मत्स्य पुराण · अध्याय 114
यदिदं भारतं वर्षं यस्मिन् स्वायम्भुवादयः
चतुर्दशैव मनवः प्रजासर्गं ससर्जिरे ॥
एतद् वेदितुम् इच्छामः सकाशात्तव सुव्रत
उत्तरश्रवणं भूयः प्रब्रूहि वदतां वर ॥
एतच्छ्रुत्वा ऋषीणां तु प्राब्रवील्लौमहर्षणिः
पौराणिकस्तदा सूत ऋषीणां भावितात्मनाम् ॥
बुद्ध्या विचार्य बहुधा विमृश्य च पुनः पुनः
तेभ्यस्तु कथयामास उत्तरश्रवणं तदा ॥
अथाहं वर्णयिष्यामि वर्षे ऽस्मिन्भारते प्रजाः
भरणात्प्रजनाच्चैव मनुर्भरत उच्यते ॥
निरुक्तवचनैश्चैव वर्षं तद्भारतं स्मृतम्
यतः स्वर्गश्च मोक्षश्च मध्यमश्चापि हि स्मृतः ॥
न खल्वन्यत्र मर्त्यानां भूमौ कर्मविधिः स्मृतः
भारतस्यास्य वर्षस्य नव भेदान्निबोधत ॥
इन्द्रद्वीपः कशेरुश्च ताम्रपर्णो गभस्तिमान्
नागद्वीपस्तथा सौम्यो गन्धर्वस्त्वथ वारुणः ॥
अयं तु नवमस्तेषां द्वीपः सागरसंवृतः
योजनानां सहस्रं तु द्वीपो ऽयं दक्षिणोत्तरः ॥
आयतस्तु कुमारीतो गङ्गायाः प्रवहावधिः
तिर्यगूर्ध्वं तु विस्तीर्णः सहस्राणि दशैव तु ॥
द्वीपो ह्युपनिविष्टो ऽयं म्लेच्छैरन्तेषु सर्वशः
यवनाश्च किराताश्च तस्यान्ते पूर्वपश्चिमे ॥
ब्राह्मणाः क्षत्रिया वैश्या मध्ये शूद्राश्च भागशः
इज्यायुतवणिज्यादि वर्तयन्तो व्यवस्थिताः ॥
तेषां स व्यवहारो ऽयं वर्तनं तु परस्परम्
धर्मार्थकामसंयुक्तो वर्णानां तु स्वकर्मसु ॥
संकल्पपञ्चमानां तु आश्रमाणां यथाविधि
इह स्वर्गापवर्गार्थं प्रवृत्तिरिह मानुषे ॥
यस्त्वयं मानवो द्वीपस् तिर्यग्यामः प्रकीर्तितः
य एनं जयते कृत्स्नं स सम्राडिति कीर्तितः ॥
अयं लोकस्तु वै सम्राड् अन्तरिक्षजितां स्मृतः
स्वराडसौ स्मृतो लोकः पुनर्वक्ष्यामि विस्तरात् ॥
सप्त चास्मिन्महावर्षे विश्रुताः कुलपर्वताः
महेन्द्रो मलयः सह्यः शुक्तिमानृक्षवानपि ॥
विन्ध्यश्च पारियात्रश्च इत्येते कुलपर्वताः
तेषां सहस्रशश्चान्ये पर्वतास्तु समीपतः ॥
अभिज्ञातास्ततश्चान्ये विपुलाश्चित्रसानवः
अन्ये तेभ्यः परिज्ञाता ह्रस्वा ह्रस्वोपजीविनः ॥
तैर्विमिश्रा जानपदा आर्या म्लेच्छाश्च सर्वतः
पिबन्ति बहुला नद्यो गङ्गा सिन्धुः सरस्वती ॥
शतद्रुश्चन्द्रभागा च यमुना सरयूस्तथा
ऐरावती वितस्ता च विशाला देविका कुहूः ॥
गोमती धौतपापा च बाहुदा च दृषद्वती
कौशिकी तु तृतीया च निश्चला गण्डकी तथा ॥
इक्षुर्लौहितम् इत्येता हिमवत्पार्श्वनिःसृताः
वेदस्मृतिर् वेत्रवती वृत्रघ्नी सिन्धुरेव च
पर्णाशा नर्मदा चैव कावेरी महती तथा ॥
पारा च धन्वतीरूपा विदुषा वेणुमत्यपि
शिप्रा ह्यवन्ती कुन्ती च पारियात्राश्रिताः स्मृताः ॥
शोणो महानदश्चैव नन्दना सुकृशा क्षमा
मन्दाकिनी दशार्णा च चित्रकूटा तथैव च
तमसा पिप्पली श्येनी तथा चित्रोत्पलापि च ॥
विमला चञ्चला चैव तथा च धूतवाहिनी
शुक्तिमन्ती शुनी लज्जा मुकुटा ह्रादिकापि च
ऋष्यवन्तप्रसूतास् ता नद्यो ऽमलजलाः शुभाः ॥
तापी पयोष्णी निर्विन्ध्या क्षिप्रा च ऋषभा नदी
वेणा वैतरणी चैव विश्वमाला कुमुद्वती ॥
तोया चैव महागौरी दुर्गमा तु शिला तथा
विन्ध्यपादप्रसूतास् ताः सर्वाः शीतजलाः शुभाः ॥
गोदावरी भीमरथी कृष्णवेणी च वञ्जुला
तुङ्गभद्रा सुप्रयोगा वाह्या कावेरी चैव तु
दक्षिणापथनद्यस्ताः सह्यपादाद्विनिःसृताः ॥
कृतमाला ताम्रपर्णी पुष्पजा ह्युत्पलावती
मलयप्रसूता नद्यस् ताः सर्वाः शीतजलाः शुभाः ॥
त्रिभागा ऋषिकुल्या च इक्षुदा त्रिदिवाचला
ताम्रपर्णी तथा मूली शरवा विमला तथा
महेन्द्रतनयाः सर्वाः प्रख्याताः शुभगामिनीः ॥
काशिका सुकुमारी च मन्दगा मन्दवाहिनी
कृपा च पाशिनी चैव शुक्तिमन्तात्मजास् तु ताः ॥
सर्वाः पुण्यजलाः पुण्याः सर्वगाश्च समुद्रगाः
विश्वस्य मातरः सर्वाः सर्वपापहराः शुभाः ॥
तासां नद्युपनद्यश्च शतशो ऽथ सहस्रशः
तास्विमे कुरुपाञ्चालाः शाल्वाश्चैव सजाङ्गलाः ॥
शूरसेना भद्रकारा बाह्याः सहपटच्चराः
मत्स्याः किराताः कुल्याश्च कुन्तलाः काशिकोशलाः ॥
आवन्ताश्च कलिङ्गाश्च मूकाश्चैवान्धकैः सह
मध्यदेशा जनपदाः प्रायशः परिकीर्तिताः ॥
सह्यस्यानन्तरे चैते तत्र गोदावरी नदी
पृथिव्यामपि कृत्स्नायां स प्रदेशो मनोरमः ॥
यत्र गोवर्धनो नाम मन्दरो गन्धमादनः
रामप्रियार्थं स्वर्गीया वृक्षा दिव्यास्तथौषधीः ॥
भरद्वाजेन मुनिना प्रियार्थमवतारिताः
ततः पुष्पवरो देशस् तेन जज्ञे मनोरमः ॥
वाह्लीका वाटधानाश्च आभीराः कालतोयकाः
पुरंध्राश्चैव शूद्राश्च पल्लवाश् चात्तखण्डिकाः ॥
गान्धारा यवनाश्चैव सिन्धुसौवीरमद्रकाः
शका द्रुह्याः पुलिन्दाश्च पारदाहारमूर्तिकाः ॥
रामठाः कण्टकाराश्च कैकेया दशनामकाः
क्षत्रियोपनिवेश्याश्च वैश्याः शूद्रकुलानि च ॥
अत्रयो ऽथ भरद्वाजाः प्रस्थलाः सदसेरकाः
लम्पकास् तलगानाश्च सैनिकाः सह जाङ्गलैः
एते देशा उदीच्यास्तु प्राच्यान्देशान्निबोधत ॥
अङ्गा वङ्गा मद्गुरका अन्तर्गिरिबहिर्गिरी
ततः प्लवंगमातंगा यमका मल्लवर्णकाः
सुह्मोत्तराः प्रविजया मार्गवा गेयमालवाः ॥
प्राग्ज्योतिषाश्च पुण्ड्राश्च विदेहास्ताम्रलिप्तकाः
शाल्वमागधगोनर्दाः प्राच्या जनपदाः स्मृताः ॥
तेषां परे जनपदा दक्षिणापथवासिनः
पाण्ड्याश्च केरलाश्चैव चोलाः कुल्यास्तथैव च ॥
सेतुकाः सूतिकाश्चैव कुपथां वाजिवासिकाः
नवराष्ट्रा माहिषिकाः कलिङ्गाश्चैव सर्वशः ॥
कारूषाश्च सहैषीका आटव्याः शबरास्तथा
पुलिन्दा विन्ध्यपुषिका वैदर्भा दण्डकैः सह ॥
कुलीयाश्च सिरालाश्च रूपसास् तापसैः सह
तथा तैत्तिरिकाश्चैव सर्वे कारस्करास्तथा ॥
वासिक्याश्चैव ये चान्ये ये चैवान्तरनर्मदाः
भारुकच्छाः समाहेयाः सह सारस्वतैस्तथा ॥
काच्छीकाश्चैव सौराष्ट्रा आनर्ता अर्बुदैः सह
इत्येते अपरान्तास्तु शृणु ये विन्ध्यवासिनः ॥
मालवाश्च करूषाश्च मेकलाश्चोत्कलैः सह
औण्ड्रा माषा दशार्णाश्च भोजाः किष्किन्धकैः सह ॥
स्तोशलाः कोसलाश्चैव त्रैपुरा वैदिशास्तथा
तुमुरास् तुम्बराश्चैव पद्गमा नैषधैः सह ॥
अरूपाः शौण्डिकेराश्च वीतिहोत्रा अवन्तयः
एते जनपदाः ख्याता विन्ध्यपृष्ठनिवासिनः ॥
अतो देशान्प्रवक्ष्यामि पर्वताश्रयिणश्च ये
निराहाराः सर्वगाश्च कुपथा अपथास्तथा ॥
कुथप्रावरणाश्चैव ऊर्णादवाः समुद्गकाः
त्रिगर्ता मण्डलाश्चैव किराताश्चामरैः सह ॥
चत्वारि भारते वर्षे युगानि मुनयो ऽब्रुवन्
कृतं त्रेता द्वापरं च कलिश्चेति चतुर्युगम्
तेषां निसर्गं वक्ष्यामि उपरिष्टाच्च कृत्स्नशः ॥
एतच्छ्रुत्वा तु ऋषय उत्तरं पुनरेव ते
शुश्रूषवस्तमूचुस्ते प्रकामं लौमहर्षणिम् ॥
यच्च किम्पुरुषं वर्षं हरिवर्षं तथैव च
आचक्ष्व नो यथातत्त्वं कीर्तितं भारतं त्वया ॥
जम्बूखण्डस्य विस्तारं तथान्येषां विदांवर
द्वीपानां वासिनां तेषां वृक्षाणां प्रब्रवीहि नः ॥
पृष्टस्त्वेवं तदा विप्रैर् यथाप्रश्नं विशेषतः
उवाच ऋषिभिर्दृष्टं पुराणाभिमतं तथा ॥
शुश्रूषवस्तु यद्विप्राः शुश्रूषध्वमतन्द्रिताः
जम्बूवर्षः किम्पुरुषः सुमहानन्दनोपमः ॥
दश वर्षसहस्राणि स्थितिः किम्पुरुषे स्मृता
जायन्ते मानवास्तत्र सुतप्तकनकप्रभाः ॥
वर्षे किम्पुरुषे पुण्ये प्लक्षो मधुवहः स्मृतः
तस्य किम्पुरुषाः सर्वे पिबन्तो रसमुत्तमम् ॥
अनामया ह्यशोकाश्च नित्यं मुदितमानसाः
सुवर्णवर्णाश्च नराः स्त्रियश्चाप्सरसः स्मृताः ॥
ततः परं किम्पुरुषाद् धरिवर्षं प्रचक्षते
महारजतसंकाशा जायन्ते यत्र मानवाः ॥
देवलोकच्युताः सर्वे बहुरूपाश्च सर्वशः
हरिवर्षे नराः सर्वे पिबन्तीक्षुरसं शुभम् ॥
न जरा बाधते तत्र तेन जीवन्ति ते चिरम्
एकादश सहस्राणि तेषामायुः प्रकीर्तितम् ॥
मध्यमं तन्मया प्रोक्तं नाम्ना वर्षमिलावृतम्
न तत्र सूर्यस्तपति न च जानन्ति मानवाः ॥
चन्द्रसूर्यौ सनक्षत्राव् अप्रकाशाविलावृते
पद्मप्रभाः पद्मवर्णाः पद्मपत्त्रनिभेक्षणाः ॥
पद्मगन्धाश्च जायन्ते तत्र सर्वे च मानवाः
जम्बूफलरसाहारा अनिष्पन्दाः सुगन्धिनः ॥
देवलोकच्युताः सर्वे महारजतवाससः
त्रयोदश सहस्राणि वर्षाणां ते नरोत्तमाः ॥
आयुष्प्रमाणं जीवन्ति ये तु वर्ष इलावृते
मेरोस्तु दक्षिणे पार्श्वे निषधस्योत्तरेण वा ॥
सुदर्शनो नाम महाञ् जम्बूवृक्षः सनातनः
नित्यपुष्पफलोपेतः सिद्धचारणसेवितः ॥
तस्य नाम्ना समाख्यातो जम्बूद्वीपो वनस्पतेः
योजनानां सहस्रं च शतधा च महान्पुनः ॥
उत्सेधो वृक्षराजस्य दिवम् आवृत्य तिष्ठति
तस्य जम्बूफलरसो नदी भूत्वा प्रसर्पति ॥
मेरुं प्रदक्षिणं कृत्वा जम्बूमूलगता पुनः
तं पिबन्ति सदा हृष्टा जम्बूरसमिलावृते ॥
जम्बूफलरसं पीत्वा न जरा बाधते ऽपि तान्
न क्षुधा न क्लमो वापि न दुःखं च तथाविधम् ॥
तत्र जाम्बूनदं नाम कनकं देवभूषणम्
इन्द्रगोपकसंकाशं जायते भासुरं च यत् ॥
सर्वेषां वर्षवृक्षाणां शुभः फलरसस्तु सः
स्कन्नं तु काञ्चनं शुभ्रं जायते देवभूषणम् ॥
तेषां मूत्रं पुरीषं वा दिक्ष्वष्टासु च सर्वशः
ईश्वरानुग्रहाद्भूमिर् मृतांश्च ग्रसते तु तान् ॥
रक्षःपिशाचा यक्षाश्च सर्वे हैमवतास्तु ते
हेमकूटे तु विज्ञेया गन्धर्वाः साप्सरोगणाः ॥
सर्वे नागा निषेवन्ते शेषवासुकितक्षकाः
महामेरौ त्रयस्त्रिंशत् क्रीडन्ते यज्ञियाः शुभाः ॥
नीलवैडूर्ययुक्ते ऽस्मिन् सिद्धा ब्रह्मर्षयो ऽवसन्
दैत्यानां दानवानां च श्वेतः पर्वत उच्यते ॥
शृङ्गवान् पर्वतश्रेष्ठः पितॄणां प्रतिसंचरः
इत्येतानि मयोक्तानि नववर्षाणि भारते ॥
भूतैरपि निविष्टानि गतिमन्ति ध्रुवाणि च
तेषां वृद्धिर्बहुविधा दृश्यते देवमानुषैः
अशक्या परिसंख्यातुं श्रद्धेया च बुभूषता ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0