मत्स्य पुराण · अध्याय 113
कति द्वीपाः समुद्रा वा पर्वता वा कति प्रभो
कियन्ति चैव वर्षाणि तेषु नद्यश्च काः स्मृताः ॥
महाभूमिप्रमाणं च लोकालोकस्तथैव च
पर्याप्तिं परिमाणं च गतिश्चन्द्रार्कयोस्तथा ॥
एतद्ब्रवीहि नः सर्वं विस्तरेण यथार्थवित्
त्वदुक्तमेतत्सकलं श्रोतुमिच्छामहे वयम् ॥
द्वीपभेदसहस्राणि सप्त चान्तर्गतानि च
न शक्यन्ते क्रमेणेह वक्तुं वै सकलं जगत् ॥
सप्तैव तु प्रवक्ष्यामि चन्द्रादित्यग्रहैः सह
तेषां मनुष्यतर्केण प्रमाणानि प्रचक्षते ॥
अचिन्त्याः खलु ये भावास् तांस्तु तर्केण साधयेत्
प्रकृतिभ्यः परं यच्च तदचिन्त्यस्य लक्षणम् ॥
सप्त वर्षाणि वक्ष्यामि जम्बूद्वीपं यथाविधम्
विस्तरं मण्डलं यच्च योजनैस्तान्निबोधत ॥
योजनानां सहस्राणि शतं द्वीपस्य विस्तरः
नानाजनपदाकीर्णं पुरैश्च विविधैः शुभैः ॥
सिद्धचारणसंकीर्णं पर्वतैरुपशोभितम्
सर्वधातुपिनद्धैस्तैः शिलाजालसमुद्गतैः ॥
पर्वतप्रभवाभिश्च नदीभिस्तु समन्ततः
प्रागायता महापार्श्वाः षडिमे वर्षपर्वताः ॥
अवगाह्य ह्युभयतः समुद्रौ पूर्वपश्चिमौ
हिमप्रायश्च हिमवान् हेमकूटश्च हेमवान् ॥
सर्वतः सुमुखश्चापि निषधः पर्वतो महान्
चातुर्वर्ण्यस्तु सौवर्णो मेरुश्चोल्बमयः स्मृतः
चतुर्विंशत्सहस्राणि विस्तीर्णः स चतुर्दिशम् ॥
वृत्ताकृतिप्रमाणश्च चतुरस्रः समाहितः
नानावर्णैः समः पार्श्वैः प्रजापतिगुणान्वितः ॥
नाभीबन्धनसम्भूतो ब्रह्मणो ऽव्यक्तजन्मनः
पूर्वतः श्वेतवर्णस्तु ब्राह्मण्यं तस्य तेन वै ॥
पीतश्च दक्षिणेनासौ तेन वैश्यत्वमिष्येत
भृङ्गिपत्त्रीनभश् चैव पश्चिमेन समन्वितः
तेनास्य शूद्रता सिद्धा मेरोर् नामार्थकर्मतः ॥
पार्श्वमुत्तरतस्तस्य रक्तवर्णं स्वभावतः
तेनास्य क्षत्रभावः स्याद् इति वर्णाः प्रकीर्तिताः ॥
नीलश्च वैडूर्यमयः श्वेतः पीतो हिरण्मयः
मयूरबर्हवर्णश्च शातकौम्भः स शृङ्गवान् ॥
एते पर्वतराजानः सिद्धचारणसेविताः
तेषामन्तरविष्कम्भो नवसाहस्रमुच्यते ॥
मध्ये त्विलावृतं नाम महामेरोः समन्ततः
चतुर्विंशत्सहस्राणि विस्तीर्णो योजनैः समः ॥
मध्ये तस्य महामेरुर् विधूम इव पावकः
वेद्यर्धं दक्षिणं मेरोर् उत्तरार्धं तथोत्तरम् ॥
वर्षाणि यानि सप्तात्र तेषां वै वर्षपर्वताः
द्वे द्वे सहस्रे विस्तीर्णा योजनैर्दक्षिणोत्तरम् ॥
जम्बूद्वीपस्य विस्तारस् तेषामायाम उच्यते
नीलश्च निषधश्चैव तेषां हीनाश्च ये परे ॥
श्वेतश्च हेमकूटश्च हिमवाञ्छृङ्गवांश्च यः
जम्बूद्वीपप्रमाणेण ऋषभः परिकीर्त्यते ॥
तस्माद्द्वादशभागेन हेमकूटो ऽपि हीयते
हिमवान्विंशभागेन तस्मादेव प्रहीयते
अष्टाशीतिसहस्राणि हेमकूटो महागिरिः ॥
अशीतिर्हिमवाञ्छैल आयतः पूर्वपश्चिमे
द्वीपस्य मण्डलीभावाद् ध्रासवृद्धी प्रकीर्तिते ॥
वर्षाणां पर्वतानां च यथाभेदं तथोत्तरम्
तेषां मध्ये जनपदास् तानि वर्षाणि सप्त वै ॥
प्रपातविषमैस्तैस्तु पर्वतैरावृतानि तु
सप्त तानि नदीभेदैर् अगम्यानि परस्परम् ॥
वसन्ति तेषु सत्त्वानि नानाजातीनि सर्वशः
इमं हैमवतं वर्षं भारतं नाम विश्रुतम् ॥
हेमकूटं परं तस्मान् नाम्ना किम्पुरुषं स्मृतम्
हेमकूटाच्च निषधं हरिवर्षं तदुच्यते ॥
हरिवर्षात्परं चापि मेरोस्तु तदिलावृतम्
इलावृतात्परं नीलं रम्यकं नाम विश्रुतम् ॥
रम्यकादपरं श्वेतं विश्रुतं तद्धिरण्यकम्
हिरण्यकात्परं चैव शृङ्गशाकंकुरं स्मृतम् ॥
धनुःसंस्थे तु विज्ञेये देवर्षे दक्षिणोत्तरे
दीर्घाणि तस्य चत्वारि मध्यमं तदिलावृतम् ॥
पूर्वतो निषधस्येदं वेद्यर्धं दक्षिणं स्मृतम्
परं त्विलावृतं पश्चाद् वेद्यर्धं तु तदुत्तरम् ॥
तयोर्मध्ये तु विज्ञेयो मेरुर्यत्र त्विलावृतम्
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥
उदगायतो महाशैलो माल्यवान्नाम पर्वतः
द्वात्रिंशता सहस्रेण प्रतीच्यां सागरानुगः ॥
माल्यवान्वै सहस्रैक आ नीलनिषधायतः
द्वात्रिंशत्त्वेवमप्युक्तः पर्वतो गन्धमादनः ॥
परिमण्डलयोर्मध्ये मेरुः कनकपर्वतः
चातुर्वर्ण्यसमो वर्णैश् चतुरस्रः समुच्छ्रितः ॥
नानावर्णः स पार्श्वेषु पूर्वान्ते श्वेत उच्यते
पीतं तु दक्षिणं तस्य भृङ्गिपत्त्रनिभं परम्
उत्तरं तस्य रक्तं वै इति वर्णसमन्वितः ॥
मेरुस्तु शुशुभे दिव्यो राजवत्स तु वेष्टितः
आदित्यतरुणाभासो विधूम इव पावकः ॥
योजनानां सहस्राणि चतुराशीतिसूच्छ्रितः
प्रविष्टः षोडशाधस्ताद् अष्टाविंशतिविस्तृतः ॥
विस्तराद्द्विगुणश्चास्य परीणाहः समन्ततः
स पर्वतो महादिव्यो दिव्यौषधिसमन्वितः ॥
भुवनैरावृतः सर्वैर् जातरूपपरिष्कृतैः
तत्र देवगणाश्चैव गन्धर्वासुरराक्षसाः
शैलराजे प्रमोदन्ते सर्वतो ऽप्सरसां गणैः ॥
स तु मेरुः परिवृतो भुवनैर्भूतभावनैः
यस्येमे चतुरो देशा नानापार्श्वेषु संस्थिताः ॥
भद्राश्वं भारतं चैव केतुमालं च पश्चिमे
उत्तराश्चैव कुरवः कृतपुण्यप्रतिश्रयाः ॥
विष्कम्भपर्वतास्तद्वन् मन्दरो गन्धमादनः
विपुलश्च सुपार्श्वश्च सर्वरत्नविभूषिताः ॥
अरुणोदं मानसं च सितोदं भद्रसंज्ञितम्
तेषामुपरि चत्वारि सरांसि च वनानि च ॥
तथा भद्रकदम्बस्तु पर्वते गन्धमादने
जम्बूवृक्षस्तथाश्वत्थो विपुले ऽथ वटः परम् ॥
गन्धमादनपार्श्वे तु पश्चिमे ऽमरगण्डिकः
द्वात्रिंशच्च सहस्राणि योजनैः सर्वतः समः ॥
तत्र ते शुभकर्माणः केतुमालाः परिश्रुताः
तत्र कालानलाः सर्वे महासत्त्वा महाबलाः ॥
स्त्रियश् चोत्पलवर्णाभाः सुन्दर्यः प्रियदर्शनाः
तत्र दिव्यो महावृक्षः पनसः पत्त्रभासुरः ॥
तस्य पीत्वा फलरसं संजीवन्ति समायुतम्
तस्य माल्यवतः पार्श्वे पूर्वे पूर्वा तु गण्डिका
द्वात्रिंशच्च सहस्राणि तत्रापि शतमुच्यते ॥
भद्राश्वस्तत्र विज्ञेयो नित्यं मुदितमानसः
भद्रमालवनं तत्र कालाम्रश्च महाद्रुमः ॥
तत्र ते पुरुषाः श्वेता महासत्त्वा महाबलाः
स्त्रियः कुमुदवर्णाभाः सुन्दर्यः प्रियदर्शनाः ॥
चन्द्रप्रभाश् चन्द्रवर्णाः पूर्णचन्द्रनिभाननाः
चन्द्रशीतलगात्राश्च स्त्रियो ह्युत्पलगन्धिकाः ॥
दशवर्षसहस्राणि आयुस्तेषामनामयम्
कालाम्रस्य रसं पीत्वा ते सर्वे स्थिरयौवनाः ॥
इत्युक्तवानृषीन्ब्रह्मा वर्षाणि च निसर्गतः
पूर्वं ममानुग्रहकृद् भूयः किं वर्णयामि वः ॥
एतच्छ्रुत्वा वचस्ते तु ऋषयः संशितव्रताः
जातकौतूहलाः सर्वे प्रत्यूचुस्ते मुदान्विताः ॥
पूर्वापरौ समाख्यातौ यौ देशौ तौ त्वया मुने
उत्तराणां च वर्षाणां पर्वतानां च सर्वशः ॥
आख्याहि नो यथातथ्यं ये च पर्वतवासिनः
एवमुक्तस्तु ऋषिभिस् तेभ्यस्त्वाख्यातवान्पुनः ॥
शृणुध्वं यानि वर्षाणि पूर्वोक्तानि च वै मया
दक्षिणेन तु नीलस्य निषधस्योत्तरेण तु ॥
वर्षं रमणकं नाम जायन्ते यत्र वै प्रजाः
रतिप्रधाना विमला जायन्ते यत्र मानवाः
शुक्लाभिजनसम्पन्नाः सर्वे ते प्रियदर्शनाः ॥
तत्रापि च महावृक्षो न्यग्रोधो रोहिणो महान्
तस्यापि ते फलरसं पिबन्तो वर्तयन्ति हि ॥
दशवर्षसहस्राणि दशवर्षशतानि च
जीवन्ति ते महाभागाः सदा हृष्टा नरोत्तमाः ॥
उत्तरेण तु श्वेतस्य पार्श्वे शृङ्गस्य दक्षिणे
वर्षं हिरण्वतं नाम यत्र हैरण्वती नदी ॥
महाबला महासत्त्वा नित्यं मुदितमानसाः
शुक्लाभिजनसम्पन्नाः सर्वे च प्रियदर्शनाः ॥
एकादश सहस्राणि वर्षाणां ते नरोत्तमाः
आयुष्प्रमाणं जीवन्ति शतानि दश पञ्च च ॥
तस्मिन्वर्षे महावृक्षो लकुचः पत्त्रसंश्रयः
तस्य पीत्वा फलरसं तत्र जीवन्ति मानवाः ॥
शृङ्गसाह्वस्य शृङ्गाणि त्रीणि तानि महान्ति वै
एकं मणियुतं तत्र एकं तु कनकान्वितम्
सर्वरत्नमयं चैकं भुवनैरुपशोभितम् ॥
उत्तरे चास्य शृङ्गस्य समुद्रान्ते च दक्षिणे
कुरवस्तत्र तद्वर्यं पुण्यं सिद्धनिषेवितम् ॥
तत्र वृक्षा मधुफला दिव्यामृतमयापगाः
वस्त्राणि ते प्रसूयन्ते फलैश्चाभरणानि च ॥
सर्वकामप्रदातारः केचिद्वृक्षा मनोरमाः
अपरे क्षीरिणो नाम वृक्षास्तत्र मनोरमाः
ये रक्षन्ति सदा क्षीरं षड्रसं चामृतोपमम् ॥
सर्वा मणिमयी भूमिः सूक्ष्मा काञ्चनवालुका
सर्वत्र सुखसंस्पर्शा निःशब्दाः पवनाः शुभाः ॥
देवलोकच्युतास्तत्र जायन्ते मानवाः शुभाः
शुक्लाभिजनसम्पन्नाः सर्वे ते स्थिरयौवनाः ॥
मिथुनानि प्रजायन्ते स्त्रियश्चाप्सरसोपमाः
तेषां ते क्षीरिणां क्षीरं पिबन्ति ह्यमृतोपमम् ॥
एकाहाज्जायते युग्मं समं चैव विवर्धते
समं रूपं च शीलं च समं चैव म्रियन्ति वै ॥
एकैकमनुरक्ताश्च चक्रवाकमिव ध्रुवम्
अनामया ह्यशोकाश्च नित्यं मुदितमानसाः ॥
दश वर्षसहस्राणि दश वर्षशतानि च
जीवन्ति च महासत्त्वा न चान्या स्त्री प्रवर्तते ॥
एवमेव निसर्गो वै वर्षाणां भारते युगे
दृष्टः परमधर्मज्ञाः किं भूयः कथयामि वः ॥
आख्यातास्त्वेवमृषयः सूतपुत्रेण धीमता
उत्तरश्रवणे भूयः पप्रच्छुः सूतनन्दनम् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0