मत्स्य पुराण · अध्याय 112
भ्रातृभिः सहितः सर्वैर् द्रौपद्या सह भार्यया
ब्राह्मणेभ्यो नमस्कृत्य गुरून्देवानतर्पयत् ॥
वासुदेवो ऽपि तत्रैव क्षणेनाभ्यागतस्तदा
पाण्डवैः सहितैः सर्वैः पूज्यमानस्तु माधवः ॥
कृष्णेन सहितैः सर्वैः पुनरेव महात्मभिः
अभिषिक्तः स्वराज्ये च धर्मपुत्रो युधिष्ठिरः ॥
एतस्मिन्नन्तरे चैव मार्कण्डेयो महामुनिः
ततः स्वस्तीति चोक्त्वा तु क्षणादाश्रममागमत् ॥
युधिष्ठिरो ऽपि धर्मात्मा भ्रातृभिः सहितो ऽवसत्
महादानं ततो दत्त्वा धर्मपुत्रो महामनाः ॥
यस्त्विदं कल्य उत्थाय माहात्म्यं पठते नरः
प्रयागं स्मरते नित्यं स याति परमं पदम्
मुच्यते सर्वपापेभ्यो रुद्रलोकं स गच्छति ॥
मम वाक्यं च कर्तव्यं महाराज ब्रवीम्यहम्
नित्यं जपस्व जुह्वस्व प्रयागे विगतज्वरः ॥
प्रयागं स्मर वै नित्यं सहास्माभिर्युधिष्ठिर
स्वयं प्राप्स्यसि राजेन्द्र स्वर्गलोकं न संशयः ॥
प्रयागमनुगच्छेद्वा वसते वापि यो नरः
सर्वपापविशुद्धात्मा रुद्रलोकं स गच्छति ॥
प्रतिग्रहादुपावृत्तः संतुष्टो नियतः शुचिः
अहंकारनिवृत्तश्च स तीर्थफलमश्नुते ॥
अकोपनश्च सत्यश्च सत्यवादी दृढव्रतः
आत्मोपमश्च भूतेषु स तीर्थफलमश्नुते ॥
ऋषिभिः क्रतवः प्रोक्ता देवैश्चापि यथाक्रमम्
न हि शक्या दरिद्रेण यज्ञाः प्राप्तुं महीपते ॥
बहूपकरणा यज्ञा नानासम्भारविस्तराः
प्राप्यन्ते पार्थिवैरेतैः समृद्धैर्वै नरैः क्वचित् ॥
यो दरिद्रैरपि विधिः शक्यः प्राप्तुं नरेश्वर
तुल्यो यज्ञफलैः पुण्यैस् तन्निबोध युधिष्ठिर ॥
ऋषीणां परमं गुह्यम् इदं भरतसत्तम
तीर्थानुगमनं पुण्यं यज्ञेभ्यो ऽपि विशिष्यते ॥
दश तीर्थसहस्राणि तिस्रः कोट्यस्तथापगाः
माघमासे गमिष्यन्ति गङ्गायां भरतर्षभ ॥
स्वस्थो भव महाराज भुङ्क्ष्व राज्यमकण्टकम्
पुनर्द्रक्ष्यसि राजेन्द्र यजमानो विशेषतः ॥
इत्युक्त्वा स महाभागो मार्कण्डेयो महातपाः
युधिष्ठिरस्य नृपतेस् तत्रैवान्तरधीयत ॥
ततस्तत्र समाप्लाव्य गात्राणि सगणो नृपः
यथोक्तेनाथ विधिना परां निर्वृतिमागमत् ॥
तथा त्वमपि देवर्षे प्रयागाभिमुखो भव
अभिषेकं तु कृत्वाद्य कृतकृत्यो भविष्यसि ॥
एवमुक्त्वाथ नन्दीशस् तत्रैवान्तरधीयत
नारदो ऽपि जगामाशु प्रयागाभिमुखस्तथा ॥
तत्र स्नात्वा च जप्त्वा च विधिदृष्टेन कर्मणा
दानं दत्त्वा द्विजाग्र्येभ्यो गतः स्वभवनं तदा ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0