मत्स्य पुराण · अध्याय 106
यथा यथा प्रयागस्य माहात्म्यं कथ्यते त्वया
तथा तथा प्रमुच्ये ऽहं सर्वपापैर्न संशयः ॥
भगवन्केन विधिना गन्तव्यं धर्मनिश्चयैः
प्रयागे यो विधिः प्रोक्तस् तन्मे ब्रूहि महामुने ॥
कथयिष्यामि ते राजंस् तीर्थयात्राविधिक्रमम्
आर्षेण विधिनानेन यथादृष्टं यथाश्रुतम् ॥
प्रयागतीर्थयात्रार्थी यः प्रयाति नरः क्वचित्
बलीवर्दसमारूढः शृणु तस्यापि यत्फलम् ॥
नरके वसते घोरे गवां क्रोष्टा हि दारुणे
सलिलं न च गृह्णन्ति पितरस्तस्य देहिनः ॥
यस्तु पुत्रांस्तथा बालान् स्नापयेत् पाययेत्तथा
यथात्मना तथा सर्वं दानं विप्रेषु दापयेत् ॥
ऐश्वर्यलोभमोहाद्वा गच्छेद्यानेन यो नरः
निष्फलं तस्य तत्सर्वं तस्माद्यानं विवर्जयेत् ॥
गङ्गायमुनयोर्मध्ये यस्तु कन्यां प्रयच्छति
आर्षेणैव विवाहेन यथाविभवसम्भवम् ॥
न स पश्यति तं घोरं नरकं तेन कर्मणा
उत्तरान्स कुरून्गत्वा मोदते कालमक्षयम्
पुत्रान्दारांश्च लभते धार्मिकान्रूपसंयुतान् ॥
तत्र दानं प्रकर्तव्यं यथाविभवसम्भवम्
तेन तीर्थफलं चैव वर्धते नात्र संशयः
स्वर्गे तिष्ठति राजेन्द्र यावदाभूतसंप्लवम् ॥
वटमूलं समासाद्य यस्तु प्राणान्विमुञ्चति
सर्वलोकानतिक्रम्य रुद्रलोकं स गच्छति ॥
तत्र ते द्वादशादित्यास् तपन्ति रुद्रसंश्रिताः
निर्दहन्ति जगत्सर्वं वटमूलं न दह्यते ॥
नष्टचन्द्रार्कभुवनं यदा चैकार्णवं जगत्
स्थीयते तत्र वै विष्णुर् यजमानः पुनः पुनः ॥
देवदानवगन्धर्वा ऋषयः सिद्धचारणाः
सदा सेवन्ति तत्तीर्थं गङ्गायमुनसंगमम् ॥
ततो गच्छेत राजेन्द्र प्रयागं संस्तुवंश्च यत्
यत्र ब्रह्मादयो देवा ऋषयः सिद्धचारणाः ॥
लोकपालाश्च साध्याश्च पितरो लोकसंमताः
सनत्कुमारप्रमुखास् तथैव परमर्षयः ॥
अङ्गिरःप्रमुखाश्चैव तथा ब्रह्मर्षयः परे
तथा नागाः सुपर्णाश्च सिद्धाश्च खेचराश्च ये ॥
सागराः सरितः शैला नागा विद्याधराश्च ये
हरिश्च भगवनास्ते प्रजापतिपुरःसरः ॥
गङ्गायमुनयोर्मध्ये पृथिव्या जघनं स्मृतम्
प्रयागं राजशार्दूल त्रिषु लोकेषु विश्रुतम्
ततः पुण्यतमं नास्ति त्रिषु लोकेषु भारत ॥
श्रवणात्तस्य तीर्थस्य नामसंकीर्तनादपि
मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते ॥
तत्राभिषेकं यः कुर्यात् संगमे शंसितव्रतः
तुल्यं फलमवाप्नोति राजसूयाश्वमेधयोः ॥
न देववचनात्तात न लोकवचनात्तथा
मतिर् उत्क्रमणीया ते प्रयागगमनं प्रति ॥
दश तीर्थसहस्राणि षष्टिकोट्यस्तथा पराः
तेषां सांनिध्यमत्रैव ततस्तु कुरुनन्दन ॥
या गतिर् योगयुक्तस्य सत्यस्थस्य मनीषिणः
सा गतिस्त्यजतः प्राणान् गङ्गायमुनसंगमे ॥
न ते जीवन्ति लोके ऽस्मिंस् तत्र तत्र युधिष्ठिर
ये प्रयागं न सम्प्राप्तास् त्रिषु लोकेषु वञ्चिताः ॥
एवं दृष्ट्वा तु तत्तीर्थं प्रयागं परमं पदम्
मुच्यते सर्वपापेभ्यः शशाङ्क इव राहुणा ॥
कम्बलाश्वतरौ नागौ विपुले यमुनातटे
तत्र स्नात्वा च पीत्वा च सर्वपापैः प्रमुच्यते ॥
तत्र गत्वा च संस्थानं महादेवस्य विश्रुतम्
नरस्तारयते सर्वान् दश पूर्वान्दशापरान् ॥
कृत्वाभिषेकं तु नरः सो ऽश्वमेधफलं लभेत्
स्वर्गलोकमवाप्नोति यावदाभूतसंप्लवम् ॥
पूर्वपार्श्वे तु गङ्गायास् त्रिषु लोकेषु भारत
कूपं चैव तु सामुद्रं प्रतिष्ठानं च विश्रुतम् ॥
ब्रह्मचारी जितक्रोधस् त्रिरात्रं यदि तिष्ठति
सर्वपापविशुद्धात्मा सो ऽश्वमेधफलं लभेत् ॥
उत्तरेण प्रतिष्ठानाद् भागीरथ्यास्तु पूर्वतः
हंसप्रपतनं नाम तीर्थं त्रैलोक्यविश्रुतम् ॥
अश्वमेधफलं तस्मिन् स्नानमात्रेण भारत
यावच्चन्द्रश्च सूर्यश्च तावत्स्वर्गे महीयते ॥
उर्वशीरमणे पुण्ये विपुले हंसपाण्डुरे
परित्यजति यः प्राणाञ् शृणु तस्यापि यत्फलम् ॥
षष्टिवर्षसहस्राणि षष्टिवर्षशतानि च
सेव्यते पितृभिः सार्धं स्वर्गलोके नराधिप ॥
उर्वशीं तु सदा पश्येत् स्वर्गलोके नरोत्तम
पूज्यते सततं पुत्र ऋषिगन्धर्वकिंनरैः ॥
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः
उर्वशीसदृशीनां तु कन्यानां लभते शतम् ॥
मध्ये नारीसहस्राणां बहूनां च पतिर्भवेत्
दशग्रामसहस्राणां भोक्ता भवति भूमिपः ॥
काञ्चीनूपुरशब्देन सुप्तो ऽसौ प्रतिबुध्यते
भुक्त्वा तु विपुलान् भोगांस् तत्तीर्थं भजते पुनः ॥
शुक्लाम्बरधरो नित्यं नियतः संयतेन्द्रियः
एकं कालं तु भुञ्जानो मासं भूमिपतिर्भवेत् ॥
सुवर्णालंकृतानां तु नारीणां लभते शतम्
पृथिव्याम् आसमुद्रायां महाभूमिपतिर्भवेत् ॥
धनधान्यसमायुक्तो दाता भवति नित्यशः
भुक्त्वा तु विपुलान्भोगांस् तत्तीर्थं लभते पुनः ॥
अथ संध्यावटे रम्ये ब्रह्मचारी जितेन्द्रियः
उपवासी शुचिः संध्यां ब्रह्मलोकमवाप्नुयात् ॥
कोटितीर्थं समासाद्य यस्तु प्राणान्परित्यजेत्
कोटिवर्षसहस्राणां स्वर्गलोके महीयते ॥
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः
सुवर्णमणिमुक्ताढ्य कुले जायेत रूपवान् ॥
ततो भोगवतीं गत्वा वासुकेरुत्तरेण तु
दशाश्वमेधकं नाम तीर्थं तत्रापरं भवेत् ॥
कृताभिषेकस्तु नरः सो ऽश्वमेधफलं लभेत्
धनाढ्यो रूपवान्दक्षो दाता भवति धार्मिकः ॥
चतुर्वेदेषु यत्पुण्यं यत्पुण्यं सत्यवादिषु
अहिंसायां तु यो धर्मो गमनादेव तत्फलम् ॥
कुरुक्षेत्रसमा गङ्गा यत्र यत्रावगाह्यते
कुरुक्षेत्राद्दशगुणा यत्र विन्ध्येन संगता ॥
यत्र गङ्गा महाभागा बहुतीर्था तपोधना
सिद्धक्षेत्रं हि तज्ज्ञेयं नात्र कार्या विचारणा ॥
क्षितौ तारयते मर्त्यान् नागांस्तारयते ऽप्यधः
दिवि तारयते देवांस् तेन त्रिपथगा स्मृता ॥
यावदस्थीनि गङ्गायां तिष्ठन्ति हि शरीरिणः
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत्
तीर्थानां तु परं तीर्थं नदीनां तु महानदी
मोक्षदा सर्वभूतानां महापातकिनामपि ॥
सर्वत्र सुलभा गङ्गा त्रिषु स्थानेषु दुर्लभा
गङ्गाद्वारे प्रयागे च गङ्गासागरसंगमे
तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः ॥
सर्वेषामेव भूतानां पापोपहतचेतसाम्
गतिम् अन्विष्यमाणानां नास्ति गङ्गासमा गतिः ॥
पवित्राणां पवित्रं च मङ्गलानां च मङ्गलम्
महेश्वरशिरोभ्रष्टा सर्वपापहरा शुभा ॥
कृते तु नैमिषं क्षेत्रं त्रेतायां पुष्करं परम्
द्वापरे तु कुरुक्षेत्रं कलौ गङ्गा विशिष्यते ॥
गङ्गामेव निषेवेत प्रयागं तु विशेषतः
नान्यत्कलियुगे घोरे भेषजं नृप विद्यते ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0