मत्स्य पुराण · अध्याय 102
नैर्मल्यं भावशुद्धिश्च विना स्नानं न विद्यते
तस्मान्मनोविशुद्ध्यर्थं स्नानमादौ विधीयते ॥
अनुद्धृतैरुद्धृतैर्वा जलैः स्नानं समाचरेत्
तीर्थं च कल्पयेद्विद्वान् मूलमन्त्रेण मन्त्रवित्
नमो नारायणायेति मूलमन्त्र उदाहृतः ॥
दर्भपाणिस्तु विधिना आचान्तः प्रयतः शुचिः
चतुर्हस्तसमायुक्तं चतुरस्रं समन्ततः
प्रकल्प्यावाहयेद् गङ्गाम् एभिर्मन्त्रैर्विचक्षणः ॥
विष्णोः पादप्रसूतासि वैष्णवी विष्णुदेवता
पाहि नस् त्वेनसस् तस्माद् आजन्ममरणान्तिकात् ॥
तिस्रः कोट्यो ऽर्धकोटी च तीर्थानां वायुरब्रवीत्
दिवि भुव्यन्तरिक्षे च तानि ते सन्ति जाह्नवि ॥
नन्दिनीत्येव ते नाम देवेषु नलिनीति च
दक्षा पृथ्वी च विहगा विश्वकायामृता शिवा ॥
विद्याधरी सुप्रशान्ता तथा विश्वप्रसादिनी
क्षेमा च जाह्नवी चैव शान्ता शान्तिप्रदायिनी ॥
एतानि पुण्यनामानि स्नानकाले प्रकीर्तयेत्
भवेत्संनिहिता तत्र गङ्गा त्रिपथगामिनी ॥
सप्तवाराभिजप्तेन करसम्पुटयोजितः
मूर्ध्नि कुर्याज्जलं भूयस् त्रिचतुष्पञ्चसप्तकम्
स्नानं कुर्यान्मृदा तद्वद् आमन्त्र्य तु विधानतः ॥
अश्वक्रान्ते रथक्रान्ते विष्णुक्रान्ते वसुंधरे
मृत्तिके हर मे पापं यन्मया दुष्कृतं कृतम् ॥
उद्धृतासि वराहेण कृष्णेन शतबाहुना
मृत्तिके ब्रह्मदत्तासि काश्यपेनाभिमन्त्रिता
आरुह्य मम गात्राणि सर्वं पापं प्रचोदय ॥
मृत्तिके देहि नः पुष्टिं त्वयि सर्वं प्रतिष्ठितम्
नमस्ते सर्वलोकानां प्रभवारणि सुव्रते ॥
एवं स्नात्वा ततः पश्चाद् आचम्य च विधानतः
उत्थाय वाससी शुक्ले शुद्धे तु परिधाय वै
ततस्तु तर्पणं कुर्यात् त्रैलोक्याप्यायनाय वै ॥
देवा यक्षास्तथा नागा गन्धर्वाप्सरसो ऽसुराः
क्रूराः सर्पाः सुपर्णाश्च तरवो जम्बुकाः खगाः ॥
वाय्वाधारा जलाधारास् तथैवाकाशगामिनः
निराधाराश्च ये जीवा ये तु धर्मरतास्तथा ॥
तेषामाप्यायनायैतद् दीयते सलिलं मया
कृतोपवीती देवेभ्यो निवीती च भवेत्ततः ॥
मनुष्यांस्तर्पयेद्भक्त्या ब्रह्मपुत्रानृषींस्तथा
सनकश्च सनन्दश्च तृतीयश्च सनातनः ॥
कपिलश्चासुरिश्चैव वोढुः पञ्चशिखस्तथा
सर्वे ते तृप्तिमायान्तु मद्दत्तेनाम्बुना सदा ॥
मरीचिमत्र्यङ्गिरसं पुलस्त्यं पुलहं क्रतुम्
प्रचेतसं वसिष्ठं च भृगुं नारदमेव च
देवब्रह्मऋषीन् सर्वांस् तर्पयेद् अक्षतौदकैः ॥
अपसव्यं ततः कृत्वा सव्यं जान्वाच्य भूतले
अग्निष्वात्तास्तथा सौम्या हविष्मन्तस्तथोष्मपाः ॥
सुकालिनो बर्हिषदस् तथान्ये वाज्यपाः पुनः
संतर्प्याः पितरो भक्त्या सतिलोदकचन्दनैः ॥
यमाय धर्मराजाय मृत्यवे चान्तकाय च
वैवस्वताय कालाय सर्वभृतक्षयाय च ॥
औदुम्बराय दध्नाय नीलाय परमेष्ठिने
वृकोदराय चित्राय चित्रगुप्ताय वै नमः
दर्भपाणिस्तु विधिना पितॄन्संतर्पयेद्बुधः ॥
पित्रादीन्नामगोत्रेण तथा मातामहानपि
संतर्प्य विधिना भक्त्या इमं मन्त्रमुदीरयेत् ॥
ये ऽबान्धवा बान्धवा वा ये ऽन्यजन्मनि बान्धवाः
ते तृप्तिमखिलां यान्तु यश् चास्मत्तो ऽभिवाञ्छति ॥
ततश्चाचम्य विधिवद् आलिखेत्पद्ममग्रतः
अक्षताभिः सपुष्पाभिः सजलारुणचन्दनम्
अर्घ्यं दद्यात्प्रयत्नेन सूर्यनामानि कीर्तयेत् ॥
नमस्ते विष्णुरूपाय नमो विष्णुमुखाय वै
सहस्ररश्मये नित्यं नमस्ते सर्वतेजसे ॥
नमस्ते शिव सर्वेश नमस्ते सर्ववत्सल
जगत्स्वामिन्नमस्ते ऽस्तु दिव्यचन्दनभूषित ॥
पद्मासन नमस्ते ऽस्तु कुण्डलाङ्गदभूषित
नमस्ते सर्वलोकेश जगत्सर्वं विबोधसे ॥
सुकृतं दुष्कृतं चैव सर्वं पश्यसि सर्वग
सत्यदेव नमस्ते ऽस्तु प्रसीद मम भास्कर ॥
दिवाकर नमस्ते ऽस्तु प्रभाकर नमो ऽस्तु ते
एवं सूर्यं नमस्कृत्य त्रिः कृत्वाथ प्रदक्षिणम्
द्विजं गां काञ्चनं स्पृष्ट्वा ततो विष्णुगृहं व्रजेत् ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0