भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 117

117.1

आलोकयन्नदीं पुण्यां तत्समीरहृतश्रमः
स गच्छन्नेव ददृशे हिमवन्तं महागिरिम् ॥

117.2

खमुल्लिखद्भिर्बहुभिर् वृतं शृङ्गैस्तु पाण्डुरैः
पक्षिणामपि संचारैर् विना सिद्धगतिं शुभाम् ॥

117.3

नदीप्रवाहसंजात महाशब्दैः समन्ततः
असंश्रुतान्यशब्दं तं शीततोयं मनोरमम् ॥

117.4

देवदारुवनैर्नीलैः कृताधोवसनं शुभम्
मेघोत्तरीयकं शैलं ददृशे स नराधिपः ॥

117.5

श्वेतमेघकृतोष्णीषं चन्द्रार्कमुकुटं क्वचित्
हिमानुलिप्तसर्वाङ्गं क्वचिद्धातुविमिश्रितम् ॥

117.6

चन्दनेनानुलिप्ताङ्गं दत्तपञ्चाङ्गुलं यथा
शीतप्रदं निदाघे ऽपि शिलाविकटसंकटम्
सालक्तकैरप्सरसां मुद्रितं चरणैः क्वचित् ॥

117.7

क्वचित्संस्पृष्टसूर्यांशुं क्वचिच् च तमसावृतम्
दरीमुखैः क्वचिद्भीमैः पिबन्तं सलिलं महत् ॥

117.8

क्वचिद्विद्याधरगणैः क्रीडद्भिरुपशोभितम्
उपगीतं तथा मुख्यैः किंनराणां गणैः क्वचित् ॥

117.9

आपानभूमौ गलितैर् गन्धर्वाप्सरसां क्वचित्
पुष्पैः संतानकादीनां दिव्यैस्तम् उपशोभितम् ॥

117.10

सुप्तोत्थिताभिः शय्याभिः कुसुमानां तथा क्वचित्
मृदिताभिः समाकीर्णं गन्धर्वाणां मनोरमम् ॥

117.11

निरुद्धपवनैर्देशैर् नीलशाद्वलमण्डितैः
क्वचिच् च कुसुमैर्युक्तम् अत्यन्तरुचिरं शुभम् ॥

117.12

तपस्विशरणं शैलं कामिनामतिदुर्लभम्
मृगैर्यथानुचरितं दन्तिभिन्नमहाद्रुमम् ॥

117.13

यत्र सिंहनिनादेन त्रस्तानां भैरवं रवम्
दृश्यते न च संश्रान्तं गजानामाकुलं कुलम् ॥

117.14

तटाश्च तापसैर्यत्र कुञ्जदेशैरलंकृताः
रत्नैर्यस्य समुत्पन्नैस् त्रैलोक्यं समलंकृतम् ॥

117.15

अहीनशरणं नित्यम् अहीनजनसेवितम्
अहीनः पश्यति गिरिम् अहीनं रत्नसम्पदा ॥

117.16

अल्पेन तपसा यत्र सिद्धिं प्राप्स्यन्ति तापसाः
यस्य दर्शनमात्रेण सर्वकल्मषनाशनम् ॥

117.17

महाप्रपातसम्पात प्रपातादिगताम्बुभिः
वायुनीतैः सदा तृप्ति कृतदेशं क्वचित्क्वचित् ॥

117.18

समालब्धजलैः शृङ्गैः क्वचिच् चापि समुच्छ्रितैः
नित्यार्कतापविषमैर् अगम्यैर्मनसा युतम् ॥

117.19

देवदारुमहावृक्ष व्रजशाखानिरन्तरैः
वंशस्तम्बवनाकारैः प्रदेशैरुपशोभितम् ॥

117.20

हिमछत्त्रमहाशृङ्गं प्रपातशतनिर्झरम्
शब्दलभ्याम्बुविषमं हिमसंरुद्धकन्दरम् ॥

117.21

दृष्ट्वैव तं चारुनितम्बभूमिं महानुभावः स तु मद्रनाथः
बभ्राम तत्रैव मुदा समेतः स्थानं तदा किंचिदथाससाद ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc