मत्स्य पुराण · अध्याय 10
बहुभिर् धारिणी भुक्ता भूपालैः श्रूयते पुरा
पार्थिवाः पृथिवीयोगात् पृथिवी कस्य योगतः ॥
किम् अर्थं च कृता संज्ञा भूमेः किं पारिभाषिकी
गौर् इतीयं च विख्याता सूत कस्माद्ब्रवीहि नः ॥
वंशे स्वायम्भुवस्यासीद् अङ्गो नाम प्रजापतिः
मृत्योस्तु दुहिता तेन परिणीता सुदुर्मुखा ॥
सुनीथा नाम तस्यास्तु वेनो नाम सुतः पुरा
अधर्मनिरतश्चासीद् बलवान् वसुधाधिपः ॥
लोके ऽप्यधर्मकृज्जातः परभार्यापहारकः
धर्माचारस्य सिद्ध्यर्थं जगतो ऽथ महर्षिभिः ॥
अनुनीतो ऽपि न ददाव् अनुज्ञां स यदा ततः
शापेन मारयित्वैनम् अराजकमयार्दिताः ॥
ममन्थुर् ब्राह्मणास्तस्य बलाद्देहमकल्मषाः
तत्कायान्मथ्यमानात्तु निपेतुर्म्लेच्छजातयः ॥
शरीरे मातुरंशेन कृष्णाञ्जनसमप्रभाः
पितुरंशस्य चांशेन धार्मिको धर्मचारिणः ॥
उत्पन्नो दक्षिणाद्धस्तात् सधनुः सशरो गदी
दिव्यतेजोमयवपुः सरत्नकवचाङ्गदः ॥
पृथोरेवाभवद्यत्नात् ततः पृथुरजायत
स विप्रैरभिषिक्तो ऽपि तपः कृत्वा सुदारुणम् ॥
विष्णोर्वरेण सर्वस्य प्रभुत्वम् अगमत् पुनः
निःस्वाध्यायवषट्कारं निर्धर्मं वीक्ष्य भूतलम् ॥
दग्धुमेवोद्यतः कोपाच् छरेणामितविक्रमः
ततो गोरूपमास्थाय भूः पलायितुम् उद्यता ॥
पृष्ठतो ऽनुगतस्तस्याः पृथुर्दीप्तशरासनः
ततः स्थित्वैकदेशे तु किं करोमीति चाब्रवीत् ॥
पृथुर् अप्यवदद् वाक्यम् ईप्सितं देहि सुव्रते
सर्वस्य जगतः शीघ्रं स्थावरस्य चरस्य च ॥
तथैव साब्रवीद् भूमिर् दुदोह स नराधिपः
स्वके पाणौ पृथुर्वत्सं कृत्वा स्वायम्भुवं मनुम् ॥
तदन्नमभवच्छुद्धं प्रजा जीवन्ति येन वै
ततस्तु ऋषिभिर्दुग्धा वत्सः सोमस्तदाभवत् ॥
दोग्धा बृहस्पतिरभूत् पात्रं वेदस्तपो रसः
देवैश्च वसुधा दुग्धा दोग्धा मित्रस्तदाभवत् ॥
इन्द्रो वत्सः समभवत् क्षीरमूर्जस्करं बलम्
देवानां काञ्चनं पात्रं पितॄणां राजतं तथा ॥
अन्तकश्चाभवद्दोग्धा यमो वत्सः स्वधा रसः
अलाबुपात्रं नागानां तक्षको वत्सको ऽभवत् ॥
विषं क्षीरं ततो दोग्धा धृतराष्ट्रो ऽभवत्पुनः
असुरैरपि दुग्धेयम् आयसे शक्रपीडिनीम् ॥
पात्रे मायाम् अभूद् वत्सः प्राह्लादिस् तु विरोचनः
दोग्धा द्विमूर्धा तत्रासीन् माया येन प्रवर्तिता ॥
यक्षैश्च वसुधा दुग्धा पुरान्तर्धानम् ईप्सुभिः
कृत्वा वैश्रवणं वत्सम् आमपात्रे महीपते ॥
प्रेतरक्षोगणैर्दुग्धा धरा रुधिरमुल्बणम्
रौप्यनाभो ऽभवद्दोग्धा सुमाली वत्स एव तु ॥
गन्धर्वैश्च पुरा दुग्धा वसुधा साप्सरोगणैः
वत्सं चैत्ररथं कृत्वा गन्धान्पद्मदले तथा ॥
दोग्धा वररुचिर्नाम नाट्यवेदस्य पारगः
गिरिभिर्वसुधा दुग्धा रत्नानि विविधानि च ॥
औषधानि च दिव्यानि दोग्धा मेरुर्महाचलः
वत्सो ऽभूद्धिमवांस् तत्र पात्रं शैलमयं पुनः ॥
वृक्षैश्च वसुधा दुग्धा क्षीरं छिन्नप्ररोहणम्
पालाशपात्रे दोग्धा तु शालः पुष्पलताकुलः ॥
प्लक्षो ऽभवत्ततो वत्सः सर्ववृक्षो धनाधिपः
एवमन्यैश्च वसुधा तदा दुग्धा यथेप्सितम् ॥
आयुर् धनानि सौख्यं च पृथौ राज्यं प्रशासति
न दरिद्रस्तदा कश्चिन् न रोगी न च पापकृत् ॥
नोपसर्गभयं किंचित् पृथौ राजनि शासति
नित्यं प्रमुदिता लोका दुःखशोकविवर्जिताः ॥
धनुष्कोट्या च शैलेन्द्रान् उत्सार्य स महाबलः
भुवस्तलं समं चक्रे लोकानां हितकाम्यया ॥
न पुरग्रामदुर्गाणि न चायुधधरा नराः
क्षयातिशयदुःखं च नार्थशास्त्रस्य चादरः ॥
धर्मैकवासना लोकाः पृथौ राज्यं प्रशासति
कथितानि च पात्राणि यत्क्षीरं च मया तव ॥
येषां यत्र रुचिस्तत्तद् देयं तेभ्यो विजानता
यज्ञश्राद्धेषु सर्वेषु मया तुभ्यं निवेदितम् ॥
दुहितृत्वं गता यस्मात् पृथोर्धर्मवतो मही
तदानुरागयोगाच्च पृथिवी विश्रुता बुधैः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0