मत्स्य पुराण · अध्याय 107
शृणु राजन्प्रयागस्य माहात्म्यं पुनरेव तु
यच्छ्रुत्वा सर्वपापेभ्यो मुच्यते नात्र संशयः ॥
मानसं नाम तत्तीर्थं गङ्गाया उत्तरे तटे
त्रिरात्रोपोषितो भूत्वा सर्वकामानवाप्नुयात् ॥
गोभूहिरण्यदानेन यत्फलं प्राप्नुयान्नरः
स तत्फलमवाप्नोति तत्तीर्थं स्मरते पुनः ॥
अकामो वा सकामो वा गङ्गायां यो ऽभिपद्यते
मृतस्तु लभते स्वर्गं नरकं च न पश्यति ॥
अप्सरोगणसंगीतैः सुप्तो ऽसौ प्रतिबुध्यते
हंससारसयुक्तेन विमानेन स गच्छति
बहुवर्षसहस्राणि स्वर्गं राजेन्द्र भुञ्जति ॥
ततः स्वर्गात्परिभ्रष्टः क्षीणकर्मा दिवश्च्युतः
सुवर्णमणिमुक्ताढ्ये जायते विपुले कुले ॥
षष्टितीर्थसहस्राणि षष्टिकोट्यस्तथापगाः
माघमासे गमिष्यन्ति गङ्गायमुनसंगमम् ॥
गवां शतसहस्रस्य सम्यग्दत्तस्य यत्फलम्
प्रयागे माघमासे तु त्र्यहस्नानात्तु तत्फलम् ॥
गङ्गायमुनयोर्मध्ये कर्षाग्निं यस्तु साधयेत्
अहीनाङ्गो ह्यरोगश्च पञ्चेन्द्रियसमन्वितः ॥
यावन्ति रोमकूपाणि तस्य गात्रेषु देहिनः
तावद्वर्षसहस्राणि स्वर्गलोके महीयते ॥
ततः स्वर्गात्परिभ्रष्टो जम्बूद्वीपपतिर्भवेत्
स भुक्त्वा विपुलान्भोगांस् तत्तीर्थं स्मरते पुनः ॥
जलप्रवेशं यः कुर्यात् संगमे लोकविश्रुते
राहुग्रस्ते तथा सोमे विमुक्तः सर्वकिल्बिषैः ॥
सोमलोकमवाप्नोति सोमेन सह मोदते
षष्टिवर्षसहस्राणि स्वर्गलोके महीयते ॥
स्वर्गे च शक्रलोके ऽस्मिन् नृषिगन्धर्वसेविते
परिभ्रष्टस्तु राजेन्द्र समृद्धे जायते कुले ॥
अधःशिरास्तु यो ज्वालाम् ऊर्ध्वपादः पिबेन्नरः
शतवर्षसहस्राणि स्वर्गलोके महीयते ॥
परिभ्रष्टस्तु राजेन्द्र सो ऽग्निहोत्री भवेन्नरः
भुक्त्वा तु विपुलान्भोगांस् तत्तीर्थं भजते पुनः ॥
यः स्वदेहं तु कर्तित्वा शकुनिभ्यः प्रयच्छति
विहगैरुपभुक्तस्य शृणु तस्यापि यत्फलम् ॥
शतं वर्षसहस्राणां सोमलोके महीयते
तस्मादपि परिभ्रष्टो राजा भवति धार्मिकः ॥
गुणवान् रूपसम्पन्नो विद्वांश्च प्रियवाचकः
भुक्त्वा तु विपुलान्भोगांस् तत्तीर्थं भजते पुनः ॥
यामुने चोत्तरे कूले प्रयागस्य तु दक्षिणे
ऋणप्रमोचनं नाम तत्तीर्थं परमं स्मृतम् ॥
एकरात्रोषितः स्नात्वा ऋणैः सर्वैः प्रमुच्यते
स्वर्गलोकमवाप्नोति अनृणश्च सदा भवेत् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0