भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 103

103.1

अतः परं प्रवक्ष्यामि प्रयागस्योपवर्णनम्
मार्कण्डेयेन कथितं यत्पुरा पाण्डुसूनवे ॥

103.2

भारते तु यदा वृत्ते प्राप्तराज्ये पृथासुते
एतस्मिन्नन्तरे राजा कुन्तीपुत्रो युधिष्ठिरः ॥

103.3

भ्रातृशोकेन संतप्तश् चिन्तयन्स पुनः पुनः
आसीत्सुयोधनो राजा एकादशचमूपतिः ॥

103.4

अस्मान्संताप्य बहुशः सर्वे ते निधनं गताः
वासुदेवं समाश्रित्य पञ्च शेषास्तु पाण्डवाः ॥

103.5

हत्वा भीष्मं च द्रोणं च कर्णं चैव महाबलम्
दुर्योधनं च राजानं पुत्रभ्रातृसमन्वितम् ॥

103.6

राजानो निहताः सर्वे ये चान्ये शूरमानिनः
किं नो राज्येन गोविन्द किं भोगैर्जीवितेन वा ॥

103.7

धिक् कष्टमिति संचित्य राजा वैक्लव्यभागतः
निर्विचेष्टो निरुत्साहः किंचित् तिष्ठत्यधोमुखः ॥

103.8

लब्धसंज्ञो यदा राजा चिन्तयन्स पुनः पुनः
कतरो विनियोगो वा नियमं तीर्थमेव च ॥

103.9

येनाहं शीघ्रम् आमुञ्चे महापातकिकिल्बिषात्
यत्र स्थित्वा नरो याति विष्णुलोकमनुत्तमम् ॥

103.10

कथं पृच्छामि वै कृष्णं येनेदं कारितो ऽस्म्यहम्
धृतराष्ट्रं कथं पृच्छे यस्य पुत्रशतं हतम् ॥

103.11

व्यासं कथमहं पृच्छे यस्य गोत्रक्षयः कृतः
एवं वैक्लव्यमापन्नो धर्मराजो युधिष्ठिरः
रुदन्ति पाण्डवाः सर्वे भ्रातृशोकपरिप्लुताः ॥

103.12

ये च तत्र महात्मानः समेताः पाण्डवाः स्मृताः
कुन्ती च द्रौपदी चैव ये च तत्र समागताः
भूमौ निपतिताः सर्वे रुदन्तस्तु समन्ततः ॥

103.13

वाराणस्यां मार्कण्डेयस् तेन ज्ञातो युधिष्ठिरः
यथा वैक्लव्यमापन्नो रुदमानस्तु दुःखितः ॥

103.14

अचिरेणैव कालेन मार्कण्डेयो महातपाः
सम्प्राप्तो हास्तिनपुरं राजद्वारे ह्यतिष्ठत ॥

103.15

द्वारपालो ऽपि तं दृष्ट्वा राज्ञः कथितवान्द्रुतम्
त्वां द्रष्टुकामो मार्कण्डेयो द्वारि तिष्ठत्यसौ मुनिः
त्वरितो धर्मपुत्रस्तु द्वारमागादतः परम् ॥

103.16

स्वागतं ते महाभाग स्वागतं ते महामुने
अद्य मे सफलं जन्म अद्य मे तारितं कुलम् ॥

103.17

अद्य मे पितरस्तुष्टास् त्वयि दृष्टे महामुने
अद्याहं पूतदेहो ऽस्मि यत्त्वया सह दर्शनम् ॥

103.18

सिंहासने समास्थाप्य पादशौचार्चनादिभिः
युधिष्ठिरो महात्मा वै पूजयामास तं मुनिम् ॥

103.19

ततः स तुष्टो मार्कण्डः पूजितश्चाह तं नृपम्
आख्याहि त्वरितं राजन् किमर्थं रुदितं त्वया
केन वा विक्लवीभूतः का बाधा ते किमप्रियम् ॥

103.20

अस्माकं चैव यद्वृत्तं राज्यस्यार्थे महामुने
एतत्सर्वं विदित्वा तु चिन्तावशमुपागतः ॥

103.21

शृणु राजन्महाबाहो क्षत्रधर्मव्यवस्थितम्
नैव दृष्टं रणे पापं युध्यमानस्य धीमतः ॥

103.22

किं पुना राजधर्मेण क्षत्रियस्य विशेषतः
तदेवं हृदयं कृत्वा तस्मात्पापं न चिन्तयेत् ॥

103.23

ततो युधिष्ठिरो राजा प्रणम्य शिरसा मुनिम्
पप्रच्छ विनयोपेतः सर्वपातकनाशनम् ॥

103.24

पृच्छामि त्वां महाप्राज्ञ नित्यं त्रैलोक्यदर्शिनम्
कथय त्वं समासेन येन मुच्येत किल्बिषात् ॥

103.25

शृणु राजन्महाबाहो सर्वपातकनाशनम्
प्रयागगमनं श्रेष्ठं नराणां पुण्यकर्मणाम् ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc