भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 115

115.1

चरितं बुधपुत्रस्य जनार्दन मया श्रुतम्
श्रुतः श्राद्धविधिः पुण्यः सर्वपापप्रणाशनः ॥

115.2

धेन्वाः प्रसूयमानायाः फलं दानस्य मे श्रुतम्
कृष्णाजिनप्रदानं च वृषोत्सर्गस्तथैव च ॥

115.3

श्रुत्वा रूपं नरेन्द्रस्य बुधपुत्रस्य केशव
कौतूहलं समुत्पन्नं तन्ममाचक्ष्व पृच्छतः ॥

115.4

केन कर्मविपाकेन स तु राजा पुरूरवाः
अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम् ॥

115.5

देवांस्त्रिभुवनश्रेष्ठान् गन्धर्वांश्च मनोरमान्
उर्वशी संमता त्यक्त्वा सर्वभावेन तं नृपम् ॥

115.6

शृणु कर्मविपाकेन येन राजा पुरूरवाः
अवाप तादृशं रूपं सौभाग्यमपि चोत्तमम् ॥

115.7

अतीते जन्मनि पुरा यो ऽयं राजा पुरूरवाः
पुरूरवा इति ख्यातो मद्रदेशाधिपो हि सः ॥

115.8

चाक्षुषस्यान्वये राजा चाक्षुषस्यान्तरे मनोः
स वै नृपगुणैर्युक्तः केवलं रूपवर्जितः ॥

115.9

पुरूरवा मद्रपतिः कर्मणा केन पार्थिवः
बभूव कर्मणा केन रूपवांश्चैव सूतज ॥

115.10

द्विजग्रामे द्विजश्रेष्ठो नाम्ना चासीत्पुरूरवाः
नद्याः कूले महाराजः पूर्वजन्मनि पार्थिवः ॥

115.11

स तु मद्रपती राजा यस्तु नाम्ना पुरूरवाः
तस्मिञ्जन्मन्यसौ विप्रो द्वादश्यां तु सदानघ ॥

115.12

उपोष्य पूजयामास राज्यकामो जनार्दनम्
चकार सोपवासश्च स्नानम् अभ्यङ्गपूर्वकम् ॥

115.13

उपवासफलात्प्राप्तं राज्यं मद्रेष्वकण्टकम्
उपोषितस् तथाभ्यङ्गाद् रूपहीनो व्यजायत ॥

115.14

उपोषितैर्नरैस् तस्मात् स्नानम् अभ्यङ्गपूर्वकम्
वर्जनीयं प्रयत्नेन रूपघ्नं तत्परं नृप ॥

115.15

एतद्वः कथितं सर्वं यद्वृत्तं पूर्वजन्मनि
मद्रेश्वरत्वचरितं शृणु तस्य महीपतेः ॥

115.16

तस्य राजगुणैः सर्वैः समुपेतस्य भूपतेः
जनानुरागो नैवासीद् रूपहीनस्य तस्य वै ॥

115.17

रूपकामः स मद्रेशस् तपसे कृतनिश्चयः
राज्यं मन्त्रिगतं कृत्वा जगाम हिमपर्वतम् ॥

115.18

व्यवसायद्वितीयस्तु पद्भ्यम् एव महायशाः
द्रष्टुं स तीर्थसदनं विषयान्ते स्वके नदीम् ॥

115.19

ऐरावतीति विख्यातां ददर्शातिमनोरमाम् ॥

115.20

तुहिनगिरिभवां महौघवेगां तुहिनगभस्तिसमानशीतलोदाम् ॥

115.21

तुहिनसदृशहैमवर्णपुञ्जां तुहिनयशाः सरितं ददर्श राजा ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc