भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 118

118.1

तस्यैव पर्वतेन्द्रस्य प्रदेशं सुमनोरमम्
अगम्यं मानुषैर् अन्यैर् दैवयोगाद् उपागतः ॥

118.2

ऐरावती सरिच्छ्रेष्ठा यस्माद्देशाद्विनिर्गता
मेघश्यामं च तं देशं द्रुमखण्डैरनेकशः ॥

118.3

शालैस्तालैस्तमालैश्च कर्णिकारैः सशामलैः
न्यग्रोधैश्च तथाश्वत्थैः शिरीषैः शिंशपद्रुमैः ॥

118.4

श्लेष्मातकैर् आमलकैर् हरीतकविभीतकैः
भूर्जैः समुञ्जकैर् बाणैर् वृक्षैः सप्तच्छदद्रुमैः ॥

118.5

महानिम्बैस्तथा निम्बैर् निर्गुण्डीभिर्हरिद्रुमैः
देवदारुमहावृक्षैस् तथा कालेयकद्रुमैः ॥

118.6

पद्मकैश्चन्दनैर्बिल्वैः कपित्थै रक्तचन्दनैः
माताम्ररिष्टकाक्षोटैर् अब्दकैश्च तथार्जुनैः ॥

118.7

हस्तिकर्णैः सुमनसैः कोविदारैः सुपुष्पितैः
प्राचीनामलकैश्चापि धनकैः समराटकैः ॥

118.8

खर्जूरैर्नारिकेलैश्च प्रियालाम्रातकेङ्गुदैः
तन्तुमालैर् धवैर्भव्यैः काश्मीरीपर्णिभिस्तथा ॥

118.9

जातीफलैः पूगफलैः कट्फलैलावलीफलैः
मन्दारैः कोविदारैश्च किंशुकैः कुसुमांशुकैः ॥

118.10

यवासैः शमिपर्णासैर् वेतसैर् अम्बुवेतसैः
रक्तातिरङ्गनारङ्गैर् हिङ्गुभिः सप्रियङ्गुभिः ॥

118.11

रक्ताशोकैस् तथाशोकैर् आकल्लैर् अविचारकैः
मुचुकुन्दैस्तथा कुन्दैर् आटरूषपरूषकैः ॥

118.12

किरातैः किङ्किरातैश्च केतकैः श्वेतकेतकैः
शोभाञ्जनैर् अञ्जनैश्च सुकलिङ्गनिकोटकैः ॥

118.13

सुवर्णचारुवसनैर् द्रुमश्रेष्ठैस् तथासनैः
मन्मथस्य शराकारैः सहकारैर्मनोरमैः ॥

118.14

पीतयूथिकया चैव श्वेतयूथिकया तथा
जात्या चम्पकजात्या च तुम्बरैश्चाप्यतुम्बरैः ॥

118.15

मोचैर्लोचैस्तु लकुचैस् तिलपुष्पकुशेशयैः
तथा सुपुष्पावरणैश् चव्यकैः कामिवल्लभैः ॥

118.16

पुष्पाङ्कुरैश्च बकुलैः पारिभद्रहरिद्रकैः
धाराकदम्बैः कुटजैः कदम्बैर् गिरिकुटजैः ॥

118.17

आदित्यमुस्तकैः कुम्भैः कुङ्कुमैः कामवल्लभैः
कट्फलैर्बदरैर्नीपैर् दीपैरिव महोज्ज्वलैः ॥

118.18

रक्तैः पालीवनैः श्वेतैर् दाडिमैश्चम्पकद्रुमैः
बन्धूकैश्च सुबन्धूकैः कुञ्जकानां तु जातिभिः ॥

118.19

कुसुमैः पाटलाभिश्च मल्लिकाकरवीरकैः
कुरबकैर् हिमवरैर् जम्बूभिर् नृपजम्बुभिः ॥

118.20

बीजपूरैः सकर्पूरैर् गुरुभिश्चागुरुद्रुमैः
बिम्बैश्च प्रतिबिम्बैश्च संतानकवितानकैः ॥

118.21

तथा गुग्गुलवृक्षैश्च हिन्तालधवलेक्षुभिः
तृणशून्यैः करवीरैर् अशोकैश् चक्रमर्दनैः ॥

118.22

पीलुभिर्धातकीभिश्च चिरिबिल्वैः समाकुलैः
तिन्तिडीकैस्तथा लोध्रैर् विडङ्गैः क्षीरिकाद्रुमैः ॥

118.23

अश्मन्तकैस्तथा कालैर् जम्बीरैः श्वैतकद्रुमैः
भल्लातकैरिन्द्रयवैर् वल्गुजैः सिद्धिसाधकैः ॥

118.24

नागकेसरवृक्षैश्च सुकेसरमनोहरैः
करमर्दैः कासमर्दैर् अरिष्टकवरिष्टकैः
रुद्राक्षैर्द्राक्षसम्भूतैः सप्ताह्वैः पुत्रजीवकैः ॥

118.25

कङ्कोलकैर्लवङ्गैश्च त्वग्द्रुमैः पारिजातकैः
प्रतानैः पिप्पलीनां च नागवल्यश्च भागशः ॥

118.26

मरीचस्य तथा गुल्मैर् नवमल्लिकया तथा
मृद्वीकामण्डपैर्मुख्यैर् अतिमुक्तकमण्डपैः ॥

118.27

त्रपुषैर्नर्तिकानां च प्रतानैः सफलैः शुभैः
कूष्माण्डानां प्रतानैश्च अलाबूनां तथा क्वचित् ॥

118.28

चिर्भिटस्य प्रतानैश्च पटोलीकारवेल्लकैः
कर्कोटकीवितानैश्च वार्ताकैर् बृहतीफलैः ॥

118.29

कण्टकैर् मूलकैर्मूल शाकैस्तु विविधैस्तथा
कह्लारैश्च विदार्या च रुरूटैः स्वादुकण्टकैः ॥

118.29*

सभाण्डीरविदूसार राजजम्बूकवालुकैः
सुवर्चलाभिः सर्वाभिः सर्षपाभिस्तथैव च ॥

118.29**

काकोलीक्षीरकाकोली छत्त्रया चातिच्छत्रया
कासमर्दीसहासद्भिः सकन्दलसकाण्डकैः ॥

118.29***

तथा क्षीरकशाकेन कालशाकेन चाप्यथ
शिम्बीधान्यैस्तथा धान्यैः सर्वैर्निरवशेषतः ॥

118.30

औषधीभिर्विचित्राभिर् दीप्यमानाभिरेव च
आयुष्याभिर्यशस्याभिर् बल्याभिश्च नराधिप ॥

118.31

जरामृत्युभयघीभिः क्षुद्भयघ्नीभिरेव च
सौभाग्यजननीभिश्च कुत्स्नाभिश्चाप्यनेकशः ॥

118.32

तत्र वेणुलताभिश्च तथा कीचकवेणुभिः
काशैः शशाङ्ककाशैश्च शरगुल्मैस्तथैव च ॥

118.33

कुशगुल्मैस्तथा रम्यैर् गुल्मैश्चेक्षोर् मनोरमैः
कार्पासजातिवर्गेण दुर्लभेन शुभेन च ॥

118.34

तथा च कदलीखण्डैर् मनोहारिभिरुत्तमैः
तथा मरकतप्रख्यैः प्रदेशैः शाद्वलान्वितैः ॥

118.35

इरापुंष्पसमायुक्तैः कुङ्कमस्य च भागशः
तगरातिविषामांसी ग्रन्थिकैस्तु सुरागदैः ॥

118.36

सुवर्णपुष्पैश्च तथा भूमिपुष्पैस्तथापरैः
जम्बीरकैर्भूस्तृणकैः सरसैः सशुकैस्तथा ॥

118.37

शङ्गवेराजमोदाभिः कुबेरकप्रियालकैः
जलजैश्च तथा वणैर् नानावर्णैः सुगन्धिभिः ॥

118.38

उदयादित्यसंकाशैः सूर्यचन्द्रनिभैस्तथा
तपनीयसवर्णैश्च अतसीपुष्पसंनिभैः ॥

118.39

शूकपत्त्रनिभैश्चान्यैः स्थलपत्त्रैश्च भागशः
पञ्चवर्णैः समाकीर्णैर् बहुवर्णैस्तथैव च ॥

118.40

द्रष्टुर्दृष्ट्या हितमुदैः कुमुदैश्चन्द्रसंनिभैः
तथा वह्निशिखाकारैर् गजवक्त्रोत्पलैः शुभैः ॥

118.41

नीलोत्पलैः सकह्लारैर् गुञ्जातककसेरुकैः
शृङ्गाटकमृणालैश्च करटै राजतोत्पलैः ॥

118.42

जलजैः स्थलजैर्मूलैः फलैः पुष्पैर्विशेषतः
विविधैश्चैव नीवारैर् मुनिभोज्यैर्नराधिप ॥

118.43

न तद्धान्यं न तत्सस्यं न तच्छाकं न तत्फलम्
न तन्मूलं न तत्कन्दं न तत्पुष्पं नराधिप ॥

118.44

नागलोकोद्भवं दिव्यं नरलोकभवं च यत्
अनूपोत्थं वनोत्थं च तत्र यन्नास्ति पार्थिवः ॥

118.45

सदा पुष्पफलं सर्वम् अजर्यम् ऋतुयोगतः
मद्रेश्वरः स ददृशे तपसा ह्यतियोगतः ॥

118.46

ददृशे च तथा तत्र नानारूपान् पतत्रिणः
मयूरान् शतपत्त्रांश्च कलविङ्कांश्च कोकिलान् ॥

118.47

तथा कादम्बकान्हंसान् कोयष्टीन् खञ्जरीटकान्
कुररान्कालकूटांश्च खट्वाङ्गान् लुब्धकांस् तथा ॥

118.48

गोक्ष्वेडकांस्तथा कुम्भान् धार्तराष्ट्राञ्शुकान्बकान्
घातुकांश्चक्रवाकांश्च कटुकान्टिट्टिभान् भटान् ॥

118.49

पुत्रप्रियान् लोहपृष्ठान् गोचर्मगिरिवर्तकान्
पारावतांश्च कमलान् सारिका जीवजीवकान् ॥

118.50

लाववर्तकवार्ताकान् रक्तवर्त्मप्रभद्रकान्
ताम्रचूडान्स्वर्णचूडान् कुक्कुटान् काष्ठकुक्कुटान् ॥

118.51

कपिञ्जलान्कलविङ्कांस् तथा कुङ्कुमचूडकान्
भृङ्गराजान् सीरपादान् भूलिङ्गान् डिण्डिमान् नवान् ॥

118.52

मञ्जुलीतकदात्यूहान् भारद्वाजांस्तथा चषान्
एतांश्चान्यांश्च सुबहून् पक्षिसंघान्मनोहरान् ॥

118.53

श्वापदान्विविधाकारान् मृगांश्चैव महामृगान्
व्याघ्रान्केसरिणः सिंहान् द्वीपिनः शरभान्वृकान् ॥

118.54

ऋक्षांस्तरक्षूंश्च बहून् गोलाङ्गूलान् सवानरान्
शशलोमान् सकादम्बान् मार्जारान् वायुवेगिनः ॥

118.55

मूषकान्नकुलान् कावान् सिंहान् द्रुममनोहरान्
तथा मत्तांश्च मातंगान् महिषान् गवयान् वृषान्
चमरान् सृमरांश्चैव तथा गौरखरानपि ॥

118.56

उरभ्रांश्च तथा मेषान् सारङ्गानथ कूकुरान्
नीलांश्चैव महानालान् करालान्मृगमातृकान् ॥

118.57

सदंष्ट्रारामसरभान् क्रौञ्चाकारकशम्बरान्
करालान्कृतमालांश्च कालपुच्छांश्च तोरणान् ॥

118.58

दंष्ट्रान्खड्गान्वराहांश्च तुरंगान्खरगर्दभान्
एतान् अद्विष्टान्मद्रेशो विरुद्धांश्च परस्परम् ॥

118.59

अविरुद्धान्वने दृष्ट्वा विस्मयं परमं ययौ
तच्चाश्रमपदं पुण्यं बभूवात्रेः पुरा नृपम् ॥

118.60

तत्प्रसादात्प्रभायुक्तं स्थावरैर्जङ्गमैस्तथा
हिंसन्ति हि न चान्योन्यं हिंसकास्तु परस्परम् ॥

118.61

क्रव्यादाः प्राणिनस्तत्र सर्वे क्षीरफलाशनाः
निर्मितास्तत्र चात्यर्थम् अत्रिणा सुमहात्मना ॥

118.62

शैलानितम्बदेशेषु न्यवसच्च स्वयं नृपः
पयः क्षरन्ति ते दिव्यम् अमृतस्वादुकण्टकम् ॥

118.63

क्वचिद्राजन्महिष्यश्च क्वचिदाजाश्च सर्वशः
शिलाः क्षीरेण सम्पूर्णा दध्ना चान्यत्र वा बहिः ॥

118.64

संपश्यन्परमां प्रीतिम् अवाप वसुधाधिपः
सरांसि तत्र दिव्यानि नद्यश्च विमलोदकाः ॥

118.65

प्रणालिकानि चोष्णानि शीतलानि च भागशः
कन्दराणि च शैलस्य सुसेव्यानि पदे पदे ॥

118.66

हिमपातो न तत्रास्ति समन्तात्पञ्चयोजनम्
उपत्यका सुशैलस्य शिखरस्य न विद्यते ॥

118.67

तत्रास्ति राजञ्छिखरं पर्वतेन्द्रस्य पाण्डुरम्
हिमपातं घना यत्र कुर्वन्ति सहिताः सदा ॥

118.68

तत्रास्ति चापरं शृङ्गं यत्र तोयघना घनाः
नित्यमेवाभिवर्षन्ति शिलाभिः शिखरं वरम् ॥

118.69

तदाश्रमं मनोहारि यत्र कामधरा धरा
सुरमुख्योपयोगित्वाच् छाखिनां सफलाः फलाः ॥

118.70

सदोपगीतभ्रमर सुरस्त्रीसेवितं परम्
सर्वपापक्षयकरं शैलस्येव प्रहारकम् ॥

118.71

वानरैः क्रीडमानैश्च देशाद्देशान्नराधिप
हिमपुञ्जाः कृतास्तत्र चन्द्रबिम्बसमप्रभाः ॥

118.72

तदाश्रमं समन्ताच्च हिमसंरुद्धकन्दरैः
शैलवाटैः परिवृतम् अगम्यं मनुजैः सदा ॥

118.73

पूर्वाराधितभावो ऽसौ महाराजः पुरूरवाः
तदाश्रमपदं प्राप्तो देवदेवप्रसादतः ॥

118.74

तदाश्रमं श्रमशमनं मनोहरं मनोहरैः कुसुमशतैरलंकृतम्
कृतं स्वयं रुचिरमथात्रिणा शुभं शुभावहं च हि ददृशे स मद्रराट् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc