनुस्तु चक्षाम न यमः क्रोधमूर्छितः
संतर्जयामास तदा पादमुद्यम्य दक्षिणम् ॥
शशाप च यमं छाया सक्षतः कृमिसंयुतः
पादो ऽयमेको भविता पूयशोणितविस्रवः ॥
निवेदयामास पितुर् यमः शापादमर्षितः
निष्कारणमहं शप्तो मात्रा देव सकोपया ॥
बालभावान्मया किंचिद् उद्यतश् चरणः सकृत्
मनुना वार्यमाणापि मम शापम् अदाद् विभो ॥
प्रायो न माता सास्माकं शापेनाहं यतो हतः
देवो ऽप्याह यमं भूयः किं करोमि महामते ॥
मौर्ख्यात्कस्य न दुःखं स्याद् अथवा कर्मसंततिः
अनिवार्या भवस्यापि का कथान्येषु जन्तुषु ॥
कृकवाकुर्मया दत्तो यः कृमीन्भक्षयिष्यति
क्लेदं च रुधिरं चैव वत्सायम् अपनेष्यति ॥
एवमुक्तस्तपस्तेपे यमस्तीव्रं महायशाः
गोकर्णतीर्थे वैराग्यात् फलपत्त्रानिलाशनः ॥
आराधयन्महादेवं यावद्वर्षायुतायुतम्
वरं प्रादान्महादेवः संतुष्टः शूलभृत्तदा ॥
वव्रे स लोकपालत्वं पितृलोके नृपालयम्
धर्माधर्मात्मकस्यापि जगतस्तु परीक्षणम् ॥
एवं स लोकपालत्वम् अगमच्छूलपाणिनः
पितॄणां चाधिपत्यं च धर्माधर्मस्य चानघ ॥
विवस्वानथ तज्ज्ञात्वा संज्ञायाः कर्मचेष्टितम्
त्वष्टुः समीपमगमद् आचचक्षे च रोषवान् ॥
तमुवाच ततस्त्वष्टा सान्त्वपूर्वं द्विजोत्तमाः
तवासहन्ती भगवन् महस्तीव्रं तमोनुदम् ॥
वडबारूपम् आस्थाय मत्सकाशम् इहागता
निवारिता मया सा नु त्वया चैव दिवाकर ॥
यस्माद् अविज्ञाततया मत्सकाशम् इहागता
तस्मान्मदीयं भवनं प्रवेष्टुं न त्वमर्हसि ॥
एवमुक्ता जगामाथ मरुदेशमनिन्दिता
वडबारूपम् आस्थाय भूतले सम्प्रतिष्ठिता ॥
तस्मात्प्रसादं कुरु मे यद्यनुग्रहभागहम्
अपनेष्यामि ते तेजो यन्त्रे कृत्वा दिवाकर ॥
रूपं तव करिष्यामि लोकानन्दकरं प्रभो
तथेत्युक्तः स रविणा भ्रमौ कृत्वा दिवाकरम् ॥
पृथक्चकार तत्तेजश् चक्रं विष्णोर् अकल्पयत्
त्रिशूलं चापि रुद्रस्य वज्रमिन्द्रस्य चाधिकम् ॥
दैत्यदानवसंहर्तुः सहस्रकिरणात्मकम्
रूपं चाप्रतिमं चक्रे त्वष्टा पद्भ्यामृते महत् ॥
न शशाकाथ तद्द्रष्टुं पादरूपं रवेः पुनः
अर्चास्वपि ततः पादौ न कश्चित्कारयेत् क्वचित् ॥
यः करोति स पापिष्ठां गतिमाप्नोति निन्दिताम्
कुष्ठरोगमवाप्नोति लोके ऽस्मिन्दुःखसंयुतः ॥
तस्माच्च धर्मकामार्थी चित्रेष्वायतनेषु च
न क्वचित्कारयेत्पादौ देवदेवस्य धीमतः ॥
ततः स भगवान्गत्वा भूर्लोकम् अमराधिपः
कामयामास कामार्तो मुख एव दिवाकरः ॥
अश्वरूपेण महता तेजसा च समावृतः
संज्ञा च मनसा क्षोभम् अगमद्भयविह्वला ॥
नासापुटाभ्यामुत्सृष्टं परो ऽयमिति शङ्कया
तद्रेतसस् ततो जाताव् अश्विनाव् इति निश्चितम् ॥
दस्रौ सुतत्वात् संजातौ नासत्यौ नासिकाग्रतः
ज्ञात्वा चिराच्च तं देवं संतोषम् अगमत् परम् ॥
विमानेनागमत्स्वर्गं पत्या सह मुदान्विता
सावर्णो ऽपि मनुर् मेराव् अद्याप्यास्ते तपोधनः
शनिस्तपोबलादाप ग्रहसाम्यं ततः पुनः ॥
यमुना तपती चैव पुनर्नद्यौ बभूवतुः
विष्टिर्घोरात्मिका तद्वत् कालत्वेन व्यवस्थिता ॥
मनोर् वैवस्वतस्यासन् दश पुत्रा महाबलाः
इलस् तु प्रथमस्तेषां पुत्रेष्ट्यां समजायत ॥
इक्ष्वाकुः कुशनाभश्च अरिष्टो धृष्ट एव च
नरिष्यन्तः करूषश्च शर्यातिश्च महाबलाः
पृषध्रश्चाथ नाभागः सर्वे ते दिव्यमानुषाः ॥
अभिषिच्य मनुः पुत्रम् इलं ज्येष्ठं स धार्मिकः
जगाम तपसे भूयः स महेन्द्रवनालयम् ॥
अथ दिग्जयसिद्ध्यर्थम् इलः प्रायान्महीम् इमाम्
भ्रमन्द्वीपानि सर्वाणि क्ष्माभृतः सम्प्रधर्षयन् ॥
जगामोपवनं शम्भोर् अश्वाकृष्टः प्रतापवान्
कल्पद्रुमलताकीर्णं नाम्ना शरवणं महत् ॥
रमते यत्र देवेशः शम्भुः सोमार्धशेखरः
उमया समयस्तत्र पुरा शरवणे कृतः ॥
पुंनाम सत्त्वं यत्किंचिद् आगमिष्यति ते वने
स्त्रीत्वमेष्यति तत्सर्वं दशयोजनमण्डले ॥
अज्ञातसमयो राजा इलः शरवणे पुरा
स्त्रीत्वमाप विशन्न् एव वडबात्वं हयस्तदा ॥
पुरुषत्वं हृतं सर्वं स्त्रीरूपे विस्मितो नृपः
इलेति साभवन्नारी पीनोन्नतघनस्तनी ॥
उन्नतश्रोणिजघना पद्मपत्त्रायतेक्षणा
पूर्णेन्दुवदना तन्वी विलासोल्लासितेक्षणा ॥
मूलोन्नतायतभुजा नीलकुञ्चितमूर्धजा
तनुलोमा सुदशना मृदुगम्भीरभाषिणी ॥
श्यामगौरेण वर्णेन हंसवारणगामिनी
कार्मुकभ्रूयुगोपेता तनुताम्रनखाङ्कुरा ॥
भ्रमन्ती च वने तस्मिंश् चिन्तयामास भामिनी
को मे पिताथवा भ्राता का मे माता भवेदिह ॥
कस्य भर्तुरहं दत्ता कियद्वत्स्यामि भूतले
चिन्तयन्तीति ददृशे सोमपुत्रेण साङ्गना ॥
इला रूपसमाक्षिप्त मनसा वरवर्णिनी
बुधस्तदाप्तये यत्नम् अकरोत्कामपीडितः ॥
विशिष्टाकारवान्दण्डी सकमण्डलुपुस्तकः
वेणुदण्डकृतानेक पवित्रकगणत्रिकः ॥
द्विजरूपः शिखी ब्रह्मा निगदन्कर्णकुण्डलः
बटुभिश्चान्वितो युक्तैः समित्पुष्पकुशोदकैः ॥
किलान्विषन् वने तस्मिन् नाजुहाव स तामिलाम्
बहिर् वनस्यान्तरितः किल पादपमण्डले ॥
ससंभ्रममकस्मात्तां सोपालम्भमिवावदत्
त्यक्त्वाग्निहोत्रशुश्रूषां क्व गता मन्दिरान्मम ॥
इयं विहारवेला ते ह्य् अतिक्रामति साम्प्रतम्
एह्येहि पृथुसुश्रोणि संभ्रान्ता केन हेतुना ॥
इयं सायन्तनी वेला विहारस्येह वर्तते
कृत्वोपलेपनं पुष्पैर् अलंकुरु गृहं मम ॥
सा त्व् अब्रवीद् विरमृताहं सर्वमेतत्तपोधन
आत्मानं त्वां च भर्तारं कुलं च वद मे ऽनघ ॥
बुधः प्रोवाच तां तन्वीम् इला त्वं वरवर्णिनी
अहं च कामुको नाम बहुविद्यो बुधः स्मृतः ॥
तेजस्विनः कुले जातः पिता मे ब्राह्मणाधिपः
इति सा तस्य वचनात् प्रविष्टा बुधमन्दिरम् ॥
रत्नस्तम्भसमायुक्तं दिव्यमायाविनिर्मितम्
इला कृतार्थमात्मानं मेने तद्भवनस्थिता ॥
अहो वृत्तमहो रूपम् अहो धनमहो कुलम्
मम चास्य च मे भर्तुर् अहो लावण्यम् उत्तमम् ॥
रेमे च सा तेन समम् अतिकालमिला ततः
सर्वभोगमये गेहे यथेन्द्रभवने तथा ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0