मत्स्य पुराण · अध्याय 9
एवं श्रुत्वा मनुः प्राह पुनरेव जनार्दनम्
पूर्वेषां चरितं ब्रूहि मनूनां मधुसूदन ॥
मन्वन्तराणि राजेन्द्र मनूनां चरितं च यत्
प्रमाणं चैव कालस्य तां सृष्टिं च समासतः ॥
एकचित्तः प्रशान्तात्मा शृणु मार्तण्डनन्दन
यामा नाम पुरा देवा आसन् स्वायम्भुवान्तरे ॥
सप्तैव ऋषयः पूर्वे ये मरीच्यादयः स्मृताः
आग्नीध्रश्चाग्निबाहुश्च सहः सवन एव च ॥
ज्योतिष्मान् द्युतिमान् हव्यो मेधा मेधातिथिर् वसुः
स्वायम्भुवस्यास्य मनोर् दशैते वंशवर्धनाः ॥
प्रतिसर्गमिमे कृत्वा जग्मुर्यत्परमंपदम्
एतत् स्वायम्भुवं प्रोक्तं स्वारोचिषमतः परम् ॥
स्वारोचिषस्य तनयाश् चत्वारो देववर्चसः
नभोनभस्यप्रसृति भानवः कीर्तिवर्धनाः ॥
दत्तो निश्च्यवनस्तम्बः प्राणः कश्यप एव च
और्वो बृहस्पतिश्चैव सप्तैते ऋषयः स्मृताः ॥
देवाश्च तुषिता नाम स्मृताः स्वारोचिषे ऽन्तरे
हस्तीन्द्रः सुकृतो मूर्तिर् आपो ज्योतिरयः स्मयः ॥
वसिष्ठस्य सुताः सप्त ये प्रजापतयः स्मृताः
द्वितीयमेतत्कथितं मन्वन्तरमतः परम् ॥
औत्तमीयं प्रवक्ष्यामि तथा मन्वन्तरं शुभम्
मनुर्नामौत्तमिर्यत्र दश पुत्रानजीजनत् ॥
ईष ऊर्जश्च तर्जश् च शुचिः शुक्रस्तथैव च
मधुश् च माधवश्चैव नभस्यो ऽथ नभास्तथा ॥
सहः कनीयानेतेषाम् उदारः कीर्तिवर्धनः
भावनास् तत्र देवाः स्युर् ऊर्जाः सप्तर्षयः स्मृताः ॥
कौकुरुण्डिश्च दाल्भ्यश्च शङ्गः प्रवहणः शिवः
सितश्च सस्मितश्चैव सप्तैते योगवर्धनाः ॥
मन्वन्तरं चतुर्थं तु तामसं नाम विश्रुतम्
कविः पृथुस् तथैवाग्निर् अकपिः कपिरेव च ॥
तथैव जल्पधीमानौ मुनयः सप्त तामसे
साध्या देवगणा यत्र कथितास्तामसे ऽन्तरे ॥
अकल्मषस् तथा धन्वी तपोमूलस्तपोधनः
तपोरतिस्तपस्यश्च तपोद्युतिपरंतपौ ॥
तपोभागी तपोयोगी धर्माचाररताः सदा
तामसस्य सुताः सर्वे दश वंशविवर्धनाः ॥
पञ्चमस्य मनोस् तद्वद् रैवतस्यान्तरं शृणु
देवबाहुः सुबाहुश्च पर्जन्यः सोमपो मुनिः ॥
हिरण्यरोमा सप्ताश्वः सप्तैते ऋषयः स्मृताः
देवाश्चाभूतरजसस् तथा प्रकृतयः शुभाः ॥
अरुणस् तत्त्वदर्शी च वित्तवान्हव्यपः कपिः
युक्तो निरुत्सुकः सत्त्वो निर्मोहो ऽथ प्रकाशकः ॥
धर्मवीर्यबलोपेता दशैते रैवतात्मजाः
भृगुः सुधामा विरजाः सहिष्णुर्नाद एव च ॥
विवस्वानतिनामा च षष्ठे सप्तर्षयो ऽपरे
चाक्षुषस्यान्तरे देवा लेखा नाम परिश्रुताः ॥
ऋभवो ऽथ ऋभाद्याश् च वारिमूला दिवौकसः
चाक्षुषस्यान्तरे प्रोक्ता देवानां पञ्च योनयः ॥
रुरुप्रभृतयस्तद्वच् चाक्षुषस्य सुता दश
प्रोक्ताः स्वायम्भुवे वंशे ये मया पूर्वमेव तु ॥
अन्तरं चाक्षुषं चैतन् मया ते परिकीर्तितम्
सप्तमं तत्प्रवक्ष्यामि यद्वैवस्वतमुच्यते ॥
अत्रिश् चैव वसिष्ठश्च कश्यपो गौतमस्तथा
भरद्वाजस्तथा योगी विश्वामित्रः प्रतापवान् ॥
जमदग्निश्च सप्तैते साम्प्रतं ये महर्षयः
कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदम् ॥
साध्या विश्वे च रुद्राश्च मरुतो वसवो ऽश्विनौ
आदित्याश्च सुरास्तद्वत् सप्त देवगणाः स्मृताः ॥
इक्ष्वाकुप्रमुखाश्चास्य दश पुत्राः स्मृता भुवि
मन्वन्तरेषु सर्वेषु सप्त सप्त महर्षयः ॥
कृत्वा धर्मव्यवस्थानं प्रयान्ति परमं पदम्
सावर्ण्यस्य प्रवक्ष्यामि मनोर्भावि तथान्तरम् ॥
अश्वत्थामा शरद्वांश्च कौशिको गालवस्तथा
शतानन्दः काश्यपश्च रामश्च ऋषयः स्मृताः ॥
धृतिर् वरीयान् यवसः सुवर्णो वष्टिरेव च
चरिष्णुर् ईड्यः सुमतिर् वसुः शुक्रश्च वीर्यवान् ॥
भविष्या दश सावर्णेर् मनोः पुत्राः प्रकीर्तिताः
रौच्यादयस्तथान्ये ऽपि मनवः संप्रकीर्तिताः ॥
रुचेः प्रजापतेः पुत्रो रौच्यो नाम भविष्यति
मनुर् भूतिसुतस् तद्वद् भौत्यो नाम भविष्यति ॥
ततस्तु मेरुसावर्णिर् ब्रह्मसूनुर् मनुः स्मृतः
ऋतश्च ऋतधामा च विष्वक्सेनो मनुस् तथा ॥
अतीतानागताश्चैते मनवः परिकीर्तिताः
षडूनं युगसाहस्रम् एभिर् व्याप्तं नराधिप ॥
स्वे स्वे ऽन्तरे सर्वमिदम् उत्पाद्य सचराचरम्
कल्पक्षये विनिर्वृत्ते मुच्यन्ते ब्रह्मणा सहा ॥
एते युगसहस्रान्ते विनश्यन्ति पुनः पुनः
ब्रह्माद्या विष्णुसायुज्यं याता यास्यन्ति वै द्विजाः ॥
मूल पाठ: Matsyapurāṇa, 1-176 · Edition: Calcutta: Caukhamba Vidyabhavan, 1954. · Data entry Oliver Hellwig · GRETIL (Göttingen) · CC BY-NC-SA 4.0