भाषा

ENहिગુ
ग्रंथ पाठ

मत्स्य पुराण · अध्याय 104

104.1

भगवञ्छ्रोतुमिच्छामि पुरा कल्पे यथास्थितम्
ब्रह्मणा देवमुख्येन यथावत्कथितं मुने ॥

104.2

कथं प्रयागगमनं नराणां तत्र कीदृशम्
मृतानां का गतिस्तत्र स्नातानां तत्र किं फलम् ॥

104.3

ये वसन्ति प्रयागे तु ब्रूहि तेषां च किं फलम्
एतन्मे सर्वमाख्याहि परं कौतूहलं हि मे ॥

104.4

कथयिष्यामि ते वत्स यच्छ्रेष्ठं तत्र यत्फलम्
पुरा हि सर्वविप्राणां कथ्यमानं मया श्रुतम् ॥

104.5

आ प्रयागप्रतिष्ठानाद् आपुराद्वासुकेर्ह्रदात्
कम्बलाश्वतरौ नागौ नागश्च बहुमूलकः
एतत्प्रजापतेः क्षेत्रं त्रिषु लोकेषु विश्रुतम् ॥

104.6

तत्र स्नात्वा दिवं यान्ति ये मृतास्ते ऽपुनर्भवाः
ततो ब्रह्मादयो देवा रक्षां कुर्वन्ति संगताः ॥

104.7

अन्ये च बहवस्तीर्थाः सर्वपापहराः शुभाः
न शक्याः कथितुं राजन् बहुवर्षशतैरपि
संक्षेपेण प्रवक्ष्यामि प्रयागस्य तु कीर्तनम् ॥

104.8

षष्टिर्धनुःसहस्राणि यानि रक्षन्ति जाह्नवीम्
यमुनां रक्षति सदा सविता सप्तवाहनः ॥

104.9

प्रयागं तु विशेषेण सदा रक्षति वासवः
मण्डलं रक्षति हरिर् दैवतैः सह संगतः ॥

104.10

तं वटं रक्षति सदा शूलपाणिर्महेश्वरः
स्थानं रक्षन्ति वै देवाः सर्वपापहरं शुभम् ॥

104.11

अधर्मेणावृतो लोको नैव गच्छति तत्पदम्
स्वल्पमल्पतरं पापं यदा ते स्यान्नराधिप
प्रयागं स्मरमाणस्य सर्वमायाति संक्षयम् ॥

104.12

दर्शनात्तस्य तीर्थस्य नामसंकीर्तनादपि
मृत्तिकालम्भनाद्वापि नरः पापात्प्रमुच्यते ॥

104.13

पञ्च कुण्डानि राजेन्द्र तेषां मध्ये तु जाह्नवी
प्रयागस्य प्रवेशे तु पापं नश्यति तत्क्षणात् ॥

104.14

योजनानां सहस्रेषु गङ्गायाः स्मरणान्नरः
अपि दुष्कृतकर्मा तु लभते परमां गतिम् ॥

104.15

कीर्तनान्मुच्यते पापाद् दृष्ट्वा भद्राणि पश्यति
अवगाह्य च पीत्वा तु पुनात्यासप्तमं कुलम् ॥

104.16

सत्यवादी जितक्रोधो ह्य् अहिंसायां व्यवस्थितः
धर्मानुसारी तत्त्वज्ञो गोब्राह्मणहिते रतः ॥

104.17

गङ्गायमुनयोर्मध्ये स्नातो मुच्येत किल्बिषात्
मनसा चिन्तयन्कामान् अवाप्नोति सुपुष्कलान् ॥

104.18

ततो गत्वा प्रयागं तु सर्वदेवाभिरक्षितम्
ब्रह्मचारी वसेन्मासं पितॄन्देवांश्च तर्पयेत्
ईप्सितांल्लभते कामान् यत्र यत्राभिजायते ॥

104.19

तपनस्य सुता देवी त्रिषु लोकेषु विश्रुता
समागता महाभागा यमुना तत्र निम्नगा
तत्र संनिहितो नित्यं साक्षाद्देवो महेश्वरः ॥

104.20

दुष्प्राप्यं मानुषैः पुण्यं प्रयागं तु युधिष्ठिर
देवदानवगन्धर्वा ऋषयः सिद्धचारणाः
तदुपस्पृश्य राजेन्द्र स्वर्गलोकमुपासते ॥

मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0

Esc