भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 105

105.1

शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥

105.2

आर्तानां हि दरिद्राणां निश्चितव्यवसायिनाम्
स्थानमुक्तं प्रयागं तु नाख्येयं तु कदाचन ॥

105.3

व्याधितो यदि वा दीनो वृद्धो वापि भवेन्नरः
गङ्गायमुनयोर्मध्ये यस्तु प्राणान्परित्यजेत् ॥

105.4

दीप्तकाञ्चनवर्णाभैर् विमानैः सूर्यसंनिभैः
गन्धर्वाप्सरसां मध्ये स्वर्गे क्रीडति मानवः ॥

105.5

ईप्सितांल्लभते कामान् वदन्ति ऋषिपुंगवाः
सर्वरत्नमयैर्दिव्यैर् नानाध्वजसमाकुलैः
वराङ्गनासमाकीर्णैर् मोदते शुभलक्षणैः ॥

105.6

गीतवाद्यविनिर्घोषैः प्रसुप्तः प्रतिबुध्यते
यावन्न स्मरते जन्म तावत्स्वर्गे महीयते ॥

105.7

ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः
हिरण्यरत्नसम्पूर्णे समृद्धे जायते कुले
तदेव स्मरते तीर्थं स्मरणात्तत्र गच्छति ॥

105.8

देशस्थो यदि वारण्ये विदेशस्थो ऽथवा गृहे
प्रयागं स्मरमाणो ऽपि यस्तु प्राणान्परित्यजेत्
ब्रह्मलोकमवाप्नोति वदन्ति ऋषिपुंगवाः ॥

105.9

सर्वकामफला वृक्षा मही यत्र हिरण्मयी
ऋषयो मुनयः सिद्धास् तत्र लोके स गच्छति ॥

105.10

स्त्रीसहस्रावृते रम्ये मन्दाकिन्यास्तटे शुभे
मोदते ऋषिभिः सार्धं सुकृतेनेह कर्मणा ॥

105.11

सिद्धचारणगन्धर्वैः पूज्यते दिवि दैवतैः
ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत् ॥

105.12

ततः शुभानि कर्माणि चिन्तयानः पुनः पुनः
गुणवान्वित्तसम्पन्नो भवतीह न संशयः ॥

105.13

कर्मणा मनसा वाचा धर्मसत्यप्रतिष्ठितः
गङ्गायमुनयोर्मध्ये यस्तु गां सम्प्रयच्छति ॥

105.14

सुवर्णमणिमुक्ताश्च यदि वान्यत्परिग्रहम्
स्वकार्ये पितृकार्ये वा देवताभ्यर्चने ऽपि वा
सफलं तस्य तत्तीर्थं यथावत्पुण्यमाप्नुयात् ॥

105.15

एवं तीर्थे न गृह्णीयात् पुण्येष्वायतनेषु च
निमित्तेषु च सर्वेषु ह्य् अप्रमत्तो भवेद्द्विजः ॥

105.16

कपिलां पाटलावर्णां यस्तु धेनुं प्रयच्छति
स्वर्णशृङ्गीं रौप्यखुरां कांस्यदोहां पयस्विनीम् ॥

105.17

प्रयागे श्रोत्रियं सन्तं ग्राहयित्वा यथाविधि
शुक्लाम्बरधरं शान्तं धर्मज्ञं वेदपारगम् ॥

105.18

सा गौस्तस्मै प्रदातव्या गङ्गायमुनसंगमे
वासांसि च महार्हाणि रत्नानि विविधानि च ॥

105.19

यावद्रोमाणि तस्या गोः सन्ति गात्रेषु सत्तम
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥

105.20

यत्रासौ लभते जन्म सा गौस्तस्याभिजायते
न च पश्यति तं घोरं नरकं तेन कर्मणा
उत्तरान्स कुरून्प्राप्य मोदते कालमक्षयम् ॥

105.21

गवां शतसहस्रेभ्यो दद्यादेकां पयस्विनीम्
पुत्रान्दारांस्तथा भृत्यान् गौरेका प्रति तारयेत् ॥

105.22

तस्मात्सर्वेषु दानेषु गोदानं तु विशिष्यते
दुर्गमे विषमे घोरे महापातकसम्भवे
गौरेव रक्षां कुरुते तस्माद्देया द्विजोत्तमे ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc