मत्स्य पुराण · अध्याय 101
अथातः सम्प्रवक्ष्यामि व्रतषष्ठीमनुत्तमाम्
रुद्रेणाभिहितां दिव्यां महापातकनाशनम् ॥
नक्तमब्दं चरित्वा तु गवा सार्धं कुटुम्बिने
हैमं चक्रं त्रिशूलं च दद्याद्विप्राय वाससी ॥
शिवरूपस्ततो ऽस्माभिः शिवलोके स मोदते
एतद्देवव्रतं नाम महापातकनाशनम् ॥
यस्त्वेकभक्तेन समां शिवं हैमवृषान्वितम्
धेनुं तिलमयीं दद्यात् स पदं याति शांकरम्
एतद्रुद्रव्रतं नाम पापशोकविनाशनम् ॥
यस्तु नीलोत्पलं हैमं शर्करापात्रसंयुतम्
एकान्तरितनक्ताशी समान्ते वृषसंयुतम्
स वैष्णवं पदं याति लीलाव्रतमिदं स्मृतम् ॥
आषाढादिचतुर्मासम् अभ्यङ्गं वर्जयेन्नरः
भोजनोपस्करं दद्यात् स याति भवनं हरेः
जने प्रीतिकरं नॄणां प्रीतिव्रतमिहोच्यते ॥
वर्जयित्वा मधौ यस्तु दधिक्षीरघृतैक्षवम्
दद्याद्वस्त्राणि सूक्ष्माणि रसपात्रैश्च संयुतम् ॥
सम्पूज्य विप्रमिथुनं गौरी मे प्रीयतामिति
एतद्गौरीव्रतं नाम भवानीलोकदायकम् ॥
पुष्यादौ यस्त्रयोदश्यां कृत्वा नक्तं मधौ पुनः
अशोकं काञ्चनं दद्याद् इक्षुयुक्तं दशाङ्गुलम् ॥
विप्राय वस्त्रसंयुक्तं प्रद्युम्नः प्रीयतामिति
कल्पं विष्णुपदे स्थित्वा विशोकः स्यात्पुनर्नरः
एतत् कामव्रतं नाम सदा शोकविनाशनम् ॥
आषाढादिव्रतं यस्तु वर्जयेन्नखकर्तनम्
वार्ताकं च चतुर्मासं मधुसर्पिर्घटान्वितम् ॥
कार्त्तिक्यां तत्पुनर्हैमं ब्राह्मणाय निवेदयेत्
स रुद्रलोकमाप्नोति शिवव्रतमिदं स्मृतम् ॥
वर्जयेद्यस्तु पुष्पाणि हेमन्तशिशिरावृतू
पुष्पत्रयं च फाल्गुन्यां कृत्वा शक्त्या च काञ्चनम् ॥
दद्याद्द्विकालवेलायां प्रीयेतां शिवकेशवौ
दत्त्वा परं पदं याति सौम्यव्रतमिदं स्मृतम् ॥
फाल्गुन्यादितृतीयायां लवणं यस्तु वर्जयेत्
समाप्ते शयनं दद्याद् गृहं चोपस्करान्वितम् ॥
सम्पूज्य विप्रमिथुनं भवानी प्रीयतामिति
गौरीलोके वसेत्कल्पं सौभाग्यव्रतमुच्यते ॥
संध्यामौनं ततः कृत्वा समान्ते घृतकुम्भकम्
वस्त्रयुग्मं तिलान्घण्टां ब्राह्मणाय निवेदयेत् ॥
सारस्वतं पदं याति पुनरावृत्तिदुर्लभम्
एतत्सारस्वतं नाम रूपविद्याप्रदायकम् ॥
लक्ष्मीमभ्यर्च्य पञ्चम्याम् उपवासी भवेन्नरः
समान्ते हेमकमलं दद्याद्धेनुसमन्वितम् ॥
स वैष्णवं पदं याति लक्ष्मीवाञ्जन्मजन्मनि
एतत् सम्पद्व्रतं नाम सदा पापविनाशनम् ॥
कृत्वोपलेपनं शम्भोर् अग्रतः केशवस्य च
यावदब्दं पुनर्दद्याद् धेनुं जलघटान्विताम् ॥
जन्मायुतं स राजा स्यात् ततः शिवपुरं व्रजेत्
एतद् आयुर्व्रतं नाम सर्वकामप्रदायकम् ॥
अश्वत्थं भास्करं गङ्गां प्रणम्यैकत्र वाग्यतः
एकभक्तं नरः कुर्याद् अब्दमेकं विमत्सरः ॥
व्रतान्ते विप्रमिथुनं पूज्यं धेनुत्रयान्वितम्
वृक्षं हिरण्मयं दद्यात् सोऽश्वमेधफलं लभेत्
एतत् कीर्तिव्रतं नाम भूतिकीर्तिफलप्रदम् ॥
घृतेन स्नपनं कुर्याच् छम्भोर् वा केशवस्य च
अक्षताभिः सुपुष्पाभिः कृत्वा गोमयमण्डलम् ॥
तिलधेनुसमोपेतं समान्ते हेमपङ्कजम्
शुद्धमष्टाङ्गुलं दद्याच् छिवलोके महीयते
सामगाय ततश्चैतत् सामव्रतमिहोच्यते ॥
नवम्यामेकभक्तं तु कृत्वा कन्याश्च शक्तितः
भोजयित्वासनं दद्याद् धैमकञ्चुकवाससी ॥
हैमं सिंहं च विप्राय दत्त्वा शिवपदं व्रजेत्
जन्मार्बुदं सुरूपः स्याच् छत्रुभिश्चापराजितः
एतद्वीरव्रतं नाम नारीणां च सुखप्रदम् ॥
यावत्समा भवेद्यस्तु पञ्चदश्यां पयोव्रतः
समान्ते श्राद्धकृद्दद्यात् पञ्च गास्तु पयस्विनीः ॥
वासांसि च पिशङ्गानि जलकुम्भयुतानि च
स याति वैष्णवं लोकं पितॄणां तारयेच्छतम्
कल्पान्ते राजराजः स्यात् पितृव्रतम् इदं स्मृतम् ॥
चैत्रादिचतुरो मासाञ् जलं दद्यादयाचितम्
व्रतान्ते मणिकं दद्याद् अन्नवस्त्रसमन्वितम् ॥
तिलपात्रं हिरण्यं च ब्रह्मलोके महीयते
कल्पान्ते भूपतिर्नूनम् आनन्दव्रतमुच्यते ॥
पञ्चामृतेन स्नपनं कृत्वा संवत्सरं विभोः
वत्सरान्ते पुनर्दद्याद् धेनुं पञ्चामृतेन हि ॥
विप्राय दद्याच्छङ्खं च स पदं याति शांकरम्
राजा भवति कल्पान्ते धृतिव्रतमिदं स्मृतम् ॥
वर्जयित्वा पुमान्मांसम् अब्दान्ते गोप्रदो भवेत्
तद्वद्धेममृगं दद्यात् सोऽश्वमेधफलं लभेत्
अहिंसाव्रतमित्युक्तं कल्पान्ते भूपतिर्भवेत् ॥
माघमास्युषसि स्नानं कृत्वा दाम्पत्यमर्चयेत्
भोजयित्वा यथाशक्त्या माल्यवस्त्रविभूषणः
सूर्यलोके वसेत्कल्पं सूर्यव्रतमिदं स्मृतम् ॥
आषाढादिचतुर्मासं प्रातःस्नायी भवेन्नरः
विप्रेषु भोजनं दद्यात् कार्त्तिक्यां गोप्रदो भवेत्
स वैष्णवं पदं याति विष्णुव्रतमिदं शुभम् ॥
अयनादयनं यावद् वर्जयेत्पुष्पसर्पिषी
तदन्ते पुष्पदामानि घृतधेन्वा सहैव तु ॥
दत्त्वा शिवपदं गच्छेद् विप्राय घृतपायसम्
एतच्छीलव्रतं नाम शीलारोग्यफलप्रदम् ॥
संध्यादीपप्रदो यस्तु समां तैलं विवर्जयेत्
समान्ते दीपिकां दद्याच् चक्रशूले च काञ्चने ॥
वस्त्रयुग्मं च विप्राय तेजस्वी स भवेदिह
रुद्रलोकमवाप्नोति दीप्तिव्रतमिदं स्मृतम् ॥
कार्त्तिक्यादितृतीयायां प्राश्य गोमूत्रयावकम्
नक्तं चरेदब्दमेकम् अब्दान्ते गोप्रदो भवेत् ॥
गौरीलोके वसेत्कल्पं ततो राजा भवेदिह
एतद्रुद्रव्रतं नाम सदा कल्याणकारकम् ॥
वर्जयेच्चैत्रमासे च यश्च गन्धानुलेपनम्
शुक्तिं गन्धभृतां दत्त्वा विप्राय सितवाससी
वारुणं पदमाप्नोति दृढव्रतमिदं स्मृतम् ॥
वैशाखे पुष्पलवणं वर्जयित्वाथ गोप्रदः
भूत्वा विष्णुपदे कल्पं स्थित्वा राजा भवेदिह
एतत्कान्तिव्रतं नाम कान्तिकीर्तिफलप्रदम् ॥
ब्रह्माण्डं काञ्चनं कृत्वा तिलराशिसमन्वितम्
त्र्यहं तिलप्रदो भूत्वा वह्निं संतर्प्य सद्विजम् ॥
सम्पूज्य विप्रदाम्पत्यं माल्यवस्त्रविभूषणैः
शक्तितस्त्रिपलादूर्ध्वं विश्वात्मा प्रीयतामिति ॥
पुण्ये ऽह्नि दद्यात्स परं ब्रह्म यात्यपुनर्भवम्
एतद्ब्रह्मव्रतं नाम निर्वाणपददायकम् ॥
यश्चोभयमुखीं दद्यात् प्रभूतकनकान्विताम्
दिनं पयोव्रतस्तिष्ठेत् स याति परमं पदम्
एतद्धेनुव्रतं नाम पुनरावृत्तिदुर्लभम् ॥
त्र्यहं पयोव्रते स्थित्वा काञ्चनं कल्पपादपम्
पलादूर्ध्वं यथाशक्त्या तण्डुलैस् तूपसंयुतम्
दत्त्वा ब्रह्मपदं याति कल्पव्रतमिदं स्मृतम् ॥
मासोपवासी यो दद्याद् धेनुं विप्राय शोभनाम्
स वैष्णवं पदं यति भीमव्रतमिदं स्मृतम् ॥
दद्याद् विंशत्पलादूर्ध्वं महीं कृत्वा तु काञ्चनीम्
दिनं पयोव्रतस्तिष्ठेद् रुद्रलोके महीयते
धराव्रतमिदं प्रोक्तं सप्तकल्पशतानुगम् ॥
माघे मासे ऽथवा चैत्रे गुडधेनुप्रदो भवेत्
गुडव्रतस्तृतीयायां गौरीलोके महीयते
महाव्रतमिदं नाम परमानन्दकारकम् ॥
पक्षोपवासी यो दद्याद् विप्राय कपिलाद्वयम्
ब्रह्मलोकमवाप्नोति देवासुरसुपूजितम्
कल्पान्ते राजराजः स्यात् प्रभाव्रतमिदं स्मृतम् ॥
वत्सरं त्वेकभक्ताशी सभक्ष्यजलकुम्भदः
शिवलोके वसेत्कल्पं प्राप्तिव्रतमिदं स्मृतम् ॥
नक्ताशी चाष्टमीषु स्याद् वत्सरान्ते च धेनुदः
पौरंदरं पुरं याति सुगतिव्रतमुच्यते ॥
विप्रायेन्धनदो यस्तु वर्षादिचतुरस्त्वृतून्
घृतधेनुप्रदो ऽन्ते च स परं ब्रह्म गच्छति
वैश्वानरव्रतं नाम सर्वपापविनाशनम् ॥
एकादश्यां च नक्ताशी यश्चक्रं विनिवेदयेत्
समान्ते वैष्णवं हैमं स विष्णोः पदमाप्नुयात्
एतत् कृष्णव्रतं नाम कल्पान्ते राज्यभाग्भवेत् ॥
पायसाशी समान्ते तु दद्याद्विप्राय गोयुगम्
लक्ष्मीलोकमवाप्नोति ह्य् एतद् देवीव्रतं स्मृतम् ॥
सप्तम्यां नक्तभुग्दद्यात् समान्ते गां पयस्विनीम्
सूर्यलोकमवाप्नोति भानुव्रतमिदं स्मृतम् ॥
चतुर्थ्यां नक्तभुग्दद्याद् अब्दान्ते हेमवारणम्
व्रतं वैनायकं नाम शिवलोकफलप्रदम् ॥
महाफलानि यस्त्यक्त्वा चतुर्मासं द्विजातये
हैमानि कार्त्तिके दद्याद् गोयुगेन समन्वितम्
एतत् फलव्रतं नाम विष्णुलोकफलप्रदम् ॥
यश्चोपवासी सप्तम्यां समान्ते हैमपङ्कजम्
गाश्च वै शक्तितो दद्याद् धेमान्नघटसंयुताः
एतत् सौरव्रतं नाम सूर्यलोकफलप्रदम् ॥
द्वादश द्वादशीर्यस्तु समाप्योपोषणेन च
गोवस्त्रकाञ्चनैर्विप्रान् पूजयेच्छक्तितो नरः
परमं पदं प्राप्नोति विष्णुव्रतमिदं स्मृतम् ॥
कार्त्तिक्यां च वृषोत्सर्गं कृत्वा नक्तं समाचरेत्
शैवं पदमवाप्नोति वार्षव्रतमिदं स्मृतम् ॥
कृच्छ्रान्ते गोप्रदः कुर्याद् भोजनं शक्तितः पदम्
विप्राणां शांकरं याति प्राजापत्यमिदं व्रतम् ॥
चतुर्दश्यां तु नक्ताशी समान्ते गोधनप्रदः
शैवं पदमवाप्नोति त्रैयम्बकमिदं व्रतम् ॥
सप्तरात्रोषितो दद्याद् घृतकुम्भं द्विजातये
घृतव्रतमिदं प्राहुर् ब्रह्मलोकफलप्रदम् ॥
आकाशशायी वर्षासु धेनुमन्ते पयस्विनीम्
शक्रलोके वसेन्नित्यम् इन्द्रव्रतमिदं स्मृतम् ॥
अनग्निपक्कम् अश्नाति तृतीयायां तु यो नरः
गां दत्त्वा शिवमभ्येति पुनरावृत्तिदुर्लभम्
इह चानन्दकृत्पुंसां श्रेयोव्रतमिदं स्मृतम् ॥
हैमं पलद्वयादूर्ध्वं रथमश्वयुगान्वितम्
ददत्कृतोपवासः स्याद् दिवि कल्पशतं वसेत्
कल्पान्ते राजराजः स्याद् अश्वव्रतमिदं स्मृतम् ॥
तद्वद्धेमरथं दद्यात् करिभ्यां संयुतं नरः
सत्यलोके वसेत्कल्पं सहस्रमथ भूपतिः
भवेदुपोषितो भूत्वा करिव्रतमिदं स्मृतम् ॥
उपवासं परित्यज्य समान्ते गोप्रदो भवेत्
यक्षाधिपत्यमाप्नोति सुखव्रतमिदं स्मृतम् ॥
निशि कृत्वा जले वासं प्रभाते गोप्रदो भवेत्
वारुणं लोकमाप्नोति वरुणव्रतमुच्यते ॥
चान्द्रायणं च यः कुर्याद् धैमं चन्द्रं निवेदयेत्
चन्द्रव्रतमिदं प्रोक्तं चन्द्रलोकफलप्रदम् ॥
ज्येष्ठे पञ्चतपाः सायं हेमधेनुप्रदो दिवम्
यात्यष्टमीचतुर्दश्यो रुद्रव्रतमिदं स्मृतम् ॥
सकृद्वितानकं कुर्यात् तृतीयायां शिवालये
समान्ते धेनुदो याति भवानीव्रतमुच्यते ॥
माघे निश्यार्द्रवासाः स्यात् सप्तम्यां गोप्रदो भवेत्
दिवि कल्पमुषित्वेह राजा स्यात्पवनं व्रतम् ॥
त्रिरात्रोपोषितो दद्यात् फाल्गुन्यां भवनं शुभम्
आदित्यलोकमाप्नोति धामव्रतमिदं स्मृतम् ॥
त्रिसंध्यं पूज्य दाम्पत्यम् उपवासी विभूषणैः
अन्नं गाश्च समाप्नोति मोक्षमिन्द्रव्रतादिह ॥
दत्त्वा सितद्वितीयायाम् इन्दोर्लवणभाजनम्
समान्ते गोप्रदो याति विप्राय शिवमन्दिरम्
कल्पान्ते राजराजः स्यात् सोमव्रतमिदं स्मृतम् ॥
प्रतिपद्येकभक्ताशी समान्ते कपिलाप्रदः
वैश्वानरपदं याति शिवव्रतमिदं स्मृतम् ॥
दशम्याम् एकभक्ताशी समान्ते दशधेनुदः
दिशश्च काञ्चनैर्दद्याद् ब्रह्माण्डाधिपतिर्भवेत्
एतद् विश्वव्रतं नाम महापातकनाशनम् ॥
यः पठेच्छृणुयाद्वापि व्रतषष्टिम् अनुत्तमाम्
मन्वन्तरशतं सो ऽपि गन्धर्वाधिपतिर्भवेत् ॥
षष्टिव्रतं नारद पुण्यमेतत् तवोदितं विश्वजनीनमन्यत्
श्रोतुं तवेच्छा तदुदीरयामि प्रियेषु किं वाकथनीयम् अस्ति ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0